पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीव-रामरुद्रीयसमन्विता । दिक् सा प्रतीची । एवं यत्पुरुषस्य सुमेरुसन्निहिता या दिक सोदीची तद्वयवहिता स्त्र- प्रभा. ष्ठोदयागिरि संयुक्तसंयोगापेक्षया अल्पतरोदयगिरिसंयुक्तसंयोगवत्त्वं । नचोदयगिरिव्यवहिते उदयगिरिसन्निहि. ते चोदयगिरि संयुक्तसंयोगपरम्पराघटकैकसंयोगस्यैच विद्यमानत्वेन कथमुदयगिरिसमीपस्थे मूर्ते दूरस्थमूर्तनि- योदयगिरि संयुक्त संयोगापेक्षया अल्पतरोदयगिरि संयुक्तसंयोगवत्त्वमिति वाच्यं तनिष्ठोदयगिरि संयुक्तसंयोगा- पेक्षयाऽल्पतरोदयागिरि संयुक्त संयोगवत्वस्य तन्निष्ठोदयागारसंयुक्त संयोगपरम्परा घटकसंयोगसमुदायपर्याप्त- संख्यान्यून संख्यापर्याप्त्यधिकरणस्वनिष्ठोदयागार संयुक्तसंयोगपरम्पराघटकसंयोगसमुदायवत्त्वरूपतयोक्तदो- षाभावात् । नच दूरस्थमूर्तनिष्ठोदयगिरिरायुक्तसंयोगपरम्पराघटकसंयोगसमुदायापेक्षया समीपस्थमूर्तस्य दू. रस्थपदार्थघटितसव्यापसव्योदयगिरि संयुक्तसंयोगपरम्पराघटकसंयोगसमुदायस्य वहुत्वेन दूरस्थमूर्तापेक्षया समीपस्थमूर्तस्य प्रतीचीत्वव्यवहारापत्तिरिति वाच्यं स्वनिष्ठोदयगिरिसंयुक्तसंयोगपरम्परायाः स्वनिष्ठोदय. गिरि संयुक्तसंयोगपरम्परानिष्ठन्यूनत्वानिरूपकत्वेन विशेषणीयत्वात् । एवंच दूरस्थमूर्त घटितस्वनिष्ठसव्यापस- व्योदयगिरि संयुक्तसंयोगपरम्परायाः स्वनिष्ट दूरस्थमूर्ताघटितलघुभूतोदयगिरिसंयुक्त संयोगपरम्परानिष्ठ यूनत्व. निरूपकत्वेन लघुभूतोदयगिरिसंयुक्तसंयोगपरम्पराया एव न्यूनत्वानिरूपकत्वात्स्वनिष्ठतादृशलघुपरम्पर:घटक- संयोगसमुदायस्य दूरस्थमूर्तनिष्ठोदयागार संयुक्तसंयोगपरम्पराघटकसंयोगसमुदायपर्याप्तसंख्याधिकसंख्याप- र्याप्यनधिकरणत्वेन तादृशसंख्यापर्याप्त्यधिकरणसंयोगसमुदायकत्वस्य सुतरां स्वपदार्थीभूतसमीपस्थमू- तऽभावेन दूरस्थमूर्तापेक्षया समीपस्थमूर्तस्य प्रतीचीत्वव्यवहारपत्तेरभावात् । तथाच तन्निष्टोदयगिरिसंयु- कसंयोगापेक्षयाऽल्पतरोदयगिरि संयुक्तसंयोगवत्त्वं च तन्निःोदय गिरि संयुक्तसंयोगपरम्पराघटकसंयोगसमु- दायपर्याप्त संख्यान्यूनसंख्यापर्याप्त्यधिकरणसमीपस्थमूर्तनिष्ठोदयगिरि संयुक्तसंयोगपरम्परानिष्टन्यूनत्वानिरू- पकस्वनिष्टोदयगिरि संयुक्तसंयोगपरम्पराघटकसंयोगसमुदायकत्वमेव । तन्निष्टोदयगिरि संयुक्तसंयोगाक्षया