पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८० कारिकावली वाची । सर्वेषामेव वर्षाणां मेहरुत्तरतः स्थित इति नियमात् ।। प्रभा. श्रोदाहरणं माहिष्मतीत उत्तरस्यां अवन्तिका काशीत अवाच्यामचन्तिकति बोध्यम् । अन्ये तु तनिष्ठोदय- गिरिसंयुक्तसंयोगपरम्पराघठक तस्य प्राचीलाहुः तन्न पूर्वोक्तरीत्या समीपस्थमूर्तनिष्ठसव्यापसव्योदयगिरिसं. युक्तसंयोगपरम्परायां दूरस्थमूर्तस्यापि घटकतया तस्य समीपस्थपदार्थापेक्षया प्राचीत्ववारणाय तनिष्ठो- दयगिरिसंयुक्तसंयोगपरम्परायां तन्निष्टोदयगिरिसंयुक्तसंयोगपरम्परानिष्टन्यूनत्वानिरूपकत्वेन विशेषणीयतया ताइशलघुपरम्पराघटकमूर्तवृत्तिमूर्तान्तरस्य ताशलघुपरम्परायामघटकत्वेन तस्य प्राचीत्वव्यवहारनिया- मकत्वानुपपत्तेः । नच तस्य तादृशव्यवहार नियामकत्वाभावे का क्षतिरिति वाच्यं समीपस्थमूर्तानां मध्ये कस्यचित् प्राचीत्वव्यवहारनियामकत्वं कस्यचिन्नेत्यत्र युक्त्यभावात् । दीधितिकृतस्तु दिकालौ नेश्वरादतिरिच्येते मानाभावात् तत्तत्कालोपाधिदिगुपाधिविशिष्टादीश्वरादेव क्षणदिनप्राचीप्रतीच्यादिव्य- वहारोपपसेरित्याहुः । अत्र नध्याः ईश्वरस्य दिकालरूपत्वं तत्तजीवस्य वेति विनिगमनाविरहात् अ. तिरिक्तयोस्तयोः स्वीकारः । नच तत्तजीवस्य जगजनकत्वं परत्वापरत्वजनकत्वं च कलप्यं ईश्वरस्य तु कृप्तमिति लाघवमिति वाच्यम् । संबन्धघटकयोर्दिकालयोः जगजनकत्वानङ्गीकारात् दिकालोपाधीनामेव जगज्जनकत्वकल्पनात् परत्वापरत्वयोः गुणत्व एव मानाभावः सन्निकृष्टत्वविप्रकृष्टत्वाभ्यामेव परापरव्यवहारोप पत्तरित्याहुः तन्न तत्तनिरूपणे कालदिशोः जगत्कारणत्वस्य साधितत्वेन ईश्वरस्येव तयोरपि जगत्कारणत्वस्य कुप्ततया कल्पनागौरवाभावात्। एवं सन्निकटत्वाविप्रकृष्टत्वाभ्यां परापरव्यवहारस्वीकारे पूर्वोक्ताल्पसमुदाय- वत्त्वरूपसन्निकृष्टत्वस्य पूर्वोकबहुतरसमुदायवत्त्वरूप विप्रकृष्टत्वस्य च घरापरत्वव्यवहारानियामकत्वेन वक्त-- व्यतया बहूनां तादृशसंयोगानां परापरपदशक्यतावच्छेदकत्वस्वीकारेऽतिगौरवापत्तेः अयं परः अयमपर इति लौकिकप्रत्यक्षानुपपत्तेश्च बहुभिस्संयोगैः सह लौकिकसनिक भावादिति ॥ इति दिग्बन्धः ॥ दिनकरीयम्. तीच्या प्रयाग इत्यत्र काशीनिष्टोदयगिरिसंयुक्तसंयोगपर्याप्तसङ्घयाव्यापकसङ्खयापर्याप्त्यधिकरणोदयगिरिसं. युक्कसंयोगवन्मूतवृत्तिः प्रयागः एवमन्यत्रापि बोधा ऊहनीयाः । तनिष्ठोदयाचलसंयुक्तसंयोगपरम्पराघटक. यन्मूर्त तरप्राचीत्यपि वदन्ति । दीधितिकृतस्तु दिकाली नेश्वरादतिरिच्यते मानाभावात् तत्तका नेपाधिदि. गुपाधिविशिष्टादीश्वरादेव क्षणदिनप्राचीप्रतीचीत्यादिव्यवहारोपपत्तरित्याहुः । अत्र नव्या: ईश्वरस्य दिका. लरूपत्वं तत्तजीवस्य वेति विनिगमनाविरहेणातिरिक्तयोस्तयोः स्वीकारः। नचात्र जीवस्य जगज्जनकत्वं पर स्वापरत्वजनकत्वं च कल्प्यमीश्वरस्य तु क्लुप्तमिति लाघवमिति वाच्यम् । सबन्धघटकयोदिकालयोर्ज गजनकत्वाकल्पनाद्दिकालोपाधीनामेव जगज्जनकत्वकल्पनात् परत्वापरत्वयोर्गुणत्व एव मानाभावः सन्नि- कृष्टत्वविप्रकृष्टत्वाभ्यामेव परापरव्यवहारोपपत्तरिति वदन्ति ॥ इति दिग्बन्धः ॥ रामरुद्रीयम्. दृशमूर्तावच्छिन्नवृत्तिरिति शाब्दबोधो वर्णनीयः ॥ सङ्खथाव्यापकेति ॥ व्यापकत्वमन न तादृशसङ्ख्यास- मानाधिकरणप्रतियोग्यवृत्तिभेदप्रतियोगितानवच्छेदकत्वं तथासति स्वस्य स्वव्यापकत्वेनातिप्रसङ्गात् नापि स्व. भिन्नत्वे सति स्वसमानाधिकरणतादृशभेदप्रतियोगितानवच्छेदकत्वं विच्छिन्न पुरुषीयापेक्षाबुद्धिजन्यनजाती- यसयामादाय सङ्ख्यान्तरस्यापि व्यापकत्वापत्त्याऽतिप्रसङ्गतादवस्थ्यात् परंतु स्वसमानाधिकरणताहा- भेदप्रतियोगितानवच्छेदकनिरुतसङ्ख्याकत्वमेवेति न काशीतः प्राच्या काशीति व्यवहारापत्तिः । आहुरित्य. नेन दीधितिकृन्मते अस्वरसस्सूचितः तद्बीजं तु इदानी तदानीमित्यादिप्रयोगाणां तत्तदुपाध्य वच्छिन्नेश्वर- स्य विषयत्वोपगमे प्रत्येक जीवमादाय विनिगमनाविरहेण अतिरिक्षाकालासद्धिः। न च कार्यमानजनकत्वेन पलप्तस्येश्वरस्यैव जन्यमानजनककालरूपता युक्ता न तु जीवस्य तत्र तस्याक्लप्तत्वादिति विनिगमकम- स्तीति वाच्यम् । कार्यमा प्रति ईश्वरीयकृतेरेव हेतुत्वेन क्लप्तत्याकर्तुः कार्यजनकत्वे मानाभावादिति ।