पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ कारिकावली - । मञ्जूषा. वदवृत्तिधर्मवत्त्वमिति गुरुविधवादः । इदमत्र बोध्यम् । साधयंत्वं स्वनिरूपकतावच्छेदकावच्छिन्न विशेष्यकतदितरयावत्प्रतियोगेकभेदविधेयकानुमिताबुपयुज्यते वैययंत्वं स्वनिरूपकतावच्छेदकावच्छिन्नभे- दविधेयकतदितरयावाद्विशेष्यकानुमितावुपयुज्यते तद्धर्मव्यापकरवे सति तद्धर्मव्याप्यत्वं तद्धर्मविशिष्ट- निरूपितसाधर्म्यत्वं तद्धर्मावच्छिन्नभेदव्यापकत्वे सति तद्धर्मव्यापकभेदप्रतियोगितावच्छेदकत्वं तद्धर्मा- चच्छिन्ननिरूपितवैधर्म्यत्वं दर्शितं । साधर्म्यत्वस्य वैधयंत्वस्य च घटकास्त्रयो दोषाः अव्याप्तिर-- संभवोऽतिव्याप्तिश्च तत्र अव्याप्त्यसंभवों साधर्म्यत्ववैधर्म्यत्वघटकयोः प्रथमदळयोः विघटको अतिव्याप्तिस्तु तद्धयक पोईि । यदळ पोस्तत्र साधत्वविघटेका अव्याप्तिः तद्धर्मविशिष्ट क्वचिदवर्त - नं । वैषम्यत्वविघटिका तु तद्धर्मावच्छिनेतरस्मिन् कचिदवर्तनं यथा पृथिव्याः साधयं जलायन्यतमस्य वैध- म्य नोलरूपवत्वमित्यत्राव्याप्तिः । असंभवस्तु साधयंत्वविभटकः । तदर्मावच्छिन्ने क्वविदध्यवर्तन वैधर्म्य- त्वविघटकस्तु तद्धर्मा पच्छिन्नेतरस्मिन् कांच दप्यवर्तनं यथा तत्रैव शीतस्पर्शगगनादि अतिव्याप्तिम्तु साध- मलविघटिका तद्धर्मावच्छिन्नेतरवृत्तिवं वैधयंत्वविधार्टिका तु तद्धर्मविशिष्टनिरूपितवृत्तित्वं यथा तत्रैव शी तस्पर्शत्वरूपप्रमेयत्वादौ नत्रेतरभेदानुमिताभयवित्रापि अव्याप्तिर्भागासिद्धिं, संपादयति । असंभवस्तु स्वरूपासिद्धिं अतिव्याप्तिः पुनर्व्यभिचारम् । अथवा यथा साधत्व स्वनिरूपकतावच्छेदकावच्छिन्नावशेष्य- केतरभेदानुमिताबुपयुज्यते तथा वैधयंत्वमपि स्वनिरूपकतावच्छेदकावच्छिन्नविशेष्यकायामेव इतरभे- दानुमिता मयुज्यते किन्तु साधम्र्यत्वेनाभिमतो यस्स एवाद्ये हेतुः द्वितीयेतु वैधयंत्वेनाभिमतो यस्स एव तदभावस्तद्वदन्योन्यामावादिः यथा जलादिकं पृथिवीतो भियते निर्गन्धवादित्यत्राव्याप्तिव्यभिचारं संपा- दयति तथा असंभवो यथा जलादिकं पृथिवीतो भिद्यते शीतस्पर्शाभावान्नीलरूपाभावात् गगना- भावादित्यादावतिव्याप्तिस्तु एकदेशकात्याभ्यां द्वेधा भिद्यते तत्रैकदेशातिव्याप्तिांगासिद्धि सम्पादयति यथा जलादिकं पृथिवीतो भिद्यते शीतस्पीभावाद्रूपाभावादिति । कृस्नातिव्याप्तिस्त्वप्रासद्धि स्वरूपासिद्धिं वा यथा जलादिकं पृथिवीतो भिद्यते प्रमेयत्वाभावादिति हेतावप्रसिद्धिः । तवैव पृथिवीत्वाभावप्रकारकप्रमा- विशेष्यत्वाभावहेती च स्वरूपासिद्धिरिति । अथात्र पक्षद्वयेऽपिं असमवायिकारणत्वं गुणकर्मभिन्नाना वैधम्ममिति विश्वनाथोकिविरोधः। प्रथमपक्षे गुणकर्मणी द्रव्यसामान्यादिभ्यो भिद्यते असमवायिका- रणस्वादिति अनुमाने आत्मविशेषगुणादौ भागासिद्धिप्रसङ्गात द्वितीयपक्षे द्रव्य सामान्यादयः गुणकर्म- मां भिद्यन्ते असमवायि कारणत्वाभावादित्यनुमाने व्यभिचारापातााच्चेति चेदेतदस्वरसनैवाथवेत्यादि- पक्षान्तर मारब्धं तत्रेति केचन मन्यन्त । यथा जलादिनिखिलवैधयंभूतेन निखिलपृथिवीसाधर्म्यभूतेन च गन्धेन घटो जलादिभ्यो भिद्यते गन्धात् जलादिकं घटाद्भिद्यते गन्धाभावादित्यनुमितिरपि संभवति। तथा. रूपं द्रव्यादिभ्यो भिन्नं असमवायिकारणत्वात् द्रव्यादिकं रूपाद्भिनं असमवाधिकारणत्वाभावादित्येकदेश- विशेष्यकाया एकदेशभेदविधेथिकाया वानुमितेरसंभवान्न तदुक्तिविरोधः । अव्याप्तिर्हि कृत्स्ने कृत्स्नाद्वा भे. दानुमितिमेव विरुणाद्धि नत्वेकदेशे एकदेशाद्वा भेदानुमितिमित्यन्ये । धयन्तु तद्न्यो न वैधयंत्वप्रतिपादनपर इति ब्रूमः अत एतद्गन्थस्य असमवायिकारणताविषयव्यवस्थामातपरतां प्रागवोचाम । ततश्च गुणकर्म मिन्नानां वैधयमित्यस्य गुणकर्मभिन्नावृत्तिरित्येतावानेवार्थः । नतु दर्शितवैधयंत्वददिति अत्र निरुक्तं वैधघलक्षणं यदुक्तं यय साधर्म्यमित्यनेनैव दर्शितप्रायम् । तथाहि यद्यस्य साधर्म्य मित्यनेन रद्रूपं यद्धर्मावच्छिने सर्वत्र वर्तते इतरत्र न वर्तत इति लब्धं तत्तदितरस्य वैधर्म्यमित्युक्त्या च शितधर्म्य लक्षणं पर्यवसन्नमेवेति । अत्र सामान्यपरिहीनत्वं सामान्यादीनां साधर्म्यतया व्यावर्तक- मुक्तं तदभावश्च वैधातिदेशेन द्रव्यगुणकर्मणां व्यावर्तक इति लभ्यते तन्न द्रव्यगुणकर्मणामेव सामान्यवत्त्वं साधर्म्यमुक्त्वा वैधातिदेशेन तदभावस्सामान्यादीनां व्यावर्तक इत्युक्तौ यद्यपि प्रयासलाघवं वर्तते तथापि स्वतन्त्रेच्छस्य नियन्तुमशक्यत्वात् तथोक्तमिति मन्तव्यम् ॥ २९ ॥