पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. दिन मनसि व्यभिचारवारणाय मनोभिन्नत्वं विशेष्यदळघटकजन्यतायां चाक्षुषत्वावच्छिन्नत्यं वा निवेश्यते तदा तादृशसत्यन्तदलमपि व्यर्थगेवेति प्रतिभाति । अन्येतु चक्षुर्विषयासंबद्धगेव ग्राह्यं यदि प्राप्यकारि स्या तु तदा रसनादिवदधिष्ठानसंबन्धं गृह्णीयात् नचैव गोलकासंबन्धग्रहणात् । नच घटादीनां गोलकासंवद्धत्वे- पि चक्षुरेव ऽगोलकान्निर्गत्य घटादिना संबध्यत इति वाच्यम् । चक्षुषः प्राप्य ग्राहकावे स्वतोऽधिकपरिमा. णाप्राहकत्वानुपपत्तेः यावदवयवावच्छेदेन विषय संयोगाभावात् नच सर्वावयवावच्छेदेन विषयसं योगाभावेs. पि चक्षुस्संयोगमालेण घटादिग्राहकत्वमात्रवत् तत्समवेताधिकपरिमाणमाह करवे वाधकाभावः सामग्र्यास्तु- ल्यत्वादिति वाच्यम् । तथा सति शाखाचन्द्रममोस्तुल्यकालग्रहणानापत्तेः चक्षुपः शााखाप्रात्युत्तर कलमेव च- न्द्रप्राप्तिसंभवेन शाखाप्रत्यक्षेोत्तरमेव चन्द्रप्रत्यक्षसंभवात् । नचेष्टापत्तिः अनुगवति तन्मीलय नेव नयने शाखां शीतययूवं चेति इति लोकप्रवादविरोधापत्तेः तस्माचक्षुषः प्राप्य कारित्वानुरोधेन गोलकातिरिक्तं चक्षुः परर- श्रीक्रियते गोलकस्य चन्द्रादिप्राप्त्यसंभवात् । अप्राप्यकारित्वासिद्धौ गोलकमेव चक्षुः तत्तु पार्थियं न तेजस मित्याहुः । तदसत् । अधिष्ठानासंबन्धार्थप्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वसंभवात् स्वा- धिकपरिमाणद्रव्यग्रहणात् त्वयिन्द्रिये व्यभिचारेण तादृशनियमे मानाभावात् । तुल्यकार ग्रहणं चासिद्धमेव तदभिमानस्य काल सन्निकणैवोपपत्तेः । अचिन्त्या हि तेजमा लाधवातिशयेन वेगातिशयः यत् प्राच नाच- लचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालाक इलभिमानो लोकानाम् । इदगुपलक्षणं चक्षुषः दिनकरीयम्. दि चक्षुः प्राप्य गृह्णीयात्तर्हि स्वतोऽधिकपरिमाणवन्न गृह्णीयात् न खलु नखरजनिका परशुच्छेदी छिनत्तीति शा खाचन्द्रमसोस्तुल्यकालग्रहणानापत्तिश्च गतिक्रमेण प्राप्य ग्रहणे हि सन्निहितकमेण ग्रहणं स्यात् न तु तुल्य: कालमुपलम् अनुभवति तून्मीलयन्नेव नयने शाखां शीतमयूखं च । एवं च प्राप्यकारित्वानुरोधेन गोल- कातिरिक्त चक्षुः परैरङ्गीक्रियते गोलकस्य चन्द्रादिप्राप्त्यसम्भवात् । अप्राप्य कारित्वे च गोलकमेव चक्षुस्त चन सैजसमिति । तदसत् , अधिष्ठानासम्बद्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वस- म्भवात, पृथुतरग्रहणस्य च गोलकनिर्गतस्य महतच चक्षुषः पृथ्वगत्वेन प्रदीपप्रभाया इचोय पत्तेः स्वाधिकप. रिमाणवह व्यप्राहिणा त्वगिन्द्रियेण व्यभिचारात् तादृशनियमे गानाभावाच्च । तुल्यकाल प्रहणं चासिद्धमेव त. दभिमानस्य कालसन्निकर्षणवोपपत्तेः अचिन्त्यो हि तेजसो लाघवातिशयेन गातिशयः यत्प्राचीनाचलचूडावल- म्बिन्येव भगवति मयूरनमालिनि भवनोदरेप्वालोक इत्यभिमानो लोकानाम् । यत्त्वाहुः शालिकाचार्थाः चक्षुर्यास्या रामरुद्रीय. दिति सामान्यमुखव्याप्लभिप्रायेण दृष्टान्तमाह ॥ न खल्विति ॥ नखरजनिका नखकृन्तनी । तथा चै. तद्वयाप्यनतीकारे नखरजनिकापि परशुभेचं महादावपि छिन्यात् । अत्र च खाधिकपरिमाणदारोरपि परशु. भेद्यत्वदर्शनादात्यन्तिकन्यूनताया निर्वक्तुमशक्यत्वाचेत्यस्वरसात्विन्तरमाह ॥ शाखेति ॥ तथा च शाखा- चन्द्रमसोरेककालीन चाक्षुषजनकत्वेनापि चक्षुषि असन्निकृष्ट प्राहकारवमापादयितुं शक्यमिति भावः। उपसंहर. ति ॥ एवं चेति ॥ चक्षुपः असन्निकृष्टग्राहकत्वे चेत्यर्थः । नंन्विष्टापत्तिरित्याशङ्कायामाह ॥ तच्चेति ॥ तथा चेन्द्रियं नयनमिति कारिकाविरोधापत्तेर्नेटापत्तेसम्भव इति भावः ॥ अधिष्ठानासम्बद्धति ॥ त. थाचोक्तनियमो दीपरूपाधिष्ठानासम्बद्धघटादिग्राहिण्यां दीपप्रभायां व्यभिचरित इति भावः ॥ तदभिमा- नस्य एककालीनत्वभ्रमभ्य ।। कालसनिकर्पण अतिसन्निहितकालवृत्तित्वेन । ननु शाखातः चन्द्रमसोड- तिदूरत्वेन झटिति चन्द्रचक्षुःसंयोगासम्भवात् शाखाचन्द्रमसेाश्चाक्षुषयोरत्यन्तसानिध्य मेव न सम्भवति ये- न तुल्यकालताभ्रान्तिः स्यादित्यत आह ॥ अचिन्त्यो हीति ॥ निर्वक्तुमशक्य इत्यर्थः । साघघाति. शयेन वेगजनकक्रियातिशयेनेत्यर्थः । गुरुत्वाभावरूपलाघवस्थ चाय्बाद्यपेक्षयाऽतिशयासम्भवादिति मन्तव्य- म् ॥ यत् यस्मात् ॥ प्राचीनाचलः उदयगिरिः ॥ चूडा अमं शिखरामिति यावत् मयूखमालिनि सूर्ये । अभिमानो भ्रमः । उदयाचलारोहणग्रहण किरणप्रसारयोर्वस्तुगत्यैककालीनत्वाभावादिति भावः । --