पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणत्वात् जलमध्यस्थपीतपटवत् । त- स्य च पृथिवीजलभिन्नस्य तेजस्त्वनियमात् ॥ प्रभा. थं द्रव्ये द्रवत्वविशेषणम् । तथाच रूप प्रतिबन्धकद्रव्यसंयुक्तत्वमानं साध्यमिति तत्त्वम् ॥ अत्यन्ताग्निसं- योगे सतीति । अग्निसंयोगशून्यताकालीनघटे व्याभिचारवारणाय सत्यन्तं विजातीयसंयोग इति तदर्थः । नच पूर्वापररक्तिमध्वंसप्रागभाववति मध्ये रस्ते अत्यन्ताग्निसंयोगकालीने व्यभिचार इति वाच्यं पूर्वरूपवि- जातीयरूपेत्य स्य पूर्वरूपभिन्नरूपेत्यर्थकतया तादृशमध्ये रक्तघटे पूर्वरक्तभिन्नर तान्तराधारत्वेन हेत्वभावान्न व्य. भिचारः । अत एव घटः पूर्व रक्त: इदानी रक्त तर इति प्रतीत्यनुभवोऽपि सङ्गच्छते । अत्र पूर्वरू- पभिन्नरूप नाधारस्वोक्त्या पूर्वरूपनाशो न जायत इत्यर्थस्सूच्यते । तथाचात्यन्तानिसंयोगसमान- कालीनपूर्वरूपध्वंसानाधारवादित्यत्यन्ताग्निसंयोगसमानकालीनपूर्वरूपभिन्नरूपानाधारत्वादिति हेतुद्वयला- भात् न मूलकारस्य न्यूनता । जलपरमाण्यादौ व्यभिचारवारणाय हेतुद्वयेऽपि पृथिवी त्वविशेषण देयम् । यद्यपि पूर्वरूपविजातीयरूपाभाववत्वस्यैव हेतुत्वमुचितं अधिकरणत्वघटितहेतुताकरणे गौरवात् आरक्षणावच्छिन्नघटे विजातीयाग्निसंयोगरूपसत्यन्ताभावेन तत विशिष्टहेत्वभावात् तथापि नानारूपव- मजूपा. रूपोत्कर्षदर्शनात् कथमुक्तहेतोः पक्षधर्मत्वमिति वान्यं तदन्तर्गतपीतरूपोत्कर्षधीप्रतिबन्धकमालिनद्रव्याप- नयनस्यैव तेजस्सयोगप्रयोज्यतास्वीकारेण तत्र रूपपरावृत्यनङ्गीकारात् । अत एव निश्शोधिते तस्मिन् न पु. नः पीतरूपोत्कर्षदर्शनं किंवप्रयोजकोऽयं हेतुः अनुकूलतविरहात् । न चातितप्तसलिलमध्यपतितपीत- पटरूपनाशापत्तिवारणाय पृथिवीरूपनाशप्रति द्रवद्रव्यस्य प्रतिबन्धकत्वं कल्पनीयम् । तत्र चातितप्तधृतम ध्यपतितपातपंटरूपनाशानुपपत्त्या पृथिवी भिन्नत्वमपि प्रतिबन्धकत्वावच्छेदककोटौ प्रवेशनीयामिति कथम- प्रयोजकत्वमिति वाच्यम् । पृथिवीभिन्नत्वद्वत्वयोपिशेषणविशेष्यभावे विनिगमनाविरहेणावच्छेदकगौरवेण च तदपेक्षया जलत्वेनैव पृथिवीरूप नाशप्रतिबन्धकतायाः लाघवेन युक्तत्वात् । नचैवमत्यन्तानलसयोगे सु. दिनकरीयम्. ध्ये विजातीयपदमुद्देश्यसिद्धयर्थम् । हेतौ सत्यन्तमग्निसंयोगरहिते पूर्वरूपविजातीयरूपानाधारे घटे व्यभिचारबार गाय । अत्र हेतौ पृथिवीत्वं देयं तेन जलपरमाणौ न व्यभिचारः । यथाकथञ्चिदग्नि- संयुक्त घटे तद्वारणायात्यन्तेति । नचाप्रयोजकत्वं विरोधिद्रवद्रव्य सम्बन्धं विना पार्थिवाग्निसंयोगस्य पूर्वरूपविजातीय रूपजनकत्वादिति भावः । न च द्रवद्रव्यादन्यदेव प्रतिबन्धक वाच्यम् । अदृष्टकल्पनापत्तेरि- ति ॥ तस्य चेति ॥ तस्य द्रवद्रमस्य ॥ पृथिवीजलभिन्नस्येति ॥ पृथिव्याः पक्षीकृतपीति- माश्रयाया विजातीयत्वाभावाजलस्य तत्रासम्भवादिति भावः ॥ सेजस्त्वनियमादिति ॥ वाम्बादौ रामरुद्रीयम्. गस्य हेतोच स्वसमानाधिकरणाग्निसंयोगकालीनपूर्वरूपविजातीयरूपानाधारत्वस्य चासत्त्वेन बाधासि- अयोर्वारणाय अग्निसंयोगीति सार्थकम् । अत्र च यत्किञ्चित्पीतपटादौ साध्यस्योभय वादिसिद्धतया सा- भानाधिकरण्येन साध्यतायां सिद्धसाधनापत्त्याऽवच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्येति बोध्यम् ॥ तेन जलपरमाणाविति ॥ यद्यपि पूर्वहेतावपि जलपरमाणौ व्यभिचारस्तदवस्थ एव तत्रापि पृथिवीत्वस्य हेतुविशेषणत्वे हेत्वप्रसिद्धिरेव पृथिव्यामग्निसंयोगानाश्यद्रवत्वाभावातथापि तत्र द्रवत्वपदस्य नैमित्तिकद्रव- स्वार्थकालोपगमान व्यभिचार इति विभवनीयम् ॥ विरोधीति ॥ विजातीयरूपप्रतिबन्धकेत्यर्थः ॥द्र- घद्रव्यादन्यत् ॥ अदृष्टादिकमित्यर्थः । तत्रासम्भवादिति ॥ सांसिद्धिकद्रवत्वस्य तत्राननुभवादिति भावः ॥ वाय्वादाविति ॥ यद्यपि तेजसोऽपि न तन्त्र रूपं प्रत्यक्षमिति रूपाभावो न वायौ प्रतिवन्धकत्वक- रूपनबीज तथापि पार्थिवरूपनाशे नारूपद्रव्यसंयोगस्य प्रतिबन्धकत्वे कापि पार्थिवरूपनाशः पाकेन न स्यास- स्य सर्वदैव सम्भवादिति रूपवतो व्यान्तरस्यैव तथात्वमङ्गीकरणीयामित्यभिप्रायेणेतदभिहितमित्यवधेयम् ।