पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता । व घटाभावादेः प्रत्यक्षं भवति अन्धकारे तु नापादयितुं शक्यते तेन घदाभावादेरन्धका- प्रभा. - शालिचाक्षुषसामग्राम्सत्त्वादिति भावः ।। तत्रेति ॥ देन्युपलक्षकं तादृशाधिकरण इत्यर्थः ॥ भवनीति॥ तादृशोपलम्भस्य विशेष्यतासंबन्धावच्छिन्नपातयोगिताकाभाव रात्वादिति भावः । तथाच तादृश चक्षुनिक र्षसहकृततनिष्ठव्याप्यतानिरूपित्तव्यापकतानयत्वतदुपलम्भस्य विशेष्यतासंबन्धावच्छिन्नन्नतियोगिताकाभा. वः तत्प्रतियोगिकाभावनिष्टलौकिकविषयताशालिप्रत्यक्षे हेतुरिति समुदितग्रन्थतात्पर्यार्थः । यद्वा तनिष्ठव्या. प्यतानिरूपितव्यापकत्वं तनिष्टकारणतानिरूपित कार्यत्वमेवेति तादृशकारणत्वघटितयोग्यत्वविशिष्टानुपलब्धे. हेतुत्वमित्यर्थः । अथवा तादृशचक्षुस्सन्निकर्षसहकृतविषयविशेषनिष्ठकारणतानिरूपितकार्यत्वस्य उपलम्भे ला- भेन उपलम्भस्य तनिष्टलौकिकप्रकारताशालित्वं तद्यापकतन्निष्टप्रकारतानिरूपिततदधिकरणनिष्टलौकिकविष- यताशालिप्रत्यक्षत्वं वा लभ्यते । एवंच तन्निष्ठप्रकारताशालिनत्यक्षस्य लौकिकविशेष्यतासंबन्धावच्छिन्न प्रति. योगिताकत्वरूपयोग्यताविशिष्टाभानः तादृशप्रत्यक्षे हेतुरिति तत्त्वामिति हृदयम् । नच स्वीय घटादिनिष्ठप्रकारता- निरूपितलौकिकविशेष्यतासंबन्धावच्छिन्न-वाक्षुषत्वाधवच्छिन्न प्रतियोगिताकत्वरूपोग्यत्वविशिष्टाभावस्य ध. टादिप्रतियोगिकाभावनिष्ठलौकिकविषयताशालिचाक्षुषत्वाद्यवच्छिन्नं प्रति हेतुत्वमिति पर्यवसितम् । एवंच अ- नाकारविशिष्टगृहनिपटात्यन्ताभावस्य चाक्षुषत्वापत्तिः तादृशगृहे निरुक्तयोग्यानुपलम्भसत्त्वात् इति वाच्यं तादशगृहे घटादिसत्त्वे तदभावरूपविषयाभावादेव तत्प्रत्यक्षापत्यभावात् तत्र घटाधभावसत्वे तु आलोकसंयो. गावाच्छन्न चक्षुःसंयुक्तविशेषणतारूप सन्निाभावेनैव तत्प्रत्यक्षापत्यभावात् एतेन पृथिवीत्वनिष्ठप्रकारता. निरूपितलौकिकविशेष्यासंबन्धावच्छिन्न चाक्षुषत्वाधवाच्छन्न प्रतियोगिताकाभावरूप योग्यानुपलम्माय जलप- रमाणौ सत्त्वात् तत्र पृथिवीत्वाभावप्रत्यक्षापत्तिरिति कैश्चित्प्रलपितमपास्तम्। परमागोमहत्त्वामावेन पृथिवीत्या. भावनिष्ठजलपरमाणुनिरूपित्तविशेषणता या महत्त्वाद्यवच्छिन्नचक्षुस्संयोगविशिष्टनिरूपितविशेषणतात्वाभाचार दिनकरीयम्. निष्टव्याप्तिनिरूपकत्वं अत्रच तदापादककापत्तियत्न नात्पन्ना तत्र तदभावप्रत्यक्षानुपपत्तिरिति योग्यत्वनिषेशः नच प्रतियोगिसत्त्वस्योरलम्भव्याप्यत्वं न निर्विशेषितस्य उपलम्भकसामर यन्तरविरहे प्रतियोगिसत्वेऽप्युप लम्भाभावात् कि तु महत्त्वोद्भूतरूपाद्यवच्छिन्नस्थैव एवं च महत्त्वादिविशिष्टपथिवीत्वस्योपलम्भव्याप्यत्वा- जलपरमाणौ पृथिवीत्वाभाषप्रत्यक्षापत्तिरिति वाच्यम् । तदधिकरण वृत्तिधर्मानच्छिन्नत्वस्य योग्यताघटकी- भूतव्याप्त्यशे निवेशात महत्त्वस्य जलपरमाण्यवृत्तित्वेन तादृशव्याप्ती तादृशधर्मानच्छिनावाभावात्। न न रामरुद्रीयम्. योग्यता विवक्षितेत्यत आह ॥ तत्रेति ॥ भूतलादौ चक्षुःसंयोगानन्तरमापादनं विनापि घ. टो नास्तीति प्रतीतरनुभवसिद्धतया योग्यतानिवेश इति भावः । ननु घटादिसत्त्वेऽपि चक्षुःसंयोगाद्यभावे घटोपलम्भानुदद्यान्न केवल प्रतियोगिसत्त्वस्य व्यापकता उपलम्भ इति काप्यभावप्रत्यक्षं न स्यात् । यदि च प्र. तियोगिसत्त्वातिरिक्त प्रतियोग्युपलम्भकारणकूट विशिष्टप्रतियोगिसत्त्वव्यापकता विवक्षितेत्युच्यते तदा पर- माणौ पृथिवीत्वाभावप्रत्यक्षवारणमशक्यमेवेत्याशङ्कते ॥ नचेति ॥ वाच्यामिति परेणान्वयः ॥ सामग्या न्तरेति ॥ तादृशसामनीघटकप्रतियोगिसत्त्वातिरिक्त कारणेत्यर्थः । यथाश्रुते यत्किञ्चित्सामग्रीसत्त्वे तदन्त. रविरहेऽपि प्रतियोग्युपलम्भादसङ्गत्यापत्तेः । महत्त्वोद्भूतरूपेत्युपलक्षणं प्रतियोगिसत्त्वातिरिक्त प्रतियोग्युपलम्भ- कारणकूटावच्छिन्नस्यैव प्रतियोगिसत्त्वस्योपलम्भव्याप्यत्वात् । नचैवं तथाविधनानाचक्षुःसंयोगव्यक्तीनां त्व. क्संयोगव्यक्तीनां च एकत्रासम्भवेन तादृशप्रतियोगिसत्त्वं न कुत्रापीति वाच्यम् । यत्किञ्चिदनुभवनिष्टका- येतानिरूपित कारणतावच्छेद का याचन्तः प्रतियोगिसत्वातिरिक्ततत्तदवच्छिन्नकूटविशिष्टे प्रतियोगिसत्त्वव्याप- कताया विवक्षणीयत्वात् ।। तदधिकरणेति ॥ यदधिकरणाविशेष्यकाभावप्रत्यक्षत्वं कार्यतावच्छेदकं तद- धिकरणेत्यर्थः । तथा चैतलाभायैव पूर्व तदधिकरणकतदापादककेत्यत्र तदधिकरण केत्युक्तामिति भावः ॥ तादृशधर्मानवच्छिन्नत्वाभावादिति ॥ परमाण्ववृत्तिधर्मापच्छिन्नत्वाभावाभावादित्यर्थः । तथा च 57