पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली यथा मञ्जूपा. रणं तादृशमेव हि लाधवमन्यस्यान्यथासिद्धिं संपादयत् । स्थलान्तरे घटत्वविशिष्ट रणतावच्छेदकतया सिद्धदण्डत्वाश्रयस्यैव तद्धटव्यक्तित्वापच्छिन प्रति तब्यक्तित्वेन कारणता नतु रा. सभव्यक्तीति । यथाकथंचिदुपस्थितिलाघवं च कदाचिद्वित्वेऽपि रूपपादं महत्त्वान्तरे संख्यायाः कारणत्वस्य कृप्तत्वात. संख्यात्वेनं रूपेण द्वित्वस्याप्युपस्थितिसंभवात् । अस्तु वाणुत्वमेव त्रुटित्वकारणं परिमाणस्य स्वसमानजतीयेत्यादिनियमस्याभ्युपगममात्रमानकत्वात् । तस्मानीलकण्ठपक्षोऽपि सयुक्तिक एवेत्यस्मान् प्रतिभाति । सा च धेति मूलात्कार्यरूपा बृथिवी त्रिधा तथा देहोऽपि विधा तथेन्द्रियमपि त्रिधा तथा विषयोऽपि विधेत्यर्थः प्रतीयते तदाह ॥ शरीरेन्द्रियविषयभेदादिति ॥ शरीरेन्द्रियविषया- णां यो भेदः परस्परव्यावर्तकधर्मवत्वं भिद्यते व्यावर्त्यतेऽनेनेति व्युत्पत्तेः तस्मादित्यर्थः । ज्ञानज्ञाप्यत्वं ५ श्वम्यर्थः त्रिविधेति नित्वाश्रयावभाजकधर्मवतीत्यर्थः । त्रित्वे पञ्चम्यान्वयः युज्यते चैतत् शरीरेन्द्रियवि- षयाः परस्परव्यावर्तकधर्मवन्त इति ज्ञाने हि कार्य पृथिवीविभाजकधर्मास्त्रय इति ज्ञायते । परस्परान्योन्याभाव एव वा भेदशब्दार्थः तस्यापि विभाजकधर्मत्रित्वज्ञापकत्वमविरुद्धम् । अन्ये तु शरीरादिपदं शरीरत्वादिपरं भेदश्चान्योन्याभावः नहि तदत्तधर्मेषु परस्परमेदज्ञानमात्रेण तद्विभाजकधर्मेषु संख्या ज्ञायते तथासति पृथि- वीवृत्तिरूपरसगन्धादिषु परस्परभेदज्ञानमात्रेण पृथिवी विभाजधर्मेपु संख्याज्ञानापत्तेः परस्परासामानाधिकर- ज्यं वा तस्यापि त्रित्वज्ञापकत्वमक्षतमित्याहुः । त्रित्वविशेषितविभाजकधर्मवत्त्वे विभाजकधर्मावशिष्ट एव वा पञ्चम्यर्थज्ञानज्ञाप्यत्वान्वयः तादृशभेदज्ञानस्य पृथिवी त्रिविधेति ज्ञानजनकत्वेन योग्यतासत्त्वात् इत्यन्ये । सर्वल प्रयोज्यत्वं पञ्चम्यर्थः तच प्रातीतिकस्वरूपसंवन्धविशषि शरीरादिभेदप्रयुक्कं का- यपृथिव्यास्त्रविध्यमिति प्रतीतरित्येके । नन्वत्र विभाजकधर्मत्रयविशिष्टरूपस्त्रिविधपदार्थो न प्रसि- ध्यति वचिदपि धर्माणां त्रयाणामसत्वादिति चेत्स्यादयं दोषः यदि त्रिविधपदेन पर्याप्तिसंबन्धा- वच्छिन्नबित्यनिष्ठावच्छेदकताकविभाजकधर्मनिष्ठनिरूपकताकाधिकरणत्वं प्रतीयेत यदिवा