पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली हाय । एतेन प्रमाणमपि दर्शितं तथाहि शब्दो गुणश्चक्षुर्ग्रहणायोग्यबाहिरिन्द्रियग्राह्यजाति-- प्रभा. ब्द इति मूर्ल सावधारणमिति ज्ञेयम् । ननु शब्दस्य विशेषगुणत्वनिर्णयाभावे का क्षतिरत आह ॥ एतेने. ति ॥ शब्दस्य विशेषगुणत्वकथनेनेत्यर्थः ॥ प्रमाणमिति ॥ आकाश इत्यादिः । अनुमानप्रमाणमित्यर्थः॥ दर्शितमिति ॥ सूचितमित्यर्थः । तथाच शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसमवेतः अष्टव्यासमवेतत्वे सति द्रव्यसमवेतत्वादित्यनुमान आकाशे प्रमाणमिति भावः । अत्र विशेष्यासिद्धिनिरासाय द्रव्यसमवेतत्वं साधयितुं तत्साधकहेतुमादौ साधयति ॥ तथाहीत्यादिना ॥ चक्षुर्ग्रहणायोग्येति ॥ चाक्षुष- निरूपितलौकिकविषयाताशून्येत्यर्थः ॥ बहिरिन्द्रियग्राह्येति ॥ मनोभिन्नेन्द्रियजन्यज्ञाननिरूपि- तलौकिकविषयतावदित्यर्थः । मानसानिहापितलौकिकविषयतावदिति यावत् । तेनेन्द्रियत्वस्यानुगत- स्याभावेन तद्घाटितेन्द्रियजन्यप्रत्यक्षत्वस्याप्यननुगतत्वात् गौरवाच्च कथं हेतुत्वमिति शङ्का निर- स्ता । तथाच चाक्षुषनिरूपितलौकिकविषय ताशुन्यमानसानिरूपितलौकिकविषयताविशिष्टजातिमत्त्वादिति हे. तुः फलितः । नच वायोरपार्शनाङ्गीकर्तनवीनमते वायुत्वजातेरपि तादृशतया तादृशहेतुमति वायौ तादृश- मञ्जूपा. वाच्या दूरत्वं च नानुगतं नितुं शक्यम् । तथाच दूरत्वस्थानन्तप्रतिवन्धकताकल्पनं तवाधिकम् । मम तु तत्तदु. न्मीलनविशेषाणां दूरस्थवस्तुविशेषचाक्षुषे हेतुत्वाकल्पनादेवोपपत्तौ न तत्र दूरत्वस्य प्रतिबन्धकता । अथो- न्मीलनायव चानुपहेतुत्येऽन्धस्य कुतो न चानुपामिति च तत्तत्पुरुषायोन्मीलनव्य कीनां चाक्षुषकारणत्याकल्प- नातू रोगविशेषस्य चाक्षुषप्रातेवन्यकत्वकल्पनाद्वा । एवमन्येऽपि दोषा निपुणतरपरिशीलनपरिहार्याः ।विस्त- रमयाद्विरस्यत इति तावती द्वावपि पक्षा युफिसिद्धावपि तान्त्रिकसंप्रदायविरोधादुपेक्षणायौ ॥इति वायुप्रन्थः ।। विशेषगुणान्तरध्यवच्छेदायति ॥ कथमेतस्थ लाभ इति चेत् शब्द इत्युत्तरमेवका- राध्याहारेपोति केचित् । वस्तुतस्त्वाकाशस्य वैशेषिको गुणश्शब्द इति योजनायामुद्देश्यविधेयभावमहिम्ना श. ब्दत्वे आकाशविशेषगुणत्वव्यापकवलाभादाथिको विशेषगुणान्तरव्यवच्छेदः । आकाशत्तिविशेषगुणत्व- स्योद्देश्यतावच्छेदकत्वाच्छन्दत्वस्य च विधेयतावच्छेदकत्वात् । यदि च लक्षणवाक्ये लक्ष्यस्य कदा- चिद्विशेप्यत्वाभावेऽन्युद्देश्यत्वमावश्यकमिति मन्यते तदा आकाशस्य शब्दो वैशेषिको गुण इति योज- नयाऽऽकाशस्यैवोद्देश्यत्वं शब्दामिन्नवशेषिकगुणस्य च विधेयत्वं तथापि न क्षतिः वैशेषिकगुणस्य शब्दस्य चान्तराळिकोद्देश्यविधेयभावेन पैशेषिकगुणे अभेदेना न्वायनशब्दस्य विशेषणीभूताकाशवृत्तित्व विशिष्टपैशेषिकगुणत्वावच्छेदेनान्वयस्वीकारादिष्टसिद्धिः । चक्षुर्ग्रहणायोग्येति ॥ एतच्च जातिविशेषणं। दिनकरीयम् वधारणं ज्ञेयम् । एतेन विशेषगुणत्वकथनेन । प्रमाणभिति ॥ साकाश इत्यादिः । तच्च शब्दः पृथि- व्यायष्टव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितस्त्रादित्यवरूपं बोध्यम् ॥ दर्शितं सूचि. तम् । अत्रानुमाने स्वरूपासिद्धि परिहर्तुमाह ॥ तथाहीति ॥ घटादी व्यभिचारवारणायायोग्येति । रामरुद्रीयम् किकत्वादित्यर्थप संचासतं मूलोक तत्र च दव्यत्वादेरण्ये कव्यक्तिकरयेन व्यभिचारापरयाऽऽकाशादानामित्ये- कन्यक्तिकवादित्यगेनान्वितमिलमित्रायेणोक्तं यथोक्तार्थकत्वे वैयधिकरण्याभावात् । नवमिदानी तादशार्थ. कैकव्यापकत्व दित्यस्य हेतुत्वसंभवान्मूले तबुफिययामिति वाच्यम् । हेतुसाधकत्वेनैव तदुपन्यासादिति भावः ॥ इत्थंचेति । परोधिकपदस्थाका विशेषगुणान्तरव्यवच्छेदपरत्वे चेयर्थः ॥ सावधारणमि. ति ॥ शब्द एवेत्येवकारसहितमित्यर्थः । तथासलेवी काथलामसम्भवादिति भावः ॥ विशेषगुणत्वति ॥ विशेषगुणत्वस्य शब्दे सिद्धधनन्तरमेव वक्ष्यमाणरीत्याऽऽकाशसाधकवक्ष्यमाणहतोः शब्दे सिद्धिसम्भवादि- ति भावः । आकाशे प्रमाणप्रदर्शनरूपता शब्द एवाकाशविशेषगुण इत्यस्य न सम्भवतीत्यतो दर्शितमित्य- स्यार्थमाह ॥ सूचितमिति ॥ घटादाविति ॥ त्वगिन्द्रियजभ्यलौकिकप्रत्यक्षविषयघटस्वादिजातिमत्त्वा-