पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ कारिकावली ना- मवत्त्वं च साधर्म्यम् । न च यत्र घटादो परत्वमपरत्वं वा नोत्पन्नं तत्राव्या- विरिति वाच्यम् । परत्वादिसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । मूर्तत्वमपकृष्टपरिमाणवत्त्वं तच्चैषामेव गगनादिपरिमाणस्य कुतोऽप्यपकृष्टत्वाभावात् । प्रभा. अत्र पृथिव्यादिचतुष्टयमन-एतदन्यतमत्वं लक्ष्यतावच्छेदकं परत्वादिकं लक्षणमिति फलितम् । परत्वादीनां मध्ये एकैकं लक्ष्यतावच्छेदकमपरं लक्षणामिति का बोध्यम् । दैशिकपरत्वाप- रत्वयोः बहुतरसूर्यसंयोगान्तरितत्वादिज्ञानसाध्यत्वात् कालिकपरत्वापरत्वयोः बहुतरसूर्यपरिस्पन्दान्तरि- तत्वादिज्ञानसाध्यत्वादतादृशज्ञानं यत्र नोत्पन्नं तत्राव्याप्तिरित्याशङ्कय निरस्यति ॥ नचेत्यादि । आ- त्मन्यतिव्याप्तिवारणाय समानाधिकरणान्तम् । द्रव्यत्वादिजातिमादाय तत्रैवातिव्याप्तिवारणाय द्रव्यत्व- व्याप्येति । व्यत्वन्यूनवृत्तीत्यर्थः ॥ अपकृष्टपरिमाणवत्त्वमिति ॥ आकाशादिचतुष्टयान्यतमावृत्ति- मजूपा. परत्वादि समानाधिकरणेति ॥ आदिपदादपरत्वसङ्गहः । जातिपदं चात्र पृथिवागमनसंयो. गद्वित्वादिवारणाय । जातित्वं च नित्यत्वमात्र इतरांशपेयात् समवायेन तद्वत्त्वविवक्षणाच न्यतमत्वादिकमादाय दोषः ॥ अपकृष्टपरिमाणवत्त्वमिति ॥ एतत्तत्वं प्रागेव प्रपञ्चित ॥ पूर्व- दिनकरीयम्. ननु धात्वर्थः क्रिया तत्रातिप्रसङ्ग इत्यत आह ॥ कर्मवत्वमिति ॥ वेगवत्त्वं वेगसम्ब- धित्वं । दिवकृतयोः परत्वापरत्वयोहेतुरिदमस्मात्सनिकृष्टमित्यपेक्षायुद्धिः कालकृतयोः परत्वापरत्वयोहे तुरय मस्मादल्पतरकालसम्बद्ध इत्यपेक्षाबुद्धिच यत्र नोत्पन्ना तन परत्वापरत्वयोर नुत्पादादव्याप्तिमाशङ्कय नि. रस्यति ॥ नचेत्यादिना ॥ आत्मन्यतिव्याप्तिवारणाय समानाधिकरणान्तम् । तत्रैव सत्तामादाया. तिव्याप्तिवारणाय द्रव्यत्वव्याप्यति । द्रव्यत्वान्यत्वेनापि जातिविशेषीया तेन न द्रव्यत्वव्याप्यद्रव्य- त्वमादायातिव्याप्तिः ॥ अपकृष्टति ॥ अविभुतिपरिमाणवत्त्वमित्यर्थः । तेन परमाणी नाव्याप्तिः । रामरुद्रीयम्. धात्वर्थः क्रियति ॥ धात्वों हि किया यो भाष इत्यभिधीयते इति हरिकारि- कोरिति शेषः ॥ कर्मवत्त्वमितीति । तथा च प्रकृते क्रियापदार्थो न धात्वर्थः अपि तु कर्मवेति भावः । वेग इव वेगवत् तस्य भावस्तत्त्वमिति व्युत्पत्त्या वेगसदृशत्वं पंगवत्त्वमिति भ्रमं निरसितुमाह ॥ वेगसम्बन्धित्वमिति ॥ ननु न चेत्यादिना मूले यत्र परत्वापरत्वयो- नोत्पादस्तत्राव्याप्त्याशङ्कनमनुचित गुणान्तरस्येवू तवरपि उत्पत्तिद्वितीयक्षण एव सर्वत्रोत्पत्तिसम्भवात् क्षणिकपदार्थस्य च ग्रन्थकारैरन कारादित्याशङ्का निराकुरुते ॥ दिक्कृतयोरिति ॥ इत्यपेक्षाबुद्धि- रित्यत्र इतिपदस्याप्यर्थकतया इदमस्माद्विप्रकृष्टमिति बुद्धिसङ्ग्रहः । तेन परत्वं प्रति सन्निकृष्टत्वज्ञान नस्याहेतुत्वेऽपि न क्षतिः एवमुत्तस्त्रापि बोध्यम् । यद्यपि वाक्यात्सङ्ख्या विशेषाच्च साध्यो विश्वविदव्यय इत्याचार्यकारिकानुरोधेन परमाणुपु द्वित्वं ईश्वरापेक्षाबुद्धिजन्यमित्यवश्यमहीकरणीयं तथा च नित्यापेक्षाबु- या सर्वत्र परत्वापरत्वयोरुत्पत्तिः सम्भवत्येव तथापि द्ववणुकपरिमाणान्यथानुपपत्त्या परमाणुद्वित्व- स्याऽऽवश्यकत्वेऽपि यादशघटादौ परत्वापरत्वबुद्धिर्नानुभवसिद्धा तादशघटादौ परत्वापरत्वयोः प्र- माणाभावाज्जन्यापेक्षावुद्धिरेव परत्वापरत्वयोः कारणमित्याशयः । अथवा दिपिण्डसंयोगस्यापि परत्वापरत्वयोः कारणतया यादृशघटादेस्तृतीयक्षणे नाशस्तादशघटेऽव्याप्ती तात्पर्यम् ॥ तत्र प. रत्वापरत्वोत्पादक्षण एव । आश्रयनाशेन तदुत्पादासम्भवादिति भावः ॥ द्रव्यत्वान्यत्वेनापीति ॥ वस्तुतस्तु द्रव्यत्वव्याप्यत्वं प्रकृते द्रव्यत्वन्यूनवृत्तित्वमेव लाघवात् तच्च द्रव्य त्वसमानाधिकरणभेद. प्रतियोगितावच्छेदकत्वरूपं न द्रव्यत्व इति तदादाय नातिव्याप्तिसम्भवः । न च गुणत्वादेरपि -