बहुतरोदयागिरिसंयुक्तसंयोगवत्त्वं च तन्निष्टोदयगिरि संयुक्तसंयोगपरम्परानिष्ठन्यूनत्वानिरूपकतन्निष्टोदयगिरि- संयुक्तसंयोगपरम्पराघटकसंयोगसमुदायपर्याप्तसंख्याधिकसंख्यापर्याप्यधिकरणदूरस्थमूर्तात्मकस्वनिष्ठोदयगि. रिसंयुक्तसंयोगपरम्पराघटकसंयोगसमुदायकत्वमेवेति फलितम् । अत्रोदाहरणं मधुरातः प्राच्या प्रयाग इति काशीतः प्रतीच्या प्रयाग इति बोध्यम् । अनथैव दिशा मेरुसन्निहितत्वमव्यवाहितत्वे उपपादनीय। अ. दिनकरीयम् प्राच्यादिसंज्ञाभेद इति भावः । प्राच्यादिसंज्ञासु निमित्तभूतानुपाधीनाह ॥ यत्पुरुषस्येति ॥ पुरुषस्थति पदार्थमात्रोपलक्षणम् । पञ्चम्यर्थे षष्ठी । दिक् मूर्तम् । एवमऽपि । तथा च यदपेक्षयांदया गरिसन्निहित य. न्मूर्त सा ततः प्राचीत्यर्थः तदपेक्षयोदयगिरिसन्निहितत्वं च तनिष्टोदयगिरि संयुक्तसंयोगापेक्षयाऽल्पतरोदयगि. रिसंयुक्तसंयोगतत्त्वम् । इत्थं च मधुरायाः प्राच्यः प्रयाग इत्यत्न मथुरानिष्टोदयगिरि संयुक्तसंयोगपर्याप्तस. याव्याप्यसङ्खयापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूतवृत्तिः प्रयाग इत्यन्वयबोधः । एवं कातिः प्र. रामरुद्रीयम्. अयमस्मात्सन्निहित इत्यादिप्रयोगात्पुरुषादित्येव प्रचोक्तुमुचितं नतु पुरुषस्येत्यत आह ॥ पञ्चम्यर्थ इति।। अवधित्वं पञ्चम्यर्थः । पुरुषावधिकोदयगिरिसान्निध्यवती दिक् तस्य प्राचीत्यर्थः पर्यवसितः । अवधित्वं स्वरूपसम्बन्धविशेषः ॥ सेति ॥ तन्मूतवच्छिन्ना महती दिगित्यर्थः । नातः स्त्रीलिङ्गनिर्देशासङ्गतिः । संयोगापेक्षयेत्यस्यापि तादृशसंयोगावधिकत्वमेवार्थः तस्य च अल्पतरत्वे अन्वयः । उदयगिरि संयुक्तसंयो- गपर्याप्तत्यस्य तादृशसंयोगादिपर्याप्तेत्यर्थः । आदिना तद्वत्संयुक्त संयोगादीनां पुरुषनिष्टविशिष्टसंयोगघट- कानां परिग्रहः तेषु पर्याप्तसङ्ख्या अपेक्षाबुद्धिविशेषविषयत्वरूपैव गुणेषु गुणानजी कारात् । यद्वा मथुरानिष्ठो यः परम्परयोदयगिरि संयुक्तसंयोगस्तद्धटका ये मूर्तीस्तत्पर्याप्तसङ्ख्येत्यर्थे तात्पर्याप्न दोषः । सङ्ख्याव्याप्यत्वं “च सङ्घ यासमानाधिकरणप्रीतयोग्यवृत्तिभदप्रतियोगितावच्छेदकत्वमेव न तु व्यापकसामानाधिकरण्यादिकं त- थासति स्वस्यापि स्वव्याप्यत्वापातात् । मूर्तवृत्तिरित्युपाधीनामेव प्राच्यादित्वमित्यभिप्नायेण अन्यथा तु ता.