त्रित्वविशेषित. धमंत्रयनिष्ठाकारतानिरूपितकनिष्ठविशेष्यताशाल्युपस्थितिजनकत्वं त्रिविधपदस्य स्वीक्रियेत । नत्वेवं त्रि- त्वनिष्टैकप्रकारतानिरूपिता या विभाजकधर्मनिष्ठास्तिनः प्रकारतास्तनिरूपितविशेष्यतात्रयशालिन्या एवोप- स्थितेस्तेन जननात् । एवं विभाजकधर्मनिष्टप्रकारतात्रयनिरूपिता याः तादात्म्यसंबन्धावच्छिन्ना धर्मनिष्टाः तिनः प्रकारताः तनिरूपिता याः कार्यपृथिवीत्वनिष्ठुकावच्छेद्यतानिरूपितास्तिस्त्रों विशेष्यतास्तच्छालिशाब्दयो- धः तत्र भवति अतो न कोऽपि दोषः । विभागस्थले चोद्देश्यतावच्छेदकावच्छेदेन विधेयान्व यस्य सार्वत्रिकतया द्रव्यं द्विविधं पृथिवीजलभेदात् इति न प्रयोगः द्रव्यत्वावच्छेदेन पृथिवीजलवृत्तिपरस्परभेदज्ञानज्ञाप्यद्वित्वा- श्रयविभाजकधर्मविशिष्टत्वस्य बाधात् । अत्र केचिदुक्ताप्रसिद्धिमाशंक्य त्रिपदसमभिव्याहृतविधापदस्य बि. भाजकधर्मत्रयान्यतमविशिष्टलाक्षणिकता स्वीकुर्वन्ति एतन्मते पृथिवी द्विविधा द्रव्यगुणभेदादिति वाक्यस्य प्रामाण्यपत्तिः पृथिवीत्वावच्छेदेन ताशविभाजकधर्मद्वयान्तरस्यावाधात् अतो विभाग वाक्ये सर्वत्र परस्परो- द्देश्यविधेयभावं स्वीकृत्य परस्परव्याप्यध्यापकभावभानमजीकार्यम् । पृथिवीत्वे च द्रव्यगुणभेवज्ञानज्ञाप्यविभा- जकधर्मद्वयान्यतरत्वविशिष्टम्यव्यापकत्वबाधात् न तथा प्रयोग इति वक्तव्यं एवं च सति कार्यपृथिवीत्वे दर्शि. तविभाजकधर्मत्रवान्यतमत्वावशिष्ट व्यापकत्वमपि दुर्लभं शरीरत्वादेर्जलादिसाधारणत्वात् अतः शरीरादिपदं .पार्थिवशरीरादिपरं द्रष्टव्यं सा च निधेति मूले धालप्रत्ययार्थः प्रकारवान् विभाजकधर्मचानिति यावत् । तत्र श. रीरादिपदार्थानां त्रयाणां अभेदैनवान्वयः तथाच शरीराद्याभिन्नत्रित्वाश्रयप्रकारवदभित्रा कार्य पृथिवीत्यर्थः । अ. व तादात्म्यसंवन्धाइच्छिनशरीरादिनिष्ठनकारतात्रयनिरूपिता विभाजकधर्मवन्निष्टविशेष्यतास्तित्र इति नाप्रसि. द्धिः । कचित्तु देह इन्द्रियं विषय इत्यनन्तरामितिशब्दोऽध्याहर्तव्यः धाल्प्रत्ययार्थश्च प्रकार एव । तत्र देहादीना. माधेयतयान्वयः इतिशब्दसमभिव्याहारनियन्त्रितव्युत्पत्तिबलात् प्रत्ययार्थस्य च प्रकारस्याश्रयतया पृथिव्या. मन्वयः यद्वा देहादिपदं देहत्यादिपरं अस्थाभेदेन प्रकारेऽन्वयः देहत्त्वादिलक्षणातात्पर्य ग्राहकश्चेतिशब्द इत्याहुः अत्रापि व्याप्यव्यापकभावभानादिकं पूर्ववत् बोध्यम् ॥ ३७ ॥