पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता - योगजो द्विविधः प्रोक्तो युक्त युञ्जानभेदतः ॥६५॥ योगज इति ॥ योगाभ्यास जनितो धर्मविशेषः श्रुतिपुराणादिप्रतिपाद्य इत्यर्थः। यु- क्तयुञ्जानरूपयोगिद्वैविध्याद्धर्मस्यापि द्वैविध्यमिति भावः ॥ ६५ ॥ प्रभा. नच ज्ञानलक्षणायाः कारणत्वान्तरकल्पने गौरवभियैव सामान्य प्रकारकत्वस्य कार्यतावच्छेदके प्रवेश इति शङ्कयं विशेषणज्ञानहेतुतयैव निर्वाहे ज्ञानलक्षणायाः कारणत्वान्तरकल्पनाविरहादिति । ननु विशेषणज्ञानज. न्यतावच्छेदकं विशिष्टयुद्धित्वं ज्ञानलक्षणायास्तु विशिष्टप्रत्यक्षत्वं इति ने कृप्तेन निर्वाहः एवं यत्र ज्ञानलक्षणया स्वविषयमुख्य विशेष्य मानसं तत्र विशेषणज्ञानकारणतया न निर्वाह इत्यत आह एवमि. त्याहुः । अस्मिन्कल्पे सौरमत्वसामान्यलक्षणायाः कार्यतावच्छेदककोटौ सौरभत्वनिवेशे प्रयोजनाभावा. खेति दूषणमापाततः सौरभत्वादौ प्रत्यासत्तितावच्छेदकसंवन्धेन सामान्यप्रत्यासत्त्यभावेन तादृशप्रत्यक्षनि- रूपितविषयत्वासंभवस्य दर्शितत्वात् प्रयोजनाभावेन तस्य कार्यतावच्छेदककोटयप्रवेशकथनं तदुपरि ज्ञानलक्षणायाः कारणत्वान्तराकल्पनरूपलाघवप्रमाणेन सौरभत्वादिप्रकारकत्वस्य कार्यतावच्छेदकप्रवेशाशङ्कन तत्परिहाराय विशेषणज्ञानहेतुतया ज्ञानलक्षणायाश्चारिताय नजीकृत्य पृथकारणत्वानजीकारप्रयुक्तलाघवस्थापनं च नियुक्तिकमेवं धूलीपरलं धूमत्वेन यत्र ज्ञातमित्यादिमुक्काबलीग्रन्थावतरणाय नन्वित्यादिना विशेषणज्ञा' नकार्यतावच्छेदकं विशिष्ट्युद्धित्वं ज्ञानलक्षणायाः कार्यतावच्छेदकं विशिष्टनलक्षत्वमित्ति कार्यतावच्छेदकर्मदे. न कृप्तेन निर्वाहाभावात् । यत्र घटज्ञानानन्तरं घटमुख्यविशेष्यकं मानसं जातं तत्र विशेषणज्ञानहेतुतया दिनकरीयम् ज्ञानलक्षणयैव । तदानी सौरभत्वांशे धर्मान्तरस्याग्रहीततया सामान्य लक्षणया तद्भानानिर्वाहादिति भावः । ननु धर्मान्तरस्य सौरभत्वांशेऽग्रहेऽपि सौरभत्वसामान्य लक्षणथैव सौरभत्वादेर्भानमस्तु सौरभत्वप्रकारकसौरभ- विशेष्य कत्वस्यैव तत्कार्यतावच्छेदकत्वादिति चेन्न । सौरभत्वादिविषयताप्रयोजिकायाः सामान्यलक्षणायाः स्वविषयसौरभत्वादिमत्त्वरूप सम्बन्धस्य सौरभत्वे अभावेन 'सामान्यलक्षणया तद्भानानिर्वाहात् । सौरभत्वसामान्यलक्षणायाः कार्यतावच्छेदके सौरभत्वप्रकारकत्वनिवेशे प्रयोजनाभावाच । नच ज्ञानलक्षणा- याः कारणत्वान्तर कल्पने गौरवामियैव सामान्य प्रकारकत्वस्य कार्यतावच्छेदके निवेश इति वाच्यम् । विशे. षणज्ञानहेतुतयैव निर्वाहे ज्ञानलक्षणायाः कारणस्वान्तरकल्पनाविरहादिति । ननु विशेषणज्ञानजन्यतावच्छे- दकं विशिष्टबुद्धित्वं ज्ञानलक्षणाचास्तु विशिष्टप्रत्यक्षत्वमिति नं क्लप्तेन निर्वाह एवं यत्र ज्ञानलक्षणया स्वधि- रामरुद्रीयम्. सामान्यलक्षणयां प्रमेयत्वादिना तद्भानसम्भवेऽपि स्वरूपतः सौरभलभानं ज्ञानलक्षणानजीकारे न सम्भवती- ति भावः । धर्मान्तरेत्यत्रान्तरपदं सम्पातायातं सौरमत्वांशे कस्यापि प्रकारतयाऽभानादिति बोध्यम् ॥ तद्भानानिर्वाहादिति ॥ सौरमत्वज्ञानरूपसामान्य प्रत्यासत्तेः सौरभत्वप्रकारतानिरूपितालौकिकविषयता- संसर्गस्य कार्यतावच्छेदकसम्बन्धत्वेऽपि प्रत्यक्षे सनिकृष्टस्यैव भानमिति नियमेन सौरभत्वे सामान्यप्र. त्यासत्तेः कारणतावच्छेदकसम्बन्धेनाभावादिति भावः । अलौकिकविषयतासंवन्धेन प्रत्यक्षत्वावच्छिन्नं प्रत्येव सौरभत्वादिज्ञानस्य कारणंता स्वीकार्या सौरभत्वादेः प्रकारतया भानं तु विशेषणज्ञानरूपकारणान्तरवला. देवोपस्थिताबाधितधर्मान्तरभानमपि सामान्यप्रत्यासात्तिजन्यप्रत्यक्षे इष्यत एवं प्रत्यक्षसन्निकर्षानाश्रयस्य न भानमिति नियमोऽपि नाङ्गीक्रियत एव घटादिचाक्षुषे पटादेरभानं तु तद्भास्ककारणाभावादेव सम्भ- वतीलाशयेनाह ॥ कार्यतावच्छेदक इति । तथाविधसम्बन्ध इत्यर्थः ॥ विशिष्टप्रत्यक्षत्वमिति ॥ तत्प्रकारकप्रत्यक्षं प्रति तज्ज्ञानत्वेन कारणत्वमित्यभिप्रायेणेदं तथा व कार्यतावच्छेदकधर्मभेदेन कार्य- कारणभाक्योर्भिन्नत्वादेकेन परस्यान्यथासिद्धिर्न सम्भवतीति भावः । ननु प्रत्यक्ष ज्ञानप्रत्यासत्तेः कारणता- इनङ्गीकरणीया विशेषणज्ञानकारणतायां तु युक्तिः पूर्वमुपदर्शितैवेत्यत आह ॥ एवं यत्रेति ॥ स्ववि-