पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - वासनायाः संक्रमासम्भवात् । उत्तरस्मिन्नुत्पत्तिरेव संक्रम इति चेन्न. । तदुत्पादकाभावात चितामेवोत्पादकत्वे संस्कारानन्यप्रसङ्गः । क्षणिकविज्ञाने वतिशयविशेष कल्प्यत इति चे-- प्रभा. सति कार्यसजातीयत्वं । अत्र व्यवहितपूर्वोत्पन्नाविज्ञानस्य उपादानत्ववारणायाव्ययाहतपूर्ववृत्तित्वनिवेशः । घटं प्रति दण्डस्य उपादानत्ववारणाय विशेष्य दळं । साजात्यं च कार्यतावच्छेदकावच्छिन्नत्यं तेषं पते आत्मत्वावच्छिन्नं प्रत्यात्मत्वेन समवायिकारणतया उत्तरालयनिज्ञानं प्रति पूर्वालयविज्ञानस्योपादानवो- पपत्तेः । प्रकृते चैत्रादिशब्दानां शरीरमात्रवाचकत्वनात्मनः सहजावरणं शरीरामात भाष्यात् आत्मा- परणत्वेन शरीरस्य कुप्तत या कार्य रूपविज्ञानावरणचैत्राद्यातत्वं कार्य सजातीयत्व बोध्यम् । नच चैत्रशरी- रयोरपि विज्ञानरूपत्वन क्षणिकतया कथं पूर्वालयविज्ञानावरणचैत्रावृतस्त्रमुत्तरालयविज्ञानस्येति वाच्यं त- स्कार्यावरणतावच्छेद कचैत्रत्वाद्यवच्छिन्नावृतत्वरूपतन्कार्यसजातीय स्वस्य विवक्षितत्वात् प्रकृते चैत्रात्मक- शरीरयोविज्ञानरूपत्वेन क्षणिकत्वेऽपि तत्तिचैत्रत्वादेरतव्यावृत्तिरूपतया विज्ञानरूपत्वाभावेन क्षणिकत्वा- भावात् । एतन्मते चैत्रादिशब्दानां तु आत्माविशेषवाचकतया तत्कायवृत्तिचन्त्रवादिमत्त्वरूपमेव त- स्कार्यस जातीयत्वं वाच्यं लावात् । एवंच मातृपुत्रयोः मातृत्व पुत्रत्वरूपविरुद्धधमाश्रयत्वेन पुत्रसजातीय. स्वाभावात् मातुः पुत्रनिरूपितोपादानत्वाभावन मातृनिष्ठसंस्कारस्य पुत्र संक्रमप्रसङ्गाभावात् । न वेवमपि द्वितीयालयविज्ञान प्रति प्राथामिकालयावज्ञानस्योपादानत्वसंभवे ऽपि प्राथामिकालयविज्ञानं प्रति उपादानत्वा भावेन कथनुत्पद्यत इति वाच्यं मात्रादिरूपनिमित्त कारणादेव प्राथमिकात्मरूपावज्ञानोत्पत्तेः संभवात् । अ. हेतुक एवोत्पद्यत इति वदतां सते कार्य मात्रस्य उपादानजन्यत्वाभाव क्षतिविरहादित्याशयः ॥ वासना- या इति ॥ वासनायाः क्रियारहितत्वेन पूर्वविज्ञान स्थित संस्कारस्य उत्तरविज्ञाने प्रवेशासंभवादित्यर्थः । श. कृते । इनरस्मिन्निति ।। उत्तरविज्ञानोत्पतिकाल एव पूर्वालयविज्ञानस्थित संस्कारात उत्तरालय विज्ञाने सं. स्कारोऽप्युत्पद्यते । एकक्षणोत्पत्तिकयोरपि आधागधेयभावस्य तन्मतसिद्धन्वादिति भावः ॥ तदुत्पादके- ति ॥ संस्कारोवादकाभावादित्यर्थः । संस्कारस्य संस्काराहेतुत्वादिति भावः ॥ चितामेति ।। संस्कारं प्र. ति ज्ञानत्वेन हेतुत्वस्वीकारात् नोक्तदोष इत्याशयः ॥ तदानन्त्यप्रसंग इति ॥ संस्कारानन्त्यप्रसंग इ. त्यर्थः । तशाच गौरवान ज्ञानत्वेन हेतुत्वमिति भावः । शहते ॥ क्षणिक इति ॥ अतिशयविशेष इ दिनकरीयम्. भेदात् । नच तयोरपि विज्ञानस्वरूपत्वादभेदः नीलत्वादेरपारमार्थिकस्य पारमार्थिकविज्ञानेनाभेदासं. भवादित्यभिप्रायवान् शकते ॥ अपोहरूप इति ॥ अनीलव्यावृत्तिरूप इत्यर्थः ॥ इतरथा विरुद्धनी. लत्वादीनामे कत्र समावेशे । ननु समूहालम्बने न नीलाकारो नवा पीताकारोऽभ्युपेयते परन्तु चित्राकार एवेति नोक्तदोष इति वासनासंक्रमं मुख्यतया दूषयति ॥ नवेति ॥ मातृपुत्रयोरिति ॥ मा- खाऽनुभूतस्य गर्भस्थेन तनयेन स्मरणप्रसङ्गादिति भावः । उपादानेनानुभूतमुपादेयेन सर्यते इत्यपि नि- रस्यति ॥ नचेति ॥ शकते ।। उत्तरास्मिन्निति वासनोत्पादकेयर्थः ॥ चितामेवेति ॥ ज्ञा. नानामेव संस्कारोत्पादकत्वे तेरामानन्त्यात् संस्कारानन्त्यापत्तिरित्यर्थः । शङ्कते ॥ क्षणिकति ॥ अ. रामरुद्रीयम्. भिन्नति ॥ नीलरूपाकारात्मकविज्ञानाभित्रस्य पीताकारस्य नीलाभिन्नत्वनियमादिति भावः । एकत्र स. मावेश इति ॥ एकाधिकरणवृत्तित्वेनाव धारणे । तेनैकाधिकरणवृत्तीनामपि तथात्वेनाप्रतीतिदशायां भ्रमात्म- कविरोधावधारणेऽपि नासङ्गतिः ॥ उपादानेनेति ॥ अहोपादानत्वं न समवायिकारणत्वं विभिन्न कालीन- योः क्षणिक ज्ञानव्यक्तयोरेकव्यक्ति प्रति अपव्यक्तरुक्तसमवाथिकारणत्वासम्भवात् । नापि तन्मते स्वकारण. त्वे सति स्वोत्पत्तिकालोत्पत्तिकाध्वंसप्रतियोगित्वमुपादानत्वं तन्मते वस्तुमात्रस्यैव क्षणिकत्वेन मातुरपि पु- त्रोपादानतापत्तेः । अत एव न स्वभिन्नासमवेतत्ये सति स्वकारणत्वमुपादानत्वं उत्तरोत्तरघटादिव्यक्ति प्रति