पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूपा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रुतपूर्णरन्ध्रत्वविशिष्टवेणुबोधककीचकपदे दृष्टत्वाद्धातपदमभावमात्रपरम् द्रष्टव्यामित्याक्षेपं परिहारचाहुः । तदसत् मञ्जूषा. दकः, न तु गजादिकर्तृकत्वविशिशब्दवत्वं तथा, गौरवात् । धैवतं हेषते वाजी निषाद बृहते गजः । ह यानां हेपमाणानां करिणां चापि बृहतां' इत्यादी हयादिकर्तृकत्वविशिष्टशब्दकतारो हयादय इति बोधस्य शिरोवेष्टनेन नासिकास्पर्शनतुल्यत्वापत्तेः, हेपाशब्दं च शृण्वत इत्यत्र हेषापदेनैव हयकर्तृकशब्दबोधने शब्दपदे पौनरुक्तया पत्तेश्च । मम तु कल्पवृक्षस्सहकारतरुरित्यादाविव सामान्य विशेषभावेन न पौनरुक्तर्य । तेन यहेषितैः केकी केकारतेत्यादावपि विशिष्टवाचकानामिति न्यायप्रसर: किं च भारते युद्धपञ्चके 'हय हेषितशब्दै- श्व करिबृंहितशब्दैश्च' इति बहुशः प्रयुज्यते, तत्र च हयगजादिसंबन्धित्वस्य ह्यगजादिपदैः, शब्दत्वस्य च शब्दशब्देन बोधने मध्ये लम्बमानानां हेषितबंहितादिपदानों मूकत्वमेव परमते वक्तव्यमित्यलं पलपितेन । अथैव विघ्नविधातायेत्यत्र विशब्दस्य किं प्रयोजनमिति चेद्विघ्नप्रतियोगिक वसे विशेषद्योतनमेवेति ब्रूमः-- स च विशेो नोत्पत्तिरूपः घातपदेनैव तल्लाभात् , धातपदस्याखण्डोपाधिरूपध्वंसत्वविशिष्टवाचितास्वीकारे तत्रोत्पत्तिरूपविशेषस्य अव्यावर्तकत्वात् । किन्त्वविलम्बितोत्पत्तिकत्वं विशेषः तथाहि जन्यभावस्य विनाशि- त्यनियमात् उत्पन्नो विघ्नो यद्यपि भोगादिरूपेण नाशकान्तरेणावश्यमेवास्मिन्नमुष्मिन्वा जन्मनि नयति तथाऽपि तादृशो विघ्ननाशो न कार्यकारीति समाप्तिप्रतिवन्धापत्तेः । मङ्गले कृते तु इदानीमेव विन्नो नश्य- तीत्य विलम्वन विज्ञानाशाय मङ्गलाचरणमिति स एष मुख्यः कल्पः । एवमन्येऽपि कल्पाः कविभिरुद्भाविता:---- यदा मङ्गलस्य न विनध्वसत्वं कार्यतावच्छेदक, भोगादिजन्यविन्न वसे व्यभिचारात् । किं तु भोमाधजन्य- विघ्नध्वंसत्वं, बाच्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन मङ्गळविशिष्टविनध्वंसत्वं वा, अत एव वक्ष्यति मजलं विघ्नध्वसविशेपे कारणमिति । ततच भोगायजन्यत्वरूपविशेषद्योतको विशब्द इति द्वितीयः पक्षः । मङ्गलस्य विघ्ननाशकत्ववद्विघ्नप्रतिबन्धकत्वमपि शिष्टसम्मतं, विनो नश्यतामितीच्छयेव विघ्नो मा भूदितीच्छ्याऽपि तदा- चरणान् । तत्र च निष्पत्रो वितध्वंसो विनान्तरोत्पादे निष्फलः, अतो विनान्तरोत्पादविरहविशिष्टविन बंस एवोद्देश्यस्स च माळेनैव स्यात् , भोगस्य विघ्ननाशकत्वेऽपि विनप्रतिबन्धकत्वासम्भवात । एवं च विघ्नान्तरो- त्पादविरह विशिष्टत्वरूपविशेषयोतको विशब्द इति तृतीयः पक्षः । युक्तं वैतत् , ज्वरातस्यौषधपाने पूर्वपूर्वज्वरा- पगमेऽपि यावज्ज्वरान्तरानुत्पादं ज्वरो बिहत इति प्रयोगाभावेन विशब्दस्य तादृश विशेषयोतकताया अनुभव- सिद्धत्वात् । एवं भिन्न भिन्नसमयेषु प्रागार्जिता भूयांसो विना यदी दानी स्युस्तैस्सर्वैरपि नष्टैरिदानी भवितव्यं, सर्वे च भोगान युगपन्नइयेयुस्तत्तत्कर्मविपाकसमय एवं गोगस्य तत्तत्कर्मनाशकत्वात् । मङ्गळं त्वपरिपक्कानपि नानशेषान्युगपद्विनाशयेत् , ततश्च विघ्नास मानकालोत्पत्तिकस्वरूपविशेषद्योतको विशब्द इति चतुर्थः कल्पः ! तदर्थसौष्ठवमात्रफलकोऽयं विशब्दः। अनुभूयते हि विनविघातायेत्यतो विघ्नविघातायेत्यत्र शब्दमैत्रीतदनुभवर- सिकरित्यर्वाचीनाः । अथ मङ्गळस्यावश्यकर्तव्यतां साधयितुं आते-नन्विति ॥ अत्र केचिदाक्षिपन्ति विघ्नविघाताय कृतमित्यनेन मजले विप्नध्वंसोद्देदयककृतिविधेयत्वबोधनेऽपि विघ्नध्वंसकारणत्वस्याबोधनात् अनुपपत्तिशङ्काया नावकाशः अग्रसक्तत्वात् । न च तदुद्देश्यककृतिविधेयत्वस्य तत्कारणत्वव्याप्यतया विघ्नध्वंस- कारणत्वमर्थालभ्यत एवेति वाच्यं । स्वर्गमुद्दिट्य केनचित्क्रियमाणचैत्यवन्दनादौ व्यभिचारेण तादृशनियमा- दिनकरीयम् . व्यभिचार इति वाच्य, भोगादिनापि नास्तिकात्मनि विघ्ननाशसंभवेन, जन्मान्तरीयमङ्गलसन्देहेन व्यभिचार- रामरुद्रीयम् . ध्वंसं प्रत्यकारणत्वे समाप्तिं प्रति विघ्नध्वंसद्वारा कारणत्वमसम्भवदुक्तिकमेवेति पृथक्समाप्तिकारणत्व- निषेधो व्यर्थ एवेति वाच्यम् । यतो हि विघ्नध्वंसद्वारैव समाप्ति प्रति मङ्गलस्य प्राचीनैः सर्वत्र कारणत्वोपगमे विघ्नध्वंसो मङ्गलफलमिति वादिनो नवीनस्य मते, न चैवं स्वतस्सिद्धविघ्नविर- बता कृतस्येत्यादिना चिनात्यन्ताभाववता कृतस्य मङ्गलस्य निष्फलत्वापत्तिः प्राचीनैः कर्तुमशक्या, स्पमते. 3