पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरूद्रीयसमन्विता । प्रभा. पदत्व विशेषणवाचकत्वन, तथापि प्रकृत व्याकरण प्रमाणसिद्धोपसर्गवस्वीकारणव सामजस्ये नस्य विशेषण- मङ्ख्या. फलत्वावच्छिन्न प्रतियोगिकाभावः, तत्साधकों हेतुश्च जनकतासंबन्धावच्छिन्नतत्तत्फलल्यक्तित्वावच्छियप्रतियो- गिताकाभावकट वक्त्वं, विशेषाभाव कूटस्य सामान्याभावसाधकताया अपि स्वतस्सिप्रयोज्यप्रयोजकभावमूलक- त्वात् नानाप्रयोजकत्वशंका । एवं च बलवदनिधानुबन्धित्वानुमापकसफलत्वाभावसाधकफलविशेषाभावकूट- साधकोऽयं न विघ्नध्वस प्रतीत्यादिग्रन्धः । नन्वतावता विघ्न वंसरूपफलजनकत्वाभाव-समाप्तिरूपफलजनक. स्वाभावयोस्सिद्धावर्षि कथं निखिलतत्तत्फलाभावकुटसिद्धिः । न च दर्शिताभावकूटम्यैव हेतुताऽस्त्विति वाच्यम्, तथासति निष्फलत्वरूप साध्याभावबति यागादो तादृशाभावद्र्यसत्त्वेन व्यभिचारापत्तेरिति चेन्न, विघ्नध्वंससमाप्तीतरफलजनकत्वाभावस्य मङ्गले सर्वमतसिद्धतया, विघ्न सरूपफलजनकत्वसमाप्तिरूपफल. जनकत्वयोनवीनमतप्राचीनमतसिद्धयोरभाव साधने निखिलतत्तत्फलाभावकूटस्य साधितप्रायत्वादिति वद- न्ति । अथात्र जनकतासम्बन्धावच्छिन्नतत्तत्फलव्यक्तित्वावच्छिन्न प्रतियोगिताकाभावकूट रूपहेतुरसिद्धः म- अळस्यापि स्व वसरूपफलजनकत्वात् । नचानाभावप्रतियोगिव्यक्तिपरिचायक फलत्वं प्रवृत्युद्देश्यत्वं, अत एव विघ्नध्वंस एव फलमित्यनिममुक्तावळीग्रन्थे फलमित्यस्य प्रवृत्त्युद्देश्यमिति विवरणं कृतं महादेवेन । तञ्च न मंगळवंससाधारणं, मंगळध्वंसमुद्दिश्य कस्यापि कुत्रचिदपि प्रवृत्त्यभावात् , तथाच मङ्गळवं- सफलकत्वाभावस्य दर्शिताभावकूटानन्तर्गतत्वान्न हेत्वसिद्धिरिति वाच्यम् । शिष्यप्रवृत्त्युपयोगिनिबन्धनरूप- मङ्गळवाचकशब्दप्रयोगाय मङ्गलप्रत्यक्षमुद्दिश्यापि कस्यचित् मङ्गले प्रवृत्तिसम्भवेन तस्य निरुक्तपरि. दिनकरीयम् . व्यभिचारसन्देहस्य प्राशसंशयरूपतया, कारणताप्नत्यक्ष एवं प्रतिबन्धकत्वं न त्वनुमितौ, तत्र तस्यानुकूलत्वा. रामरुद्रीयम् . ऽपि मङ्गलजन्यसमाप्ति प्रति विनध्वंसस्य प्रतिबन्धकससंगाभावविधया कारणत्वेन विनध्वंसस्य मङ्गलजन्यत्वेन व संभवत्येवेति, मङ्गलस्यापूर्वद्वारा समाप्तिकारणत्वेऽपि विनध्वंसस्य द्वारतासम्भवात्। न चैवमपि अपूर्वस्य द्वार- तामते स्वजन्यापूर्वसम्बन्धेनैव मङ्गलस्य हेतुताया वक्तव्यतया, स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलस्य का- रणताप्रतिपादनं मुक्तावलीव्याख्यानकृतामसङ्गतमेवेति वाच्यम् । यत्र मङ्गलजन्यविघ्नध्वंसो वर्तते तत्रानन्तस्थ- लेषु नानापूर्वव्यक्तीनां कल्पने गौरवात , तादृशस्थले स्वजन्यविनश्वंससम्बन्धेनैव मङ्गलस्य समाप्तिहेतुता युक्त- त्यभिप्रायकतया तदुक्तिसङ्गतेः । नचैवमपि समाप्ति प्रति मङ्गलस्य ऋविस्वजन्यविनध्वंससम्बन्धेन हेतुता, अन्चिस्वजन्यापूर्वसम्बन्धेनेत्यायात, तथा च पृथक्समाप्तिकारणत्वनिषेवस्यावश्यकत्वेऽपि यत्र स्वजन्यापूर्व- सम्बन्धेन मङ्गलं, न तत्र स्वजन्यविनवससम्बन्धेन, यत्र च स्वजन्यविघ्नध्वंस सम्बन्धेन मङ्गलं, न तत्र स्व- जन्यापूर्वसम्बन्धेनेति, समाप्ती मङ्गलस्य सम्बन्धद्वयेनापि व्यतिरेकव्यभिचारात्कारणत्वमेवासम्भवदुक्तिक- मिति वाच्यम् । तत्तत्सम्बन्धेन मङ्गलाव्यवहितोत्तरत्वस्यापि कार्यतावच्छेदककोटिप्रविष्टतया व्यभिचारा- भावादिति हृदयम् । ननु व्यतिरेकव्यभिचाररूप हेतुना समाप्तिकारणत्वाभावस्य मङ्गले पूर्वपक्षिणा साधनात् , समाप्त्यन्याफलकत्वे सति सफलत्वहेतुना मङ्गले समाप्तिकारणत्वानुमानं सिद्धान्तिनामसङ्गतं, समाप्तिकारण- त्वाभावसाधकहेतो हेत्वाभासमनुभाव्य, समाप्तिकरणत्वानुमानस्य सत्प्रतिपक्षत्वायत्तेरित्यतः सिद्धान्तग्रन्थ- स्य भावमाह-व्यभिचारसन्देहस्येति । मङ्गलस्वधर्मिकसमाप्तिमन्निष्ठाभावप्रतियोगितावच्छेद करव- सन्देहस्येत्यर्थः । ग्राहसंशयरूपतयेति । अनुमित्या ग्राह्यं हि मङ्गले समाप्तिकारणत्वं, तच्च समाप्तिमन्नि- धाभावप्रतियोगितानवच्छेदकमङ्गलत्ववत्त्वं, तथा च साध्यसन्देहपर्यवसन्नस्य व्यभिचारसन्देहस्य नानुमितौ प्रतिबन्धकत्वमिति भावः । कारणताप्रत्यक्ष एवं प्रतिबन्धकत्वमिति । विशेषदर्शनाभावविशि- तत्संशयः प्रात्यक्षिकनिश्चयप्रतिबन्धक इति मताभिप्रायेणोक्तम् । वस्तुतस्तु संशयसामग्या एवं निश्चयप्रति- बन्धकत्वमत एव विशेषदर्शनदशायामेककोटिभानप्रतिबन्धेन संशयसामग्रधभावान्निश्चय इति मन्तव्यम् ।