पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । २५७ स्पर्शादयोऽष्टौ. वेगाख्यः संस्कारो मरुतो गुणाः । स्पर्शाद्यष्टौ रूपवेगौ इवत्वं तेजसो गुणाः ॥ ३० ॥ स्पर्शादयोऽष्टौ वेगश्च द्रवत्वं च गुरुत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येत चतुर्दश ॥ ३१ ॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । बुद्धयादिषटकं सङ्ख्यादिपञ्चकं भावना तथा ॥ ३२ ।। धर्माधर्मों गुणा एते आत्मनः स्युश्चतुर्दश । सङ्ख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥ ३३ ॥ सङ्खयादिपञ्चकं बुद्धिरिच्छा यनोऽपि चेश्वरे । परापरत्वे सङ्ख्याद्याः पञ्च वेगश्च मानसे ॥ ३४ ॥ स्पर्शादय इति ॥ ते च खे आकाशे ॥ ३० ॥ ३१ ॥ ३२ ॥ प्रभा. वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिकालयोः पञ्च पडेव चाम्बरे महेश्व- रेऽयी मनसस्तथैव च ॥ इति प्राचीनकारिकानुसारेण वारवादिगुणानाह ॥ मूले स्पर्शादयोऽ- मञ्जूषा. स्नेहहीना इति ॥ नम्वत्रैतच्छन्देन पूर्व श्लोकोक्तानां स्पर्शादिस्नेहान्तानां महणे वाक्यार्थबाधः स्नेहे क्षितिवृत्तित्वबाधात् स्पर्शादिरसान्तानामेव महणे चतुर्दशत्वानुपात्तिः । उच्यते रसान्ता एवैतच्छ- उदेन परामृश्यन्ते आगन्तुकगन्धमादाय चतुर्दशत्वोपपत्तिः स्नेहहीना इत्यस्य स्नेहभिन्ना इत्यर्थः । नचैतच्छब्दपरामृष्टेषु स्पर्शादिरसान्तेषु स्नेहभिन्नत्वमव्यावर्तकामिति वाच्यम् । तद्विशेषणबलादवेतैच्छन्दने स्नेहपरामर्शाभावात् । अथवैतच्छन्दो न स्वरूपतःस्पर्शवाद्यवच्छिन्नपरः किन्तु जलवृत्तितावच्छेदकीभू- तगुणविभाजकोपाध्यवच्छिन्नपरः अत एव जलावृत्तेः स्थितस्थापकस्याधिकस्य पृथिवीपत्तित्वेऽपि न वि. श्वनाथस्य न्यूनता कुतो नवा तदन्तभावेन पञ्चदशत्वापत्तिरेवश्च स्नेहस्यापि तादृश विभाजकोपाध्यवच्छिन्न- त्वात्तद्भिन्नत्वाविशेषणं सार्थकं गन्धयुक्तत्वं येनकेनापि संबन्धेन गन्धसंबन्धित्वं विशिष्टान्वायनोऽसति बाधके विशेषणेऽप्यन्वयात् गन्धस्यापि क्षितिवृत्तित्वलाभः । नत्विह गन्धयुक्तत्वं गन्धसमानाधिकरणत्वं गन्धा. समानाधिकरणस्यापि स्पर्शादे: नानाजातीयगन्धवदवयारब्धनिर्गन्धक्षितिवृत्तित्वेन न्यूनतापत्तेः गन्धसमा. दिनकरीयम्. वायोनवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिकालयोः पञ्च पडेय चाम्बरे महे. श्वरेऽष्टौ मनसत्तथैव च ॥ इति प्राचीन श्लोकमनुसृत्य वायोस्तावत् गुणानाह ॥ मूले स्पर्शादयोऽष्टा- विति ॥ स्पर्शसङ्खयापरिमाणपृथक्त्वसंयोगविभागपरत्यापरत्वान्यष्टौ वेंगाख्यसंस्कारश्चेति वायोगुणा इत्यर्थः । तेजसो गुणानाह ॥ स्पर्शाद्यष्टाविति ॥ अपां गुणानाह ॥ स्पर्शादयोऽष्टाविति ॥ पृथिव्या गुणानाह ॥ स्नेहहीना इति ॥ एतेऽव्यवहितपूर्वोकाः । आत्मनो गुणानाह ॥ बुद्धयादिषट्क- मिति ॥ बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाः सङ्ख्यादिपञ्चकं सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागाः । काल. रामरुद्रीयम्. प्राचीनलोकमिति ॥ क्वचित्कारिकावलीप्रन्थे इमौ श्लोको दृश्येते तो प्रक्षिप्तावेवेति मन्त- 33