पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुक्तावली प्रभा-मजूषा-दिनकरीय-रामद्रीयसमन्विता । २९७ योनिजादिर्भवेदेह इन्द्रियं घ्राणलक्षणम् । तत्र देहमुदाहरति । योनिजादिरिति ॥ योनिजमयोनिजं चेत्यर्थः । योनिजमपि द्विविधं जरायुजमण्डजं चेति । जरायुजं मानुषादीनाम् । अण्डजं भर्पोदीनाम् । अयोनिज स्वेदजोद्भिजादिकम् । स्वेदजाः कृमिदंशाद्याः । उद्भिजास्त रुगुल्माद्याः । नारकिणां शरी- रमप्ययोनिजम् । नच मानुषादिशरीराणां पार्थिवत्वे किं मानमिति वाच्यम | गन्धादिम- स्वस्यैव प्रमाणत्वात् । नच क्लेदोमादेरुपलम्भादायत्वादिकमपि स्यादिति वाच्यम् । तथा प्रभा: 10 पार्थिव शरीरं विभज्य दर्शयति ॥ योनिजादीति ॥ आरिपदग्राह्यमाह ॥ अयोनिजं चेति ॥ योनिजमिति ॥ योनिजमपीत्यर्थः । शुक्ल शोणितपरस्परमेलनजन्यगिति यावत् ॥ जरायुजमिति ॥ गर्भवेष्टनचर्मपुटजातमित्यर्थः ॥ मनुष्यादीनामिति ॥ आदिना पश्वादिपरिग्रहः ॥ सर्पदीना- मित्यादिना कुक्कटादीनां परिग्रहः । स्वेदजमुदाहरति ॥ कृमिदंशाचा इति पापविशेषसहिताणुभ्य एव तच्छरीराणामुत्पत्तिस्वीकारादिति भावः ।। उदिजादिकमिति || आ- दिना देवादिशरीरपरिवहः । तच्छरीराणां धर्मविशेषसहिताणुभ्य एच उत्पत्तिस्वीकारादिति भावः । देवादिशरीराणां अयोनिजत्वे ब्रह्मणो मानसा मन्वादयः पुत्रा इति श्रुतिरेप प्रमाणम् । नच योनि बिना न शरीरमिति ध्रुला सा विस्थ्यत इति वाच्यं तत्र योनिपदस्य कारणमात्रपरत्वात् शरीरपदस्य म. सुष्यदेहपरत्वाद्वा विरोधस्य चारणीयत्वात् । गन्धादील्याहिना नीलादेः परिग्रहः ॥ के दोमा- दिनकरीयम्. योनिजं शुक्रशोणितयोः परस्परमेलनजन्यं तद्भिनमयोनिजम् || जरायुजमिति ॥ गर्भवेष्टनचर्मपु. टकं जरायुः । मानुषादीनामित्यादिना पशुमृगादीनां परिग्रहः । सर्पोदीनामित्यादिना विहङ्गमादिपरिग्रहः । स्वेदजमुदाहरति ॥ कृमिदंशाचा इति ॥ तच्छरीराणामुत्पत्तरधर्मविशेषसहितेभ्योऽणुभ्य एव स्वीकारा. 'दिति भावः । उद्भिज्जादिकमित्यादिना देवादिशरीरपरिग्रहः तच्छरीराणामुत्पत्तधर्मविशेषसहितभ्योऽणुभ्य एव स्वीकारादिति भावः । तेषामयोनिजत्वे स्वागम एव ब्रह्मणो मानसा मन्बादयः पुत्रा इत्यादिः प्रमाणं । योनि विना न शरीरमित्येवंविधागमे च योनिपदं कारणमात्रपर शरीरपदं मनुष्यदहपरं वा। गन्धादीया- रामसदीय योनिजमित्यस्य योनिद्वारा निर्गतमित्यर्थकत्वे कदाचित्स्वेदजस्यापि योनिद्वारा निर्गमसम्भवादतिव्या. प्तिरित्याशङ्कापरिहाराय ध्याचष्टे ॥ शुक्रेति ॥ पशुमृगादीनामिति ॥ यद्यपि पशुपदस्य लोमवल्ला- झूलवद्वाचकतया तेनैव मृगसङ्गहे पृथङ् मृगोपादानं व्यर्थं तथापि गोबलीवर्दन्यायेन लाङ्गूलरहि- तस्यापि मृगविशेषस्य सम्भवाभिप्रायेण वा तदुपादानमिति बोध्यम् । विहङ्गमादीत्यादिना वल्लीप्र. भृतीनां परिग्रहः ॥ दंशाद्या इति ॥ ननु कृम्यादीनामपि शरीरं शुकशोणितमेलनजमेव शरीरमा- त्रस्य तथात्वादित्याशङ्कायामाह ॥ तच्छरीराणामिति ॥ तेषामिति ॥ देवादिशरीरावामित्यर्थः । न तु कृम्यादिशरीराणामित्यर्थः । उत्तरत्र वक्ष्यमाणप्रमाणस्य तेषामयोंनिजत्वसाधकत्वाभावादिति ध्ये- यम् ॥ योनि विनेति । शुक्रशोणितमेलनं विनेत्यर्थः ॥ कारणमात्रपरामिति ॥ नन्वेवं का- यमात्रस्यैव कारणं विनाऽसम्भवाच्छरीरमात्रस्य कारणं विनाऽनुत्पत्तिकथनं न युज्यते इत्याशङ्काया- माह ॥ शरीरपदमिति ॥ अन मनुष्यपदं पश्वादीनामप्युपलक्षकम् । ननु मानुषादिशरीरे पृथि- बीत्वसाधनाय मूले गन्धादिमत्त्वादिति हेतुरुपन्यस्तस्तत्र हेतावादिपदं व्यर्थ केवलगन्धस्यैव पृथिवी. स्वाव्याभिचारित्वात् । न चादिपदं हेत्वन्तरसूचनायेति वाच्यम् । गुणान्तरस्यैव पृथिवीत्वव्यभिचारि- त्वेन तदसंभवादित्यत आह ॥ गन्धादीत्यादिनेति ॥ तथा च नीलादिहेत्वन्तरसूचनायैवादिप- 38