पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। न्न मानाभावात् कल्पनागौरवात् । एतेन क्षणिकशरीरे वेव चैतन्यं प्रत्युक्तं गौरवादतिशये मा- प्रभा. सि ॥ उत्तरोत्तरालयविज्ञाननिष्ट संस्कारोत्यादकतावच्छेदकशक्तिविशेषः स्वीक्रियत इत्यर्थः । तथाच ग्राह- शयादृशविज्ञानोत्तरं स्मृतिरनुभवसिद्धा तादृश तादृशविज्ञान एव संस्कारस्वीकारेण तत्तद्विज्ञानाव्यवहितपूर्व वृत्तिविज्ञानेप्देव तादृशशक्तिस्वीकारेण ज्ञानानन्त्यप्रयुक्तसंस्कारानन्त्याभावात् न पूर्वोक्तगौरवमिति भावः ।। मानाभावादिति ॥ कार्यानुकूलश को मानाभावादित्यर्थः । ननु ज्ञानव्यक्तिभेदेनानन्तसंस्काराकल्पनरूप- लाघवमेव तत्र प्रमाणमित्यत आह ॥ कल्पनागौरवाचीत ॥ तथाच शक्करपि भावत्वेन क्षणिकतया अनन्तशक्तितत्प्रागभावादिकल्पनागौरवस्यानापि तुल्यत्वेन लाधवाभावादिति भावः ॥ एतेन वक्ष्यमाणदू- षणेनेत्यर्थः ॥ गौरवादिति ॥ कालान्तरे स्मरणनि हे क्षणिकानन्तशररिव्यक्तिभेदनानन्तसंस्कार कल्पना. प्रयुक्तगौरवादित्यर्थः । ननु यादृशयाशशरीरेषु स्मरणमुपलभ्यते तत्तच्छरीराव्यवाहतपूर्ववृत्ति शरीरे वेव संस्का- रस्वीकारेण तत्तदव्यवहितपूर्ववृत्तिशशरेवेव संस्कारजनकतावच्छद कशक्तिस्वीकारान्न शरीर व्यक्तिभेदेनानन्त- संस्कारकल्प नागौरवमत आह् ॥ अतिशय इति । तथाच शोरपि भावत्वेन क्षणिकतथा अनन्त- शक्तितत्त्रागभावादिकल्पनागौरवस्य तुल्यत्वेन तादृशशकौ मानाभावादिति भावः । ननु अङ्गुरं प्राते वीज- दिनकरीयम्. तिशयाविशेषः शक्तिविशेषः । उत्तरोत्तरविज्ञानानुकूलतयेति शेषः ॥ गौरवादिति ॥ स एवायमित्यापा- मरप्रत्यभिज्ञानात् क्षणिका नन्त शक्तितत्प्रागभावध्वंसकल्पने गौरवादित्यर्थः । ननु क्षेत्रस्थवीजादङ्कुरोत्प - तिर्न कुसूलस्थवीजादतोऽङ्कुरत्वावच्छिन्नं प्रति कुर्वद्रूपत्वेन हेतुत्वमक्रियते कुर्व द्रूपत्वं चाकुरजनकता. वच्छेदकतया सिद्धो जातिविशेषः स च फलोपधायकक्षणिकसमर्थवीजमान वृत्तिबीजत्वव्याप्यः कल्प्य. रामरुद्रीयम्. पूर्वपूर्वघटादिव्यक्तीनामुपादानत्वानुपपत्तेस्तन्मते तत्राप्युपादानोपादेयभावाभ्युपगमेनेष्टापत्त्य सम्भवातू परं तु असहकृतं कारणमुपादानं उत्तरव्यक्तौ पूर्वव्यक्तिमात्रस्यैव तैः कारणत्वाङ्गीकारात् भवत्युत्तरव्यक्ती पूर्वव्य- क्रुपादानत्वं माता च पुत्रं प्रति नासहकृतं कारणं शुकशोणितादेरपि पुत्रकारणत्वादिति ध्येयम् ॥ शक्ति. विशेष इति ॥ अयं भावः । ज्ञानव्यक्तीनां संस्कारज्ञानजनकले प्रतिज्ञानं भिन्न संस्कारव्यक्तिकल्पनागौर- वेऽपि यादृशज्ञानव्यक्त्युत्तर स्मरणमनुभवसिद्ध तज्ज्ञाननिष्ठ संस्कारानुकूला काचित शक्तिः पूर्वज्ञानव्यक्ती स्वीक- रणीया न तु सर्वज्ञानव्य क्तावतिशयः कल्प्यते न संस्कारानन्त्यम् ॥ क्षणिकति ॥ तन्मते पदार्थमानस्य क्षणिकत्वेऽपि यदा यदा स्मरणमनुभवसिद्ध तदा तदा तज्ज्ञानेष्वे कैव शक्तिः कल्पनीया नातोऽनन्तशक्तिकल्प- नागौरवामिति यदि ब्रूयात्तदा ज्ञानव्यक्तिभेदेन शक्तिभिवाणीकरणी या पदार्थानां तन्मते क्षणिकस्वादिति समाधानसूचनाय पदार्थमानसाधारणक्षणिकत्वस्यापि शकावनुवादः अत एव ध्वंसप्रागभावावस्ये- तस्य कल्प्याविति द्योतनाय ध्वंसप्रागभावयोरुपादानमपि सच्छते । अनन्तति तु अनन्तव्याक्तिकल्पना- गौरवस्फुरणाय यदा यदा स्मरणमनुभूयते तदा तदा विभिन्न शक्तिव्यक्तिकल्पनस्यावश्यकत्वा- दिति भावः । इदमुपलक्षणं तत्तदतिशयं प्रति पूर्वकालीनज्ञानव्यक्तीनां कारणताकल्पनेनापि गौरवं बोध्यम् । अन च प्रामाणिक गौरवं न दोषायेति न्यायेन नानाशक्तिकल्पनेऽपि न दोष इत्याशङ्कानिरासा- यैव सोऽयमित्यभेदप्रत्यभिज्ञानादित्युक्तं अभेदस्यैवानुभवसिद्धतया नानाव्यक्तिकल्पनं न प्रामाणिकमिति त- दभिप्रायः । वस्तुतस्तु पदार्थमात्रस्यैव क्षणिकत्वानुपगमे हेतुरेतत् तथा च क्षणिकपदार्थोपमन्तॄणां मते नानाव्याक्तिकल्पनागौरवमेव हेतुत्वेनाभिमतं तत्रैव प्रामाणिकं गौरवं न दोषायेत्याशङ्कायामाह् ॥ स एवा. यमिति ॥ तथा चाभेदस्यैव अनुभवसिद्धत्तया क विभिन्नव्यक्तीनां प्रामाणिकताचिन्तेति भावः । एतेन प्र. त्यभिज्ञायाः प्रत्यक्षरूपत्वेन शक्तीनामतीन्द्रियत्वेन तद्विषयकप्रत्यभिज्ञानं न सम्भवतीति दूषणमपि प्रत्युक्तम् ॥ जातिविशेष इति ॥ अङ्कुरोपधायकक्षणिकबीजव्याक्तिमात्रवृत्तिजातिीरत्यर्थः । स चायमपोहरूप एवानु-