पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । | त्वं वाच्यम् । इत्थं च परमाणुनीलादौ न नीलत्वादिपरिग्रहः परमाणौ चक्षुःसंयोगस्य महत्त्वावच्छिन्नत्वाभावात् । एवं वायवादी न सत्तादिचाक्षुषं तत्र चक्षुःसंयोगस्य रूपाव- च्छिन्नत्वाभावात् । एवं यत्र घटस्य पृष्ठावच्छेदेनालोकसंयोगः चक्षुःसंयोगस्त्वयावच्छेदेन तत्र घटप्रत्यक्षाभावादालोकसंयोगावच्छिन्नत्वं चक्षुःसंयोगे विशेषणं देयम् । एवं द्रव्य- स्पार्शनप्रत्यक्षे त्वक्संयोगः कारणं द्रव्यसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवायः द्रव्यसम- वेतसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायः । अत्रापि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शा- | वच्छिन्नत्वं च पूर्ववदेव बोध्यम् । एवं गन्ध मत्यक्षे घाणसंयुक्तसमवायः गन्धसमवेतस्य घ्राणजप्रत्यक्षे घ्राणसंयुक्तसमवेतसमनायः । रासनप्रत्यक्षे रसनासंयुक्तसमवाय: रससमवेत- रासनप्रत्यक्षे रसनासंयुक्त समवेतसमवायः कारणम् । शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायःश- 1 प्रभा. - विषयतासंबन्धेन चाक्षुष इत्यर्थः । एतादृशरूपेण सन्निकर्षस्य हेतुत्वे उक्तापतित्याह । इत्थं चेति ॥ महत्त्वोद्भूतरूपादिघार तरूपेण चक्षु सन्निकर्षस्य हेतुरये चेत्यर्थः ॥ परमाणुनीलादाविति ॥ आदिना पातादिपरिग्रहः परमाणुनील दिघटित चक्षुस्सन्निकर्षे सतीत्यर्थः ॥ नीलत्वादीति ॥ आदि. ना पीतत्वादिपरिग्रहः तदुपपादयति ॥ परमाण्विति ॥ महत्त्वावच्छिन्नत्वाभावादिति ॥ प. रमाणोमहत्त्वाभावात चक्षुषो महत्वेऽपि समवायघटितसामानाधिकरण्यसंवन्धेन महत्त्वविशिष्टचक्षुस्संयोग. स्य चक्षुष्येव वर्तमानतया परमाणोविशिष्टाधिकरणत्याभावेन विशिष्टाधिकरणसमवेतसमवायरूपसन्निकर्या- भावान्न नीलत्वादिचाक्षुष मिति भावः ॥ वाय्वादाविति ॥ आदिना भर्जनकपालस्थवढ्यादे; वाय्वा- दिसमवेतस्पर्शादेश्व परिग्रहः । वाव्वादिधाटतचक्षुस्संयुक्त समवाये सति तादृशसमवेतसमवाये च सतीत्य- थः ॥ तत्रेत्यादि ॥ वाध्यादिवृत्तिचक्षुसंयोगस्येत्यर्थः ॥ रूपानवच्छिन्नत्वादिति ॥ उद्भूतरूपानव- च्छिन्नत्वादित्यर्थः ॥ आलोकसंयोभावच्छिन्नत्वमिति ॥ एकावच्छेदकायच्छिन्नत्वसंवन्धेनालोकसंयोग- विशिष्टत्वमित्यर्थः ॥ रसनासंयुक्त समवेतसमवाय इति ॥ अत्रापि घ्राणसंयोगे रसनासंयोगे च . महत्त्वावच्छिन्नत्वं. वोध्यम् । अन्यथा परमाणुगन्धघ्राणजप्रत्यक्षतत्समवेतरसरासनप्रत्यक्षयोरापत्तेः धोनावच्छिन्नसमवाय इति ॥ केवलश्रोत्रानुयोगिकसमवाय इत्यर्थः । महत्त्वावच्छिन्नत्वनिवेशे प्रयोजनाभावादिति भावः । नच तत्र केवलसमवायस्यैव सन्निकर्षत्वमास्ता किमवच्छिन्नत्वनिवेशेनेति वाच्यं । तथासति श्रोत्रदेशे अनुत्पन्नशब्दस्यापि केवलसमवायरूपसन्निकर्षवत्तया श्रावणत्वापत्तेः ॥ नच तादृशविशेषणेऽपि विशिष्ट समवायशुद्धरामनायथोक्यात् कथं तद्वारणमिति वाच्यं । यदशब्दो यद्देशा- दिनकरीयम्. स्पार्शनप्रत्यक्ष त्वक्सन्निकर्षस्य कारणत्वं प्रपश्चयति ॥ एवमित्यादिना ॥ पूर्ववदेवेति ॥ परमाणुघटि- तत्वक्सनिकर्षण स्पर्शत्वस्पार्शनवारणाय महत्त्वावच्छिन्नत्वं प्रभाघटित पन्निकर्षेण स्पर्शत्वस्पार्शनवारणायो दूतस्पशावच्छिन्नत्वादिविशेषणं बाध्यमित्यर्थः ॥ श्रोत्रावच्छिन्नति ॥ सकलपुरुषाणां सर्वशब्दप्र. रामरुद्रीयम्. पाययोः सन्निकषत्वोपपत्त्यर्थ तथोद्भूतरूपावच्छिन्नत्वनिवेशनमपि चक्षुष्ट्वादेः चाक्षुषत्वनिरासनायैवेति दृष्टान्त. विधयैयोकं तेन वक्ष्यमाणअन्धस्योक्ताशययाऽनवतारितत्वेऽपि न क्षतिः। प्रभायां सत्तास्पार्शनवारणं त्वक्रांयोगे अद्भूतरूपावच्छिन्नत्वनिवेशान्न सम्भवतीति स्पर्शानुधावनम् । श्रोत्रावच्छिन्नत्वस्य समवायविशेषणस्य फ. लमाह ॥ सकलेति ॥ अन्विन्द्रियसनविशेषणतया समवायाभारयोः प्रत्यक्षमिति बदतो मूल- कारस्यन्द्रियसम्बद्धविशेषणतात्वेन विशेषणताया विभाग इति अन्य कारणामाशयो लभ्यते स चास- सः इन्द्रियेण कालिकेन सम्बद्धे घटादौ विशेषणतया घटत्वाभावादेः प्रलक्षत्वानुपपत्तेः किंतु