पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमान्विता । धानाच प्रत्यक्षत्वम् । अथवाऽऽत्मावृत्तिविशेषगुणवत्वं तस्थम ।। चत्वारीति ।। पृथिव्यप्रेजोवायूनां स्पर्शवत्त्वम् ॥ २६ ॥ प्रभा. संयोगव जातिमादाय कालादावतिव्याप्तिवारणाय विशेषनिवेश; लाधवात् । लक्षणान्तरमाह ॥ अथ- वेति ॥ आत्मावृत्तीति ॥ इदंचात्मावृत्तिविशेषगुणानां लक्षणत्वबोधनाय नतु तेन रूपेणापि प्रवेशः गौरवात् प्रयोजनामावाच्च । विशेषगुणत्वेनापि न प्रवेशः उक्तदोषापत्तेः किन्तु विशेषगुण एव लक्षणत्वेन प्राह्य इति योधनाय । लक्षणं तु स्पर्शशब्दान्यतरवत्त्वमिति बोध्यम् ।। चत्वारि स्पर्शवन्तीति मूलात् पृथिव्यादिचतुष्टयान्य तमवत्त्वावच्छिनस्य स्पर्शवत्वं लक्षणमिति लभ्यते । तल यद्यपि मृदुत्वकदिनत्वयोस्पर्शगातजातिविशेषरूपत्वमेव न संयोगगत जातिविशेषरूपत्वं तथा सति चक्षुर्लाह्यतापत्तेः इति वदतां प्राचीनानां मते मृदुस्पर्शकठिनस्पर्शवदययवारब्धे द्रव्ये परस्परविरोधेन स्पर्शानुत्पादात् तत्र चि- त्रस्पनिङ्गीकारे बाधाभावाच तत्र सार्शवत्वलक्षणमव्याप्तं तथापि स्पर्शसमानाधिकरणमनोवृत्तिजा. तिमत्त्वविवक्षया दोषो बारणीयः । न च दव्यत्यादिवारणायाकाशव्यक्त्यत्तित्वमेव निवेश्यतां विभागवाक्या- दाकाशस्यैव प्रथममुपस्थितन्वादिति वाच्यम् मूर्तत्व जात्यभ्युपगमपक्षे मूर्तत्वजातेरपि तादृशतया द्वामादाय मनस्यतिव्याप्तिवारणाय मन पत्यवत्तत्वविशेषणस्यावश्यकत्वात् । सदिच मृदुस्पर्शकटिनस्पर्शवदवय. वारब्धत्र्यणुकरारब्धचतुरणुक दिपु स्पर्शप्रत्यक्षात् तत्रावयवेपु स्पर्शाभावेनावयविस्पर्शसा विषयत्वासंभवात् तत्र स्पर्शोत्पत्त्य संभवाच्च तत्र स्पर्शप्रत्यक्षनिहाय नानाम्पर्शवदवयवारब्धव्यणुकेषु चित्रस्पर्शोऽङ्गीकार्यः तादृशव्यणुकारब्धचतुरणुकादिपु स्पोत्पत्तिसंभवेन तेयु प्रत्यक्षापत्तिरिति तादृशव्यणुकेषु स्पर्शसत्त्वेनाव्या प्यप्रसक्त्या जातिघटितलक्षणमयुक्तमिति विभाव्यते तदा यथाश्रुतस्पर्शवत्वलक्षणमेव साविति मन्तव्यम् ॥ २६ ॥ मञ्जूषा. र्मवत्वमेव तत् । सच धर्मः उद्भूतरूपवत्त्वमेवेति न परमाणावव्याप्तिः नवा चक्षुरादावव्याप्तिशताया अनुपपत्ति- दिनकरीयम्. तप्रत्यक्षे माभानाधिकरण्यसम्बन्धेन कारणस्य मह्त्वस्य परमाणुरूपादावभावान्न तल्लोकिक प्रत्यक्षमिति भार: । ननु चक्षुरिन्द्रियादिगतरूपादिविशेषगुणानामनुद्भतत्वेन बहिरीन्दियग्रहणायोग्यत्वाचक्षुरादावब्या- प्तिमाशङ्का लाधवाचाह ॥ अथवति ॥ अत्र न कल्पे दैशिकपरत्वापरत्वमादाय मनस्यतिव्याप्तिवारणा. य विशेषति ॥ स्पर्शवत्वं समवायेन स्पर्शवत्वं ॥ २६ रामरुद्रीयम्. रूपादौ महत्त्वाभावेऽपि तत्प्रत्यक्षदर्शनात् परमाणुरूपे तदभावेऽपि तत्प्रत्यक्षं स्यादित्याशकां निरस्यति । लौकिकेति ॥ ग्रहणायोग्यत्वादिति ॥ बाहेरिन्द्रियजन्यलौकिकप्रत्यक्षं प्रति उद्भूतरूपत्वेनैव कारणतया कारणतावच्छेदकधर्मत्वस्यैव योग्यतारूपत्वादिति भावः । ननु वहिरिन्द्रियजन्यलौकिकप्रत्य- क्षस्वरूप योग्यत्वं न लक्षणे निवेश्यते किंतु बहिरिन्द्रियजन्यलौकिक प्रत्यक्षविषयगुणत्वन्यूनवृत्तिजाति- मत्त्वमेव लक्षणधटक तथा च तथाविधरूपत्वादिजातेः चक्षुरादिरूपेऽपि सत्त्वेन न चक्षुरादावव्याप्ति- रियस्तरसादाह ।। दाघवाच्चेति ॥अथवेतीति ।। नन्वत्र कल्पे आत्मायत्तित्वं समवायेन आत्मवृत्तितानव: च्छेदकधर्मवत्वमेव वक्तुमुचितं अन्यथा तस्यात्मावृत्तिभिन्नत्वरूपत्वे सामान्यगुणभेदकूटरूपविशेषत्वनि- पेशेन गौरवप्रसङ्गात् । इत्थं च विशेषत्वनिवेशनं विनापि कालादावर्तिव्याप्तिवारणं सम्भवति कालादि. निष्टसंयोगे तादृशधर्मवत्वाभावादिति विशेषत्वनिवेशनमनर्थ कमित्याशकामपनेतुं तनिवेशे प्रयोजनान्तरमाह ॥ अत्र चेति ॥ समवायेनेति ॥ बोध्यमिति शेषः । अन्यथा कालिकदिक्कृतविशेषणताभ्यां स्पर्शवतोः कालदिशोरतिव्याप्तिप्रसङ्गादिति भावः ॥ २६ ॥ 31 11