पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली जन्यानां जनकः कालो जगतामाश्रयो मतः ॥ ४५ ॥ कालं निरूपयति ॥ जन्यानामिति ॥ तत्र प्रमाण दर्शयितुमाह ।। जगतामाश्रय इति । प्रभा. पीयकर्णशकुल्यवच्छिन्नाकाशस्य तत्तत्पुरुषश्रोत्रत्वादिति भावः । नव्यास्तु शब्दनिमित्तकारणत्वेन कुप्तस्येश्वर. स्यैव शब्दसमवाधिकारणत्वं । नच ईश्वरस्य वा शब्दसमवायिकारणत्वं जीवस्य वेत्यत्र विनिगमनाविरह इति वाच्यम् । जीवस्य शब्दसमवाधिकारणरचे ज्ञानादिवच्छन्दस्यापि मानसत्वापत्तेः . अदृष्टवा प्रतिबन्ध कत्वकल्पने चातिगौरवम् । नचैवं कर्णशष्कुलीवि घरावच्छिन्नाकाशस्य श्रोत्रत्वं न स्यादिति वाच्यं इष्टापत्तेः तथापीश्वरस्यैव श्रीवत्वस्वीकारादित्याहुः तन्न । नात्मविशेषगु': बहिरिन्द्रियग्राह्यत्वादित्यनुमानेनात्मसामा- न्यविशेषगुणत्वासावस्य साधितत्वेन शब्दस्य ईश्वरगुणत्वस्यात्यन्तासंभावितत्वात् । स्वतन्त्रास्तु मृदङ्गादीना- मेव गुणशब्दः प्राचीनैरपि मृदङ्गत्वादिना निमित्तकारणतायास्स्वीकारात् मृदझे शब्द इत्यादिप्रतीतेश्च । नहि तावच्छेदकत्वं भानाभावात् अन्यथा तत्रावच्छेदकाताख्यस्वरूपसंबन्धस्यान्यत्र समवायस्य कल्पने गौरवादिति वदन्ति । तन्न शब्दो न स्पशवद्विशेषगुण इत्याद्यनुमानेन शब्दस्य स्पर्शवाद्विशेषगुणत्वाभावस्य साधतत्वात् मृदङ्गादिविशेषगुणत्वस्यात्यन्तासभावितत्वादलाकाशग्रन्थः ॥ मूले जन्यानां जनक इति ॥ कार्यसामान्य प्रति निमित्तकारणमित्यर्थः । कालिकसंबन्धा- दिनकरीयम्. ल्यबच्छिन्नमाकाशं चैत्रादिश्रोत्रमिति भावः । नव्यास्तु शब्दनिमित्तकारणत्वेन क्लुप्तत्येश्वरस्यैव शब्दसम- वाधिकारणत्वम् । नचेश्वरस्य शब्दसमवायिकारणत्वं जीवस्य पेत्यत्र विनिगमनाचिरहः जीवस्य शब्दसम- वायित ज्ञानवच्छब्दस्यापि मानसत्यापत्तः अदृष्टादिवत्प्रतिबन्धककल्पने चातिगौरवम् । नचैवं कर्णशष्कु- लीविवगवच्छिन्नाकाशस्य कथं श्रोत्रत्वोपपत्तिरिनि वाच्यम् । तथाविधस्येश्वरस्यैव श्रोत्रत्वोपपत्सेरित्याहुः । स्वतन्लातु मृदङ्गादानामेव गुणः शब्दः शब्दं प्रति गृद्गत्वादिना समवायिकारणतायाः स्वीकारात् प्राचीने. रपि मादलत्यादिना निमित्तकारणतायाः स्वीकारात् मृदझे शब्द इत्यादिप्रतीजेध । नच तनावच्छेदकत्वं वि. पयः गानाभावात् अन्यथा तलावच्छेद कतारयस्वरूपस्य सम्बन्धस्यान्यन समवायस्य कल्पने गौरवादिति व. दन्तीति । 1॥ इत्याकाशमन्थ: ॥ मुले जन्यानां जनक इति । कार्यत्वावच्छिन्नं प्रति निमित्तकारणमित्यर्थः । अत्र च कालिकसम्बन्धा- रामरुद्रीयम्. स्वाभायसाध्यकानुमाने । हेतोरसिद्धिप्रदर्शनार्थमित्यस्य पक्ष इत्यादिः ॥ चक्षुष इति ॥ नीलं नभ इति चाशुपनमात्प्रमेत्युत्तम् ॥ ४४ ॥ अतिगौरवामिति ॥ विनिगमनाविरहेण नानाजीवेषु शब्दसमवायिकारणताया अतिरिक्तप्रतिबध्य- प्रतिबन्धकभावकल्पनायाश्चापत्तिरिति भावः । न च कालदिशावादाय विनिगमनाविरह इति वाच्यं । नवी- नैस्तयोरपीश्वर एवाऽन्तर्भावितत्वादिति मन्तव्यम् । अथ स्वतन्त्रमते शब्दप्राहकमिन्द्रियं किस्वरूपं कर्ण- शप्कुलीस्वरूपमेव वधिरस्य शब्दप्रत्यक्षवारणाय शरीरस्थदोषविशेषस्य तत्प्रत्यक्षप्रतिबन्धकताकल्पनस्य सर्व- मत एवावयकतया शष्कुलीमात्रस्य श्रोत्रत्वेऽपि तत्कल्पनाधिक्यविरहादिति चेत्तर्हि मृदङ्गसमवेतशब्दे श्री. त्रस्य करसन्निकर्षः स्वसंयोगिसंयुक्त समवाय इति चेत्सग्निकर्षान्तरकल्पनागौरवादिति मैवं । तत्तदात्मन एव तदीयश्रोत्रेन्द्रियत्वोपगमात् । न च कर्तृत्वकरणत्वयाविरोधात्कथमेतदिति वाच्यम् । स्वात्मानं वेत्तीत्यादी क- तृत्वकर्मत्वयोरिव तयोरप्यविरोधादित्थं च केवलसम वायस्य सन्निकर्षवाकल्पनेन लाघवान्तरमपि । कर्णशकुलपिधान दशायामपि शब्दप्रत्यक्षापत्तिरिति वाच्यम् । तथाविधाकाशस्य श्रोत्रतामतेऽपि केनापि वस्तुना व्यवधीयमानाकाशे शब्दोत्पत्तौ बाधकामावेन तस्य तत्प्रत्यक्ष प्रतिबन्धकताकल्पनामा: सिद्धान्ते - प्यावश्यकत्वादिति दिक् ॥ इत्याकाशनन्थः ॥ न च