पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुकावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा तथाच चाक्षुफ्त्वावच्छिन्नं प्रत्येव आलोकसंयोगावच्छिन्नत्वघटितविशेषणताया हेतुतया तादृशाभावस्पार्श नं प्रत्युद्भूतस्पर्शाचच्छिन्नमहत्त्वावच्छिन्नत्वसंयुक्त विशेषणताया एव हेतुत्वेन तादृशविशेषणतायाः तादृशगृहनि- घटाद्यभावेऽपि सत्त्वात् तत्र न घटाभाक्तार्शनानुपपत्तिारति भावः । वस्तुतस्तु अभावोपलम्भे योग्यानु. पलब्धः प्रमाणत्वेन तत्रेन्द्रियस्य करणत्वाभावादिन्द्रियसंयुक्त विशेषणतायाः कुतः साभकर्षवमिति मीमांसका. क्षप कृप्तप्रमाणेनाभावप्रत्यक्षे जननीये योग्यानुपलब्धे: सहकारित्वमात्रेण निर्वाहे न तस्याः प्रमाणान्तरत्वं गौरधादित्यभिप्रायेण परिहरति ॥ मूले यदि स्यादिति ॥ उक्ताशयमेव प्रकाश यति ॥ मुक्तावल्यों अभावप्रत्यय इति ॥ कारणत्वमिति ॥ कारणत्वमेवेत्यर्थः एवं कारेण करणत्वं व्यवच्छिद्यते योग्यताविशिष्टानुपलब्धेः कारणावं व्यवस्थापयितुं केवलानुपलब्धेः कारणत्वं गिराकरोति ॥ तथा हीत्यादि ॥ भूतलादो घटादिज्ञाने जात इति ॥ भूतलादिविशेष्यक संयोगसंबन्धेन घटादि- प्रकारकानाहार्य चाक्षुषज्ञाने जात एवेत्यर्थः । एक्कारेण स्पार्शनमानुगानिकं च घटादिप्रकारकशानं व्यवच्छिद्यते ॥ घटाभावादिकं न ज्ञायत इति ॥ भूतलादावित्यादिः । संयोगसंबन्धावच्छि- नघटत्वाद्यवच्छिनप्रतियोगिताकामावनिष्टलौकिकप्तकार ताशालिचाक्षुष लौकिकविषयतासंवन्धेन भूतलादों न जायत इत्यर्थः ॥ देनेति ॥ तादृशचाक्षुषस्याजायमानत्वेनेत्यर्थः ॥ अमायोपलम्भ इति ॥ लौकिकविशेष्यतासंवन्धेन तादृशचाक्षुष इत्यर्थः ॥ प्रतियोग्युपलम्भाभाव · इति । संयोगसं. बन्धेन घटादिप्रकारकचाक्षुषस्य तादृशविशेष्यतासंबन्धावच्छिन्न प्रतियोगिताकाभाव एब कारणमित्यर्थः । नतु घटादिप्रकार कानिश्चयत्वावच्छिन्नाभावः कारणं तथा सति इन्द्रियान्तरजन्ये आनुमानिके वा घटादिनिश्चये घटाभावादिचाक्षुषानुपपत्तिः । एवकार घटितचाक्यार्थस्तु –तन्नेति अत इत्यादिः प्रतियोग्युप- लम्भाभाव इत्यर्थः ॥ योग्यताप्यपेक्षितेति ॥ अतिरिक्तः कश्चन धर्मोऽपि कारणतावच्छेदकतया स्वीकार्य इत्यर्थः । मणिकारमतानुसारेण योग्यत्वं वक्तुं मणिग्रन्थमुदाहृत्य तदर्थमाह ॥ सा चेत्यादिना ॥ स उपलम्भाभाष इति ॥ घटादिसत्त्वापादककापत्तिविषयोपलम्भाभाव इत्यर्थः। घटादिसत्त्वस्यापादक त्वेन उपलम्मस्थापाद्यत्वेन चापादापाययोाप्यव्यापकभावलाभात् घटादिसत्त्वनिष्ठव्याप्यतानिरूपित- व्यापकताश्रयोपलम्भप्रतियोगिताकाभाव इति फलितोऽर्थः । तेन तदापादककापत्तियत्र नोत्पन्ना तत्र नि- रुक्त कारणाभावादभावप्रत्यक्षानुपपत्तिरिति दूपणत्य नावकाशः । ननु घटादिसत्त्वं न उपलम्भव्याप्यं अन्धका- रविशिष्टगृहे घटा दिसत्त्वेऽप्युपलम्भाशावादित्याशङ्का परिहरति । तथाहीत्यादि ॥ यत्रालोकसंयोगा. दिकं वर्तत इति ॥ यस्मिन्नधिकरणे आलोकसंयोगाद्यबस्छिनचक्षुस्योगों वर्तत इत्यर्थः ॥तन यद्यल घटस्स्यादित्यादि । तथाच केवलघटसत्यस्य उपलम्भाव्याप्यत्वेऽपि आलोकसंयोगादिसमवहि- तघरसत्त्वम्योपलम्भव्याप्यत्वात् तादृशव्यापकताश्रयोपलम्भप्रसिद्धया तदभावस्य कारणत्वं संभवत्येवेति भाषः । अबलोकसंयोगादिसमवहित घटादिसत्त्वनिष्ठव्याप्यतानिरूपितव्यापकताश्रयत्वस्य न प्रतियोगिताब- च्छेदककोटिप्रवेशः गौरवात्प्रयोजनाभावात् किंतु तादृशव्यापकतायोपलम्भः घटादिप्रकारकलौकिकचाक्षुषमे- वेति ताशचाक्षुषत्वरूपप्रतियोगितावच्छेदकधर्मपरिचायक एव स धर्मः एवंच लौकिकविशेष्यतासंवश्वाव. च्छिन्नघटादिप्रकारकचाक्षुषत्वावच्छिन्नप्रतियोगिताकत्वरूपयोग्यताविशिष्टाभावः लौकिकविशेष्यतासंबन्धना. भावादिनिष्ठलौकिकप्रकारताशालिचाक्षुषत्वावच्छिन्नं प्रांत कारणमिति कार्यकारणभावः फलितः । एवंन्च घटाभावादिस्पार्शनेऽपि घटादिस्पार्शनामावः निरुक्तयोग्यत्वेन कारणमिति । तथाच तादशव्यापकता- अयोपलम्भप्रतियोगिकत्वरूपयोग्यत्वं लौकिकविशेष्यतासंबन्धावच्छिन्नघटादिप्रकारकचाक्षुषत्वाद्यवच्छिन्न- प्रतियोगिताकत्वरूपमेव पर्यवसितं अतः इन्द्रियान्तरजन्यस्यानुमानिकस्य वा घटादिनिर्णयस्यामात्रस्य नि रुक्तयोग्यत्वरूप कारणतावच्छेदकानाक्रान्ततया तादृशनिर्णयकाले न घटाभावादिचाक्षुषानुपपत्तिरिति । ननु जलपरमाणौ पृथिवीत्वप्रकारकचाक्षुषस्य लौकिकविशेष्यतासंबन्धेनाभावसत्त्वात् तत पृथिवी- स्वाभावचाक्षुषापत्तिः एवमन्धकारादिविशिष्टगृहे घटादिप्नकारकचाक्षुषस्य लौकिकविशेष्यतासंब.