पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तारळी-प्रभा-मजूषा-दिनकरीय-रामद्रीयसमान्विता । प्रभा. अतस्तादशपूर्वत्तिताश्रयत्वघटितलक्षणस्य न प्रथमान्यथासिद्धदण्डत्वादावर्तिव्याप्तिः । एवं रासभस्य घटस्वावच्छिन्ननिरूपितनियतपूर्वत्तित्वाभावात् तद्धटत्वावच्छिन्ननिरूपितनियतपूर्ववृत्तित्वसत्त्वेऽपि तादृश- पूर्ववृत्तितायाः रासभत्वावच्छिन्नत्वेन तादृशदण्डादिघटितधर्मावच्छिन्नत्वाभावात् न पञ्चमान्यथासिद्धरासभा- दावतिव्याप्तिः । केचित्तु किन्तु कारणमिति कारणत्वं चात्र पृधगन्वयव्यतिरेकशालित्वं तेन नात्माश्रयः । स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्वे सति तत्कार्यकारणावच्छिन्नस्वनिष्टतत्कार्यनिरूपितनि- यतपूर्ववृत्तित्वप्रहविशेष्यताकं यत्तत् तत्कार्य प्रति अन्यथासिमित्याहुः तदसत् रासभस्यापि घट- स्वावच्छिन्ननिरूपितसाक्षात्सबन्धपीटतान्वयव्यतिरेकशून्यत्वेन दण्डसमानकालानत्वदण्डसमानदेशीयत्व-ह- तदन्यतरविशिष्टो रासभो घटपूर्ववृत्तिरित्यादिज्ञानायरासभनिष्टविशेष्यतायाः तादृशदण्डघटितधर्मावच्छिन्नत्वात् अजूषा. पपादने दण्डीयं घनियतपूर्ववृत्तीत्याकारकदण्डत्वविशेष्यक ग्रहविशेष्यतावच्छेदकतामादाय दण्डरूपेऽतिव्या. प्तिदुवारा । अथ मन्यते प्रहनिवेशनं स्वरूपाख्यानमात्रं लक्षणंतु तत्कार्यकारणावच्छिन्ननियत पूर्ववृत्तित्वमेव दण्डत्वनिष्ठनियतपूर्ववृत्तितावच्छेदकं दण्डत्वनिष्ठतद्वयक्तित्वमेव नतु दण्डत्वत्वं गौरवादिति तत्र धृच्छामः । कुतो न दण्डत्वं नियतपूर्ववृत्तितावच्छेदकमिति तद्यदि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकर- णवृत्तितावच्छेदकत्वरूपं तदा गुणकर्मान्यतरत्वविशिष्टसत्तास्वस्य सत्तात्वापेक्षया गुरुत्वेऽपि यथा द्रव्य- वृत्तितावच्छेदकत्वं तथा दण्डत्वत्वस्य गुरुत्वेऽपि दण्डत्वं घटनियतपूर्ववृत्तीति प्रतीत्या तदवच्छेदक- त्वं दुर्वारम् । यदि कार्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकत्वरूपं तदा सुतरां अथाभिप्रेवते कार्याधिकरणताप्रयोजकाधिकरणतानिरूपकतावच्छेदकत्वे सति कार्याभावप्रयो- जकाभावप्रतियोगितावच्छेदकत्वं नियतपूर्ववृत्तितावच्छेदकत्वं तच्च न दण्डत्वत्वेऽभ्युपेयते गौरवात् प्रयो- जकत्वंच स्वरूपसंबन्धविशेष इति तहि दण्डरूपत्वविशिष्टनिरूपितपरम्परासंबन्धावच्छिन्नाधिकरणताया घटाधिकरणताप्रयोजकत्वं तत्संबन्धावच्छिन्नदण्डरूपत्वावच्छिन्न प्रतियोगिताकाभावे घटाभावप्रयोजकर५ चा- प्रामाणिक लाघवेन दण्डाधिकरणत्वदण्डाभावयोस्तत्समनियतयोरेव प्रयोजकत्वस्त्रीकारसंभवादिति दण्ड- रूपादावसंभवः । अथैत दर्थमेव ग्रहनिवेशनं कृतं प्रहश्च संभावनारूपो विवक्षित: संभाव्यमानमपि तादृशान्वयव्यतिरेकवत्त्वं दण्डत्वे तद्वयक्तित्वेनव संभाव्यते लाघवान्नतु दण्डवत्वेन गौरवात् दण्डरूपे तु दण्डरूपत्वेन संभाव्यते नतु रूपत्वेनातिप्रसङ्गादिति चेत् किभियं संभावना प्रमात्मिका विवक्षिता उत भ्रमप्रमासाधारणी आधे दण्डरूलेऽपि न तःसंभवः तादृशान्वयव्यतिरकारभावात् द्वितीये दण्डत्वेऽपि दण्डवत्वेन संभावना केन धारणीयेत्यलमनावश्यकदण्डवतारणसंभवासंभवविचारे- न । कपालसंयोगव्यावर्तक दण्डत्वदण्डरूपसाधारणं स्वातन्त्र्येण तत्कार्यनिरूपितान्वयव्यतिरेकशून्यत्व- न्तु दुर्वचमित्यवोचाम । अथास्तु कार्यान्वयव्यतिरेकप्रयोजकान्वयव्यतिरेकशून्यत्वमेव तथा प्रयोज- कत्वं तु तीतिकस्वरूपसंबन्धविशेष इति चेत् कार्यान्वये तद्वयतिरके च कारणान्वयव्यतिरेक- योरिