पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [अनुमानखण्डम् पुरुषः क्वचित्पर्वतादावनवच्छिन्नमूलां धूमरेखां पश्यति तदनन्तरं धूमो वह्निव्याप्य इ. प्रभा. नध्यसप्रतियोगिग्रहाविषर्या नेत्यर्थः । तेन व्याप्तिस्मरणोपयोग्यनुभवजन्यसंस्कारस्य सत्वमाविष्कृतम् ।। स एव पुरुष इति ॥ तादृशसंस्कारवान् पुरुष एवेत्यर्थः । इदंच तनिष्टसंस्कारस्य उद्बुद्धत्वसम्पादनायाभि- हितम् ॥ क्वचित्पर्वतादाविति ॥ सर्वपर्वतैस्सह चक्षुस्संबन्धाभावादिति भावः ॥ अनवच्छिन्नमूला मिति ॥ पर्वतासंबद्धधूमरखाया बहिसामानाधिकरण्याभावेन वहिव्या त्यभाववत्त्वात् तज्ज्ञानस्य व्याप्तिसंब- न्धिज्ञानत्वाभावेन उद्बोधकत्वासंभवात् अनवच्छिन्नमूलामित्युक्त पर्वतसंबद्धामन्तरावच्छेदरहितामित्यर्थः । ए- दिनकरीयम्. रादतस्तदुपपादयति ॥ तथाहीत्यादिना ॥ पश्यतीति ॥ धृमदर्शनस्य च्याप्तिस्मरणे उदधिविधया रामरुद्रीयम्. माननिष्ठप्रत्यक्षकार्यत्वं सङ्गतिः । अत्रानन्तराभिधान प्रयोजकजिज्ञासाजनकज्ञानं सातिनिरूपकज्ञानप्रयोज्यत्वेन विशेषणीयम् । तेन घटादिनिरूपणानन्तरमपि सम्बन्धविशेषज्ञानाधीनप्रत्यक्षज्ञाने तत्कायवेन अनुमानस्मरणस. म्भवेऽपि प्रत्यक्षकार्य न घटादिनिरूपितसङ्गतित्वापत्तिः । अनुमान ज्ञानस्य घटज्ञानाप्रयोज्यत्वात् । प्रकृते च चक्षुरादिना अनुमानस्य व्याप्तिज्ञानस्य जननादनुमाने प्रत्यक्षप्रमाणकार्यत्वरूपोपजीवकत्वमिति भावः । एवमनुमितावपि परामर्शरूपप्रत्यक्ष प्रमितिजन्यत्वमस्तीति प्रत्यक्षप्रमानिरूपणोत्तरमनुमितिनिरूपणामेति घो. ध्यम् । अथ दीपदानं मदीय चक्षुस्साधनं भवितुमर्हति दीपश्चक्षुरुत्तमामिति वदेन चक्षुस्साधनत्वेन बोधितत्वादि- त्यनुमानग दीपदाने यन्त्र प्रवृत्तिस्तत्र तजनितचक्षुरादिव्यतरनुमानोपजीवकतया अनुमाननिरूपणानन्तरमव प्र. त्यक्ष किमिति न निरूपितमिति। नच उपजीवकत्वं कार्यतारूपमेव नतु प्रयोज्यतारूपमिति चक्षुरादौ साक्षादतुमा नजन्यत्वाभावान्नानुमाननिरूपणानन्तरं प्रत्यक्षानरूपणापत्तिगिति वाच्यम् । तथासति शक्तिज्ञानात्मकोपमितेः प. दार्थस्मरण एवोपयोगात् साक्षाच्छाब्दबोधाजनकत्वेनापमित्यनन्तरं शाब्दनिरूपणानुपपत्तेः । न चादृष्टाद्वार- कमुपजीवकत्वमनन्तराभिधानानयामकामात वाच्यम् । यतेष्टसाधनतानुमानेन दर्पणादी प्रवृत्तिस्तत्र दर्पणे. न महाचक्षुर्नाशे तज्जन्यखण्डच व्यक्काचदृष्टाद्वारकोपजीवकत्वस्यापि सम्भवात् । यदि च प्रत्यक्षप्रमाणत्वा- वच्छेदेन नानुमानोपजीवकत्वं मनःश्रवणयोरजन्यत्वादनुमानं च निखिलमेव मनोरूपेन्दियजन्यमिति न वै. परीत्यापादनसम्भव इति विभाव्यते तदा ईश्वरीयव्याप्तिज्ञानस्याप्यनुमितिस्वरूप योग्यत्वेनानुमापकतया त- त्र प्रत्यक्षोपजीवकत्वाभावेन प्रत्यक्षानन्तरमनुमाननिरूपणस्याप्यनुपपत्तिरिति चेत् । मैवम् । नहि यवत्स- ङ्गतं भवति तत्तदनन्तरं निरूपणीयमिति नियमः सेनानुमाननिरूपणानन्तरं प्रत्यक्षनिरूपणापत्तिः । किं तु य- द्यदनन्तरं निरूप्यं भवति तत्तत्सङ्गतं भवतीत्येवं व्याप्तिः नासङ्गते प्रयुञ्जीतेत्यभियुक्तो केः । एवं च कारणे कार्य वा ज्ञाते किमस्य कार्य कारणं वेति जिज्ञासोदयेन उपजीवकत्वमुपजीव्यत्वं च द्वयमपि सङ्गतिः । अत एव चिन्तामणावनुमितिनिरूपणानन्तरमनुमाननिरूपणमपि सङ्गच्छते । न च कार्यत्वकारणत्वयोयोरपि सङ्गतित्वे सङ्गतेः पोढात्वं व्यान्येत तथाचोकं सप्रसङ्ग उपोद्धातो हेतुताऽवसंरस्तथा । निर्वाहकैक्य कार्यक्ये पोढा सतिरिष्यत इति वाच्यम् । हे तुताया निरूपकतासम्बन्धेन आश्रयतासम्बन्धेन च सतित्वेन का. यत्वस्य हेतुतायामेवान्तर्भावात् । कारणतनिरूपकत्वस्य च कार्यतारूपत्वात् । तत्र उपोद्वातादिभिन्नः स्मर- णप्रयोजकसम्बन्धः प्रसङ्गः । प्रकृतोपपादकत्वमुपोद्धातः । न चैतस्य प्रयोजकतात्मकहेतुतथा गतार्थता श- कनीया । अनुमितिलक्षणोपोद्वातसङ्गत्या विशिष्टपरामर्शस्यानुमितिहेतुताव्यवस्थापनात् नहि लक्षणे विशिष्टपरामर्शहेतुत्वं साक्षात्परम्परया कारणं किंतु उपपादकमेवेति ध्येयम् । अवसरो- ऽनन्तरवक्तव्यत्वं यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयोरुभयोर्निरूपणप्राप्तौ बहु. वादिसम्मतत्वेन प्रथममनुमान एवं जिज्ञासोदयेन अनुमाननिरूपणेन प्रतिबन्धकजिज्ञासानिवृ. जाववसरसङ्गत्या उपमाननिरूपणमिति मन्तव्यम् । निर्वाहकैक्यं एकप्रयोजकप्रयोज्यत्वम् । कार्यक्यं एक. - वा