पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुंफावळी-प्रभा-दिनकरीय-रामभद्रीयसमन्विता । प्रभा. वछिन्नकार्यतानिरूपित तादात्म्यसंबन्धावच्छिन्नकारणत्वं महाकालस्य लक्षणमिति फलितोऽर्थः । दिश्थति- भ्याप्तिवारणाय कार्यतायां कालिकसंबन्धावच्छिन्नत्वनिवेशः अदृष्टादावतिव्याप्तिवारणाय तादात्म्यसंबन्धावच्छि- प्रत्वस्य कारणतायाम् । तथाचाटस्य कालिकसंबन्धावच्छिन्न कारण तावत्त्वादीश्वरस्य स्वसमवेतज्ञानविषयत्व- संबन्धावच्छिन्नकारणतावत्त्वाच नातिव्याप्तिरिति भावः न कार्यमा प्रति कालस्य हेतुत्वे कि मानमिति वाच्यं कालान्तराबच्छेदेन स्वकर्तृकभेदनाश्रयकुसूलादेः इदानी स्वकर्तृकभेदनानुत्पत्तेरेव मानत्वात् कर्तृकर्म . णोरैक्येन तदानी भेदनोत्पादकसामथ्या इदानीमप्यक्षतत्वात् । एवंच तत्तत्कार्यविशेष प्रति तत्तत्कालविशेषस्थ हेतुत्वे सिद्धे यद्विशेषयोरिति न्यायेन कार्यमाने कालस्य हेतुत्वमावश्यकमिति । अत एवाद्य घटो भविष्यति दिनकरीयम्. वच्छिन्न कार्यत्वावच्छिन्न कार्यतानिरूपितमधिकरणविधथाया निमित्तत्वं काललक्षणम् । कालिकसम्बन्धाव- छिन्नेति करणादिश्याधिकरणतयेति करणाददृष्टेश्वरयोनातिव्याप्तिरिति बोध्यम् । ननु कार्यमा प्रति कालस्य निमित्तकारणत्वे कि मानमिति चेदत्राहुः । अद्य घटो भविष्यति श्वः पटो भविता इत्यादिप्रत्ययेन तत्तत्का. र्योत्पत्त्यधिकरणत्वेन कालो विषयीक्रियते तत्तदुत्पत्त्यधिकरणत्वेन व्यवहारविषयस्य तत्तदुत्पत्तिहेतुत्वनियमा. त् तदुत्पत्तिहेतुत्वस्य तद्धेतुत्वव्याप्यत्वात् । एवं च तत्तन्कार्यविशेष प्रति तत्तत्कालविशेषस्य हेतुत्वे सिद्धे य. द्विशेषयोरिति व्याप्त्या कार्यमाने कालस्य हेतुतासिद्धिरिति । सा च हेतुता निमित्तकारणतैव । नच कार्यमाने रामरुद्रीयम्. कार्यसामान्य कालस्य समवायिकारणत्वासम्भवादसमवायिकारणत्वस्य च द्रव्येऽसत्वाजनकपदं निमित्तकारण- परतया व्याचटे ॥ निमित्तकारणमित्यर्थ इति ॥ मूले जगतामाश्रय इत्यस्य कालप्रमाणप्रदर्शनपरतया व्याख्येयतया जन्यानामित्यादिकं काललक्षणप्रदर्शनपरमेवेति वाच्यं लक्षणप्रामाण्यस्वरूपाभिधानस्यैव नि- रूपणशब्दार्थत्वातच न सम्भवति दिगादीनामपि कार्य सामान्ये निमित्तकारणत्वेनातिप्रसङ्गादित्यत आह ॥ अति ॥ अधिकरणविधयेति । अधिकरणत्वेनेत्यर्थः । यद्यपि कार्यमा प्रति कालस्य कालत्वेनैव कारणता युक्ता अधिकरणत्वस्य दिगाद्यतिमसकत्वेन कालनिष्ठकारणतायामवच्छेदकत्वासम्भवात्तथापि काल- स्वस्यैकव्यक्तिकत्वेन जातित्वासम्भवात्कालिकसम्बन्धावच्छिन्नाधिकरणबादतिरिक्तस्य कालत्वस्य निर्वस्तुम- शक्यतया अधिकरणविधयेत्युक्तम् । तथा च निरुक्तकालत्वस्याधिकरणतारूपत्वान्न सङ्गतिः एवं दिक्त्वमपि दिक्कृतविशेषणतयाधिकरणत्वमेव नातो दिश्यतिव्याप्त्यभिधानासातिरिति केचित् । तदसत् । तथासति महाकाललक्षणस्य घटादावतिव्याप्त्यापत्तेरप्रे तत्रैव प्रमाणस्य प्रदर्शनीयतया तस्यैव लश्यत्वावधारणात् । परन्तु तम्य तादात्म्यसम्बन्धेनेत्येवार्थः आधारस्य सर्वत्र तेनैव कारणत्वात् निमित्तत्वं कारणत्वं न तु निमि- सकारणत्वं तन्निवेशे प्रयोजनाभावादिति ध्येयम्। दिशीत्यस्य नातिव्याप्तिरित्यग्रत नेनान्वयः । अदृष्टेश्वरयोरि- त्यत्रेश्वरप्रण कार्यमाने कर्तुरेव कारणत्वाभिप्रायेण कृतिकारणतामते तु ईश्वरपदं तत्कृतिपरामिति द्रष्टव्यम् ।। उत्पत्त्यधिकरणत्वेनेति ॥ भूधातोः प्रकृते उत्पत्त्यर्थवादिाते भावः ॥ व्यवहारविषयस्येति ॥ क- पाले घट उत्पद्यत इत्यादी तथा दर्शनादिति भावः । यद्यपि कपालादेनं घटोत्पत्तिसाक्षादाधारत्वं तथापि गृ. हे पचतीस्यादाविव परम्परया तथात्वं चोध्यम् । यद्यपि आशक्षणसम्बन्धरूपाया उत्पत्तेस्तत्ताद्विशेषणविशिष्ट- क्रियाद्यात्मकतैव तादृशक्षणानुयोगिककालिकसम्बन्धस्य तादृशक्षणस्वरूपत्वात् तथा च तारशक्षणहेतुता त- सहिवसादी विप्रतिपन्नैव कपालादिदृष्टान्ते असम्भवदुक्तिकं च उक्तनियमोऽप्यप्रयोजकत्वेन विप्रतिपत्र एवं तथापि यत्पत्याधारत्वेन प्रतिपनो यस्तत् सत्कारणमित्येवं नियमस्येवोपापसामवासिनि दो . योजनाभाव एवं परन्तु उत्पत्तराकस्मिकत्वापतिवारणायैव नियमे उत्पत्तेः प्रवेशिततया यदि तस्याः किया. धात्मकता तदा तासां स्वकारपनियम्यतया नाकस्मिकतापत्तिरिति तन्निवेशो व्यर्थ एव एवं च कालविशे-- पनियतामफलादी कालविशेषकारणताया आवश्यकत्वेन यद्विशेषयोरिति न्यायेन कार्य सामान्ये कालस्य हे- तुतासिदेरिति युक्तमुत्पश्यामः । एतदभिप्रायेणैवास्वरससूचनायाहुरित्युक्तम् ॥ सा चेति ॥ इतर कारणत. 1