पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता ! कं न ज्ञायते तेनाभावोपलम्भे प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताप्यपेक्षिता सा प्रभा. नघटत्वाद्यवच्छिन्नप्रकारताशाल्यनाहार्यनिश्चय इत्यर्थः ॥ घटाभावादिकं न ज्ञायत इति ॥ तदिन्द्रिय - जन्यसंयोगादिसंबन्धावच्छिन्नघटत्वाद्यवच्छिन्न प्रतियोगिताकाभावत्वावच्छिन्नलौकिकप्रकारताशाल्यनाहार्यज्ञा-- नत्वावच्छिन्नं न जायत इत्यर्थः । अन्न प्रतिबन्धकतावच्छेदकप्रतिबध्यतावच्छेदककोटी प्रविष्टविशेषणानां प्र- योजनं तु स्फुटत्वान्नाक्तम् । विशेष्यतासंघन्ध एवं प्रतिवन्धकताबच्छेदकसंबन्धः प्रतिबध्यतावच्छेदक- संबन्धश्चेति हृदयम् ॥ तेनेति । तादृशज्ञानत्वावच्छिन्न प्रति तादृशनिश्रयत्वावच्छिन्नस्य प्रतिवन्धकत्वेनत्यर्थः ।। अभावोपलम्भ इति ॥ विशेष्यत्तासंबन्धेन तादृशज्ञानत्यावच्छिन्न इत्यर्थः ॥ प्रतियोग्युपलम्भाभाव इति ॥ विशेष्यतासंबन्धावच्छिन्नतादृशानश्च यत्वावच्छिन्न प्रतियोगिताकाभाव इत्यर्थः ॥ कारणमिति ॥ अभावीयदैशिकविशेषणतासंबन्धावच्छिन्न कारणताधेय इत्यर्थः । एतावता प्रतियोग्यनुपलम्भय हेतुत्वं प्रसा- दिनकरीयम्. न्यथा भ्रमात्पत्तिकाले तदभावप्रत्यक्षापत्तिरिति वाच्यम् । विनश्यदवस्थदोषाचन भ्रमत्तत्र श्रमेस्पत्तिकाले प्रतिबन्धकीभूतदोषाभावस्य सत्त्वादभाव प्रत्यक्षापत्तेः ॥ अभावोपलम्भे तदिन्द्रियजन्य तत्सम्बन्धावच्छि नतदभावलौकिकप्रत्यक्षे ॥ प्रतियोग्युपलम्भाभाव इति ॥ तदिन्द्रियजन्यानाहार्यतत्संसर्गकत प्रकारको घलम्भाभाव इत्यर्थः । इन्द्रियान्तरजन्य आनुमानिके च तदुपलम्भे सत्यपि तदभावप्रत्यक्षातादिन्द्रियजन्ये. ति । अभावप्रत्यक्षहेतुप्रतियोग्यारोप सत्त्वेऽग्रभावप्रत्यक्षादनाहार्योति ॥ तत्र प्रतियोग्युप लम्भाभावे ॥ अ पेक्षितेति ॥ तेन न जलपरमाण्यादौ पृथिवीत्वाभावादेः प्रत्यक्षमिति भावः । मणिकृन्मतानुसारेण योग्यत्तां रामरुद्रीयम् . वेन तदानीमभावे विशेपगतःसन्निकर्षस्यैव अभावादतो ज्ञानपदं ब्रमार्थकमित्याह ॥ घटादिभ्रम इति ॥ ननु घटभ्रमकाले घटाद्यभावप्रत्यक्षानुदयेन अभाव प्रत्यक्ष प्रतियोगिभ्रम जनकदोषाभाव - स्यैव कारणत्वमस्तु न तु प्रत्तियोग्युपलम्भाभावस्थ तत्कारणता तथासत्यपि भ्रमोत्पत्तिकाले अभा- वप्रत्यक्षापत्तेरवारणादित्याशङ्कने ॥ न चेति ॥ दोषाभावस्थाभावप्रत्यक्षकार गत्वेऽपि यत्र विनश्य- दवाथापनदोषात् घटादिभ्रमः तत्र भ्रमानन्तरमभावप्रत्यक्षदारणाय प्रतियोगिन उपलम्भाभावस्यापि कारणत्वमावश्यकामिति समाधत्ते ॥ विनश्यवस्थेति ॥ वस्तुतः प्रतिबन्धकाभविस्य कार्यका - लवृत्तित्वेन कारणतया प्रतियोग्युपलम्भस्याभावप्रत्यक्षप्रतिवन्धकतया कारणीभूताभावप्रतियोगित्वेन प्र. तिबन्धकताया दुरपह्नवतया चाभाव प्रत्यक्षोत्पत्तिकालेऽपि प्रतियोग्युपलम्भाभावस्यापेक्षिततया दोषप्र. तिवन्धकतां विनैव उपपत्तिरित्यवधातव्यम् ॥ तदिन्द्रियजन्येतीति ॥ कारणतावच्छेदककोटौ का. यतावच्छेदककोटौ चेति शेषः ॥ अभावप्रत्यक्षहेत्विति ॥ इदञ्चाभाव प्रत्यक्षे प्रतियोग्यारोपस्या- पि कारणत्वमिति प्राचीनमताभिप्रायेण । न चैव यत्र प्रसज्यत इत्यनेन मूलकारेणापि तादृशापत्तिसहकारेणै- वाभावस्य प्रत्यक्षोपगमात्तादृशापत्तरपि घटप्रकारकतया स्वमतेऽपि तस्य हेतुता सिद्धवेत्याशङ्कनीयन् । घटप्र. कारकोपलम्भाविषय: स्यादित्यापत्तेर्भूतले घटप्रकारकत्वात् यद्यत्र घटः स्यादिति तु आपत्तिकारणीभूनमापा- दकवत्ताज्ञानप्रदर्शनपरमेव नत्वापत्तिविषयाभिलापरूपं तथाचापत्तेः कारणत्वेऽपि तस्याः घटप्रकारकत्वेन स्व मते प्रतियोग्यारोपस्य कारणत्वाप्रसक्तरित्येतादृशापत्तियोग्यतैवापेक्षिता नत्वापत्तिरपीत्यप्रे वक्ष्यमाणत्वाचे. ति मन्तव्यम् ॥ अनाहार्यतीति । एवमेकसंसर्गेण प्रतियोगिप्रकारकज्ञानसत्त्वेऽप्यन्यसंसर्गेणाभाव प्रत्यक्षो. त्पत्त्या उभयत्र संसर्गनिवेश इत्यपि बोध्यम् । ननु मूले · अभावप्रत्यक्षजनकप्रतियोगितावच्छेदकावच्छिन्नत- त्सम्बन्धावच्छिन्न प्रकारतानिरूपिततदधिकरणनिष्टविशेष्यताशाल्युपलम्भाभावे योग्यता निवेशिता तत्प्रयोजन तु नोक्तमतस्तत्प्रयोजनं प्रदर्शयन् तद्वैयर्थ्यशङ्कामपाकरोति । तेनेत्यादि । तथा च तदनिवेशे जलपरमा- गुविशेष्यकसमवायावच्छिन्नपृथिवीत्वत्वावच्छिन्नप्रकार कोपलम्भाभावरूपकारणबलात्तत्र पृथिवीत्वामावप्रत्य क्षापत्तिरिति भावः ॥ मणिकुन्मतेति ॥ अनेन च योग्यप्रतियोगिप्रकारकपोग्याधिकरणाविशेष्यकोपलम्भप्रति