पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । मञ्जूषा. धर्मिविशेषणत्वेऽतीन्द्रिये द्रव्ये कर्मणि च व्यभिचारापत्तेः । नच बहिरिन्द्रियग्राह्यत्वस्यापि धर्मि- विशेषणत्वस्वीकारान्नायं व्यभिचार इति वाच्यं तथापि दैवात्त्वगिन्द्रियमात्रगृहीते घटविशेषे व्याभि- चारस्य दुर्वारत्वात् । अथ वायुस्पार्शनानीकर्तृनव्यमते वायुत्वजातिमादाय वायौ व्यभिचरत्ययं हेतुः । नच द्रव्यावृत्तित्वमपि जातिविशेषणमिति वाच्यं तथा सत्यात्ममनसोयभिचाराप्रसत्या तद्वारकस्य बहि- रिन्द्रियग्राह्यत्वाविशेषणस्य वैयपित्तेः । नच तद्विशेषणस्य द्रव्यावृतित्वरूपजातिविशेषण एव तात्पर्य मास्ता- मिति वाच्यं तद्विशेषणेन तदर्थस्य दुर्घहत्वात् । कथंचिल्लाभसंभवेऽपि शब्दो निरवयवद्रव्यामिति ये वद- न्ति ये च सावयवद्व्यमिति तन्मतद्वयस्य प्राचीनग्रन्थेषूपन्यस्तस्य निराकरणाथैव एतदनुमानप्रवृत्त्या हेतोः साध्याविशेषताया दुरित्वाञ्च । उच्यते वायुस्पार्शनानीकर्तृप्राचीनमतानुसारेणैवेदमुक्तम् । नव्यमते त्वी- श्वरातिरिक्तस्याकाशस्यैवानङ्गीकारेण तन्मतसाधारगहेत्वभिधानस्यानावश्यकत्वात् । ननु नव्यमते ईश्वरा. तिरिक्ताकाशानङ्गीकारेऽपि शब्दस्य गुणत्वसाधनमावश्यकमेव शब्दस्य ईश्वरगुणत्वानगी कारादिति चेत् अ- स्तु तेषामपि शब्दस्य गुणत्वं किन्तु तत्साधको हेतुरयमेव तेषामपीति न नियमः । चक्षुर्ग्रहणायोग्यत्व- गिन्द्रियातिरिक्तबाहिरिन्द्रयग्राह्यजातिमत्त्वस्य हेतुत्वसंभवात् । एतन्मते चक्षुर्ग्रहणायोग्यत्वं त्वगिन्द्रियाति. रिक्तवहिरिन्द्रियाग्राह्यत्वं तच धर्मिविशेषणमपि संभवति चक्षुस्त्वगुभयातिरिक्तवाहिरिन्द्रयग्राह्ययोदव्यकर्म- गोरभावादिति बोध्यम् । अत्रेदं शक्यते । अनुकूलताभावादुक्तो हेतुरप्रयोजक इति । यत्तु यथा रूपादि- रासनवारणाय रासनप्रत्यक्षे तादात्म्येन रसस्य कारणतायां वाच्यायां रसस्वमधुरत्वादिरासने रसाभावरस• स्वाद्यभावरासने च व्यभिचारवारणाय गुणवृत्तिलौकिकविषयताया एव कार्यतावच्छेदकसंबन्धत्वं वाध्य यथा वारूपादिघ्राणजवारणाय घ्राणजप्रत्यक्षे तादात्म्यसंबन्धस्य गन्धस्य कारणतायां वाच्थायां गन्ध- त्वसुरभित्वादिघ्राणजे गन्धाभावगन्धवाद्यभावनाणजे च व्यभिचारधारणाय गुणवृत्तिलौकिकविषयताया एव कार्यतावच्छेदकसंबन्धत्वं वाच्यं तथा सङ्खयादिश्रावणवारणाय श्रावणप्रत्यक्षे तादात्म्येन शब्दस्य कारणतायां वाच्यायां शब्दत्वकत्वादिश्रावणे शब्दाभावशब्दत्वाधभावश्रावणे च व्यभिचारवारणाय गुणव. तिलौकिकविषयताया एव कार्यतावच्छेदकसंबन्धत्वं वाच्यम् । तथाच यदि शब्दस्य गुणत्वं न स्यात् तदा तत गुणवृत्तिलौकिकविषयतासंबन्धेन श्रावणप्रत्यक्षोत्पादासंभवेन चक्षुरतिरिक्तं श्रीदन्द्रियरूपं यदहिरिन्द्रियं तबाह्यत्वं न स्यात् । तथाच हेतूच्छित्तिरनुकूललर्क इति तत्तुच्छम् । शब्दस्य व्यत्वमशीकुर्वतां परेषां व्यवृत्तिलौकिकविषयताया एव शब्दकार्यतावच्छेदक संबन्धवस्वीकारसंभवात् । वस्तुतस्तु शब्दवृत्तिलौकि- कविषयताया एव शब्दकार्यतावच्छेदकसंबन्धत्वं अथवं न्यायनये गुणश्रवणकारणीभूतस्य श्रोत्रसमवायस्य संख्यादौ परनये दव्यश्रावणकारणीभूतस्य कर्णशष्कुलीसंयोगस्य च घटादौ सत्त्वात् संख्यादेघटादेश्च श्रावणाप- त्तिः शब्दकार्यतावच्छेदकीभूतशब्दश्रावणत्वावच्छिन्नापत्तेः तत्र तादात्म्येन शब्दविरहेण असंभवेऽपि सनिक- षकार्यतावच्छेदकावच्छिन्नापत्ते?ारत्वादिति चेन्न श्रोत्रसमवायेन कर्णशष्कुलीसंयोगेन वा फले जननीये ता- दाम्येन शब्दस्य विशेषसामग्रीत्वस्वीकारेणानुपपत्त्यभावात् । वस्तुतस्सन्निकर्षकार्यतावच्छेदकमपि शब्दश्रा- वणत्वमेव । अतः मनिकर्षशब्दयोः परस्परसहकारित्वान्नानुपपत्तिः इत्यादिकं स्वयमूहनीयम् । एवं रासना- दिस्थलेऽपि रसरासनत्वादिकमेव कार्यतावच्छेदकामति बोध्यम् । तथाचाप्रयोजकोऽयं हेतुरिति । उच्यते । शब्दस्य गुणस्वाभावे किं स्यात् न तावत्कर्मत्वं चलनाकारानुभवविषयवाभावात् संयोगविभागाद्यहे- तुत्वाच । न सामान्यादिरूपता उत्पादविनाशादिप्रत्ययगोचरत्वात् आश्रयानिरूपणात् आंशिकवादि. दोषाच्च । अतः परिशेषाद्दव्यरूपतैव वाच्या सैव च निराकरणीया पराभ्युपेतत्वात् तत च शब्दात्मकं द्रव्यं किमुद्भूतरूपवत् उत तच्छून्यं आये चक्षुर्ग्रहणयोग्यता स्यात् अन्ये बहिरिन्द्रियग्राह्यता- नुपपतिः । बहिरिन्द्रियजन्यदव्य प्रत्यक्ष प्रति उद्भतरूपस्य कारणत्वात् तत्र शब्दातिरिक्तत्वनिवेशे शब्दा. तिरिकत्वयहिष्वदब्यत्वानां विशेषणविशेष्यभाषे विनिगमनाविरहेण कार्यकारणभावानन्त्यप्रसाच शब्दप्रत्य- क्षे कारणान्तरकल्पने गौरवाश्चेति प्राचीनमतरीत्या हेतूच्छित्तिरनुकूलतः । नच शब्दस्य द्रव्यत्वे तस्यैव