पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ कारिकावली चितुमुक्तं वर्णः शुक्ल इति । नतु शुक्लरूपवत्वं लक्षणम् । अथवा नैमित्तिकद्रवत्ववदवृत्ति- प्रभा. नाविरहात जलत्वेन्धनत्वयोः पार्थक्येन कारणतावच्छेदकतया जलवजातिसिद्धिरित्याहुः तन्न धूम प्रति जलसंयुक्तंन्धनत्वेन न हेतुत्वं तप्तायःपिण्डे ज्वलितनिधूमाङ्गारे च अलपरमाणुधणुकयोस्संयोगः सत्वेऽपि तत्र धूमानुत्पत्त्या व्यभिचारापत्तेः । किन्तु महाजलसंयुक्तेन्धनत्वरूपान्धनत्वेनैव हेतुत्वं वाच्यम् । अनाप्युक्तदोषण महाजलत्वेन्धनत्वाभ्यां कारणताद्वयमावश्यक एवंच महाजलत्यस्योपाधि. रूपत्व महाजलमात्रवृत्तिवैजात्यरूपत्वे वा न जलपरमाणुयणुकसाधारण्यं तयोर्महत्त्वाभावात् तप्तायःपि- ण्डाद्यन्तीवन व्यभिचारित्वानोक्तरीत्या जलत्वजातिसिरिसंभवात् । अन्येतु स्थूलजल प्रत्यक्षसिद्धजलत्व. जात्यवांच्छन्नसमवायकारणतावच्छदकतया परमाणुसाधारण जलत्वजातिसिद्धिः कार्यतावच्छेदककारणतात. च्छेदकारक्ये क्षतिविरहात नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वे दोषाभावाच्चत्याहुः तन्न स्थूलजले प्रत्यक्षप्रमाणसिद्धजलत्वमेव व्यवहारबलात् परमाणुड्यणुकयोरपि त्वीकियत इत्येतावतैवेष्टसिद्धः कार्यताव. च्छेदककारणतावच्छेदकयोस्क्यस्वीकारस्य नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वस्वीकारस्य चायुक्त्वादिति ॥ नतु शुक्लति ॥ पृथिव्यादावतिव्याप्तरिति शेषः । शुक्लबत्त्वस्य लक्षणत्वमपि संभवतीत्याह ॥ अथवेति । अत्र पृथिव्यादावतिव्याप्तिवारणाय नैमित्तिकद्रवत्ववदवृत्तीति वावादावतिव्यासितारणाय शुक्रवद्वत्तीति वज्रा- मञ्जूषा. वेत्यादिना ॥ नमित्तिकति ॥ नैमित्तिकद्रवत्वस्वं जातिविशेषः अग्निसंयोगासमवायि- कारणकदवत्वत्वं वा । शुक्लवद्वत्तीत्यत्र रूपवत्तीत्यपि पाटः । शुक्लरूपवत्तीति पाठस्तु प्रामादिकः शुक्लत्वरूपत्वो. भयनिवेशे प्रयोजनाभावात् । घटत्वादिवारणाय व्यवसाक्षायाप्यत्वनिवेशः । ननु किमिदं द्रव्यत्वसाक्षाद्या- प्यत्वं नतावत् द्रव्यस्यव्याप्याव्याप्यत्वं तद्धि न दव्यत्वसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकजाति- समानाधिकरणान्योन्याभावप्रतियोगितावच्छदकत्वाभावः जलवस्यापि ताशपृथिवीत्वसमानाधिकरणभेदप्र- तियोगितावच्छेदकत्वेनासम्भवापत्तेः । नापि द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकजातिसमानाधि- करणत्वावशिष्टं यत्तादृशजातिसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वं तदभावः जलत्वस्यापि ताशकर, कात्वादिसमानाधिकरणदेन तादृशपृथिवीत्वादिसमानाधिकरणभेदप्रतियोगितावच्छेदकरवेन चासम्भवापाता. त् । नापि द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदिका या जातिस्तद्यक्तिसमानाधिकरणत्वविशिष्टतध क्तिसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावः घटत्वस्यापि तादृशजलत्वाव्याप्यतामादायातिव्याप्या पत्तः । उच्यते । द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदिका यावत्यो जातयः प्रत्येक तत्तत्समानाधि. करणत्वावशिष्टतत्तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावकूटवत्त्वं स्वसमानाधिकरणतादृशजातिसमा. दिनकरीयम्. आईत्वं च जलसंयुक्तत्वं तथा च जलसंयुक्तेन्धनत्वेनेन्धनसंयुक्त जलत्वेन वा कारणतेत्यत्र विनिग- मनाविरहाज्जलत्वेन्धनत्वयोः पार्थक्येन कारणतावच्छेदकतया जलत्वजातिसिद्धिरित्याहुः । परेतु स्थूलजलवृत्तिप्रत्यक्षसिद्धजलत्वरूपजात्यवच्छिन्नसमवायिकारणतावच्छेदकतया परमाणुसाधारणजलत्वजा तिसिद्धिः कार्यतावच्छेदककारणतावच्छेदकयोस्क्ये क्षत्यभावात् नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वे दोषाभावाञ्चेत्याहुः ॥ नत्विति ॥ पृथिव्यादावतिव्याप्तरिति शेषः । शुक्लरूपवत्त्वस्य लक्षणत्वेऽपि न क्षतिरित्यभिप्रत्याह ॥ अथवेति ॥ द्रव्यत्वव्याप्यवायुत्त्वजातिमादाय वायावतिव्याप्तिवारणाय रूपक रामरुद्रीयम्. पार्थक्येनेति ॥ इदं च वस्तुगतिमनुरुध्योक्तम् ॥ आन्धनत्वेन धूमकारणत्वेऽपि कारणतावच्छेद- फकोटिप्रविष्टतयैव जलत्वसिद्धिसम्भवादित्यवधेयम् ॥ आहुरित्यस्वरसोद्भावनं तबीजं तु परमाणुरूप- जलसंयोगस्य धूमप्रयोजकत्वे मानाभावेन उक्तयुक्त्या परमाणौ जलत्वासिद्धेरिति । परे स्वित्यादिकं तु