पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः । युक्तस्येति ॥ युक्तस्य तावद्योगजधर्मसहायेन मनसा आकाशपरमाण्वादिनिखिलपदार्थ- गोचरं ज्ञानं सर्वदैव भवितुमहति द्वितीयस्य चिन्ताविशेयोऽपि सहकारीति ॥ इति श्रीविश्वनाथपञ्चानन भट्टाचार्यविरचितायां सिद्धान्त भुक्तावल्या प्रत्यक्षपरिच्छेदः।। प्रभा. निर्वाहाभावाश्च ज्ञानलक्षणायाः पृथकारणत्वव्यवस्थापनपूर्वकगौरवदर्शनञ्च गगनारविन्दे सौरभ्यविचारतुल्यामि. तिप्रतिभाति ॥चिन्ताविशेषोऽपीति ॥ चिन्ताविशेषयोगाभ्यासजानितधर्मविशेषोभय सहकृतमनसा युनान- स्याकाशपरमाण्वादिसकलपदार्थविषयकमावसप्रत्यक्ष भवतीत्यर्थः । इदमुपलक्षणं यद्यदिन्द्रियस्य यद्यत् योग्य स्थूल सूक्ष्म सनिकृष्टमसनिकृष्टं भूतं भव्यं च तत्सर्वमपि योगाभ्यास जनितधर्मविशेषसहकृततत्तदिन्द्रियेणापि गृह्यते । परंतु चक्षुरादियोग्यं त्वगादिनान गृह्यत इत्येवावदयमहीकार्यम् । अन्यथा तत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलखनात् स्थूलसूक्ष्मादिबुद्धौ स्यात् न रूपे श्रोत्रवृत्तितेति प्रशस्तपादाचार्योक्तिविरोधापत्तरित्या पि बोध्यं । एतादृशवचनार्थस्तु इत्थं तत्रेति योगाभ्यास जनितधर्मविशेष इत्यर्थः। अपिशब्दः अतिशय इत्युत्तरं योज्यः । अतिशय इति । मनस्सहकारेण आकाशपरमावादिसकलपदार्थविषयकप्रत्यक्षजननसामर्थ्या. तिरिक्तसामार्थविशेषोऽपीत्यर्थः । • दृट इति । प्रमित इत्यर्थः । प्रामाणिक इति यावत् । कीदृशकार्य जन- ने उक्तसामर्थ्यविशेष उपयुज्यत इत्यत आह । स्वस्वेत्यादि । स्वस्वार्थानतिलङ्घनादित्यत्र ल्यब्लोपे पञ्चमीविधानात् स्वस्वार्थाननतिलक्षयेत्यर्थः । तत्तदिन्द्रिय योग्य यावदान्विषयीकृत्येति यावत् । उक्तार्थमेव विवृणोति । स्थूलसूक्ष्मादीति । आदिना सनिकृष्टासनिकृष्टातीतादेः परिग्रहः । तथाच स्थूलसू. मसनिकृष्टासनिकृष्टातीतादिविषयकवाह्यतत्तादिन्द्रियजन्यप्रत्यक्ष इति फलितार्थः । एतावता तादृशधर्मे बाह्येन्द्रियेणातीतादितत्तदिन्द्रिययोग्यसकलपदार्थविषयकप्रत्यक्षजननसामथ्यविशेषमुपपाद्य इदानी तादृशध- में तत्तदिन्द्रियेण तत्तदिन्द्रियायोग्यसकलपदार्थविषयक प्रत्यक्षजननसामर्थ्य विशेषाभावमुपपादयति । न रूप इति । यत इत्यादिः । रूपे श्रोत्रवृत्तिता न स्यादिति योजना । श्रोत्रवृत्तिता श्रोत्रमाह्यता । न स्यादिति नास्तीत्यर्थः । तथाच यतः रूपे श्रोत्रमाह्यता नास्ति अतस्तादृशधर्मे तत्तदिन्द्रियेण तत्तदिन्द्रियायोग्यस- कलपदार्थविषयकप्रत्यक्षजननसामर्थ्यविशेषोऽपि नास्तीत्यर्थः । इति राक्षेपः । इति श्रीमदालरवेशपयःपारावारराकासुधाकररायसिंहपण्डित. कृतमु कावळप्रिभायां प्रत्यक्षपरिच्छेदः समाप्तः ॥ दिनकरीयम्.. षयमुस्थाविशेष्यकं मानसं तत्र विशेषणज्ञानकारणतयैव निर्वाह इत्यत आह ॥ एवमिति ॥ ज्ञानलक्षणया ज्ञानलक्षणयव । तत्र धूमत्वज्ञानरूप सामान्यलक्षणायाः स्वविषयधूमत्वाश्रयत्व सम्बन्धेन धूलीपटलेऽभावेन सामान्यलक्षणयाऽनुव्यवसाये धूलीपटलभानासम्भवादिति भावः ॥६५॥ सर्वदेवेति ॥ ध्यानाद्यभावेऽपीत्यर्थः ॥ इति श्रीभारद्वाज कुलाम्बुधिपूर्णचन्द्रभवालकृष्णात्मज- महादेवभविराचित मुक्तावलीप्रकाशे प्रत्यक्षखण्डम् ।। रामरुद्रीयम्. षयमुख्यविशेष्यकमिति ॥ तथा च तद्विषयकलौकिकप्रत्यक्ष प्रति तद्विषयकज्ञानत्वेन कारणत्वमावश्यक- मन्यथा घटादिविशेष्यकालौकिकभानेन धटादेर्भानस्यालीकिकत्वापत्तेरिति भावः ॥ इत्यत आहेति ॥ इत्यभिप्रायेण ज्ञानलक्षणप्रत्यासत्तेः प्रयोजनमाहेत्यर्थः इति शिवम् ॥ ॥ इति दिनकरीयतरङ्गिण्या प्रत्यक्षतरङ्गः ॥ ।