पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामहद्रीयसमन्विता । प्रभा. दावतिव्याप्तिवारणाय व्यत्वसाक्षायाप्योति च जातिविशेषणं देयम् । तत्र नैमित्तिकद्रवत्ववतोः पृथवीतेज. सो: नैमित्तिकद्रवत्वयत्त्वेन निवेशे गौरवात् पृधिवात्वतेजस्वाभ्यां निवेश उचितः तथा सति पृथिव्यवृत्तित्वं तेजोऽवृत्तित्वं च जातौ लब्धं एतल्लाभायैव च द्रव्यत्वसाक्षायाप्यत्वविशेषणं प्रयोजनान्तरविरहात् एवंच पृ. थिवीवृत्तित्वसामान्याभावतेजोवृत्तित्वसामान्याभावशुक्लवद्वृत्तित्वैतत्त्रितयविशिष्टजातिमत्त्वं लक्षणं फलितमिति न कोऽपि दोषः । अस्मद्गुरुचरणास्तु वज्रत्वजातिमादायोतिव्याप्तिवारणाय द्रव्यत्वसाक्षाद्वयाप्येति साक्षा- द्वयाप्यत्वं च द्रव्यविभाजकधर्मत्वामिति व्याचकः । केचित्तु साक्षादिति घटत्वादिवारणाय द्रव्यत्वसा. क्षाद्वयाप्यत्वं च द्रव्यत्वव्याप्याव्याप्यत्वमानं नतु द्रव्यत्वव्याप्यत्त्वस्यापि तत्र प्रवेशः रूपवद्वृतित्वविशेषणेनैव रूपत्वादीनां वारणात् तान्नवेशे प्रयोजनाभावात् मूर्तत्वज्ञात्यनभ्युपगमादेव जलत्वस्य द्रव्यत्वव्याप्यमूर्तत्व व्याप्यत्वेऽपि न क्षतिरित्याहुः तदसत् मूर्तत्वजात्यभ्युपगमपक्षे मूलोपात्तलक्षणस्य निर्दुष्टत्वासम्पादकतयो- तपक्षस्य हेयत्वात् । अन्ये तु द्रव्यत्वव्याप्याव्याप्यत्वस्य यथाश्रुतस्य लक्षणघटकत्वे द्रव्यत्वव्याप्यजलवा- व्याप्यत्वस्य घटत्वादावपि सत्त्वेन तमादाय घटादाचतिव्या आपत्तेः । द्रव्यत्वव्याप्य यावव्याप्यत्वनिवेशे असंभवः द्रव्यत्वव्याप्ययावद्धर्माणामेकाधिकरणाप्रसिद्धया यावन्निरूपितव्याप्यत्वाभावस्याप्रसिद्धत्वात् । किन्तु द्रव्यत्वव्याप्या यावन्ती धर्माः तत्प्रत्येकनिरूपितव्याप्यत्वाभावकूटवत्त्वं वाच्यम् । एवंच मूर्तत्वजात्यभ्युप- गमपक्षे द्रव्यविभाजकोपाधिद्वयघटकप्रत्येकासमानाधिकरणस्वं व्याप्यधर्मेषु निवेश्य द्रव्यत्वव्याप्या यान्नो द्रव्यविभाजकोपाधिद्वयघटकप्रत्येकासमानाधिकरणा धर्माः तत्प्रत्येकानरूपितव्याप्यत्वाभावकूटवत्त्वरूपदव्य. स्वसाक्षाद्वयाप्यत्वनिवेशात् द्रव्यत्वन्यूनवृत्तित्वरूपद्रव्यत्वव्याप्यत्वविशिष्टधर्मेषु मूर्तत्वान्यत्वनिवेशाद्वा मूर्तत्वजा- तिवारणसंभवेन लक्षणस्य निर्दुष्टत्वसंभवात, इत्याहुः । तन्न प्रथमपरिष्कारे द्रव्यविभाजकोपाधिद्वयघटकप्रत्ये. मजूषा. नाधिकरणभेदप्रतियोगितावच्छेदकं यद्यत् स्वं तत्तद्भेदकूटवत्त्वं स्वसामानाधिकरण्यस्वसमानाधिकरणभेदप्र. तियोगितावच्छेदकत्वोभयसंबन्धेन तादृशजातिविशिष्टान्यत्वं वा तत् । तादृशजातीत्यस्य द्रव्यसमाना- धिकरणभेदप्रतियोगितावच्छेद कजातिरित्यर्थः । एवमन्यदप्यूह्यम् । सर्वपक्षेऽपि जलभटान्यतरत्वमादाय ध. टादावतिव्याप्तिवारणाय जातिपदमिति नीलकण्टोक्तिरसङ्गतैव द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छे- दिका या पृथिवीत्वजातिस्तत्समानाधिकरणत्वस्य तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्य च तत्र सत्त्वात् । नच घटपदं पृथिवीमात्रपरं तथाच पृथिदीजलान्यतरत्वस्य तादृशयजातिसमानाधिकरणत्वं त- जातिसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वविरहात्तदादायातिव्याप्तिसङ्गतिरिति वाच्यम् । पृथिवजिला - भ्यतरत्वस्य नैमित्तिकद्रवत्ववद्वृत्तित्वेन लक्षणघटकत्वानिर्वाहात् । अतः द्रव्यत्वसमानाधिकरणभेदप्रतियोगि- तावच्छेदिकाः स्वभिन्ना यावत्यो जातयः प्रत्येकं तायदभाववत्तित्वकूटवत्त्वं द्रव्यत्वव्याप्याव्याप्यत्वमित्यभिप्रा. येणेदमुक्तनीलकण्ठेन स्वं लक्षणत्वेनाभिमता जातिः जलत्वस्य तादृशजलवाभावचतित्वाभावादसंभववारणाय स्वाभिन्नेत्युक्तम् । घटजलान्यतरत्वं तु जलान्तर्भावेन घटत्वपृथिवीत्वाद्यभाववद्वृत्तिघटान्तर्भावेण जलवाद्य- भाववद्वृत्तीति लक्षणघटकं भविष्यत्येव घटत्वस्य तु तादृशथिवीस्वाभाववद्वृत्तित्वाभावान्न तदादायातिन्या- प्तिः अस्मदुकपरिष्कारे तु वायुजलान्यतरत्वमादायातिव्याप्तिवारणाय जातिपदमिति वक्तव्यम् । उभय मतेऽपि समवायेन शुक्लवद्वत्तित्वस्य समवायेन तादृशधर्मवत्त्वस्य च विवक्षयैवोकदोषवारणसभवात् । जातित्वनिवेशस्य नेदं प्रयोजनम् । किन्तु नीलकण्ठाभिमतपरिष्कारे घटजलसंयोगघटजलद्वित्वादिवारणा- य जातित्वनिवेशनम् । अस्मदुकपरिष्कारे तु समवायनिवेशलाभायैव जातिस्यनिवेशनं नतु घटजलसं. योगवायुजलसंयोगादिवारणाय तेषां यावज्जलव्याक्तिवृत्तित्वासंभवेन जलत्यसमानाधिकरणभेदप्रतियोगिता- बच्छेदकत्वाजलत्वसमानाधिकरणत्वाञ्च यावतीघु जलव्यकिष्वन्यत्र च समवेतैका सङ्ख्या नास्ति अ. चौतानागतजलव्यक्तीनां मेनासंभवात् । अतो न यावज्जलवायुसमवेतसंख्यामादाय दोषवारणायापि सत्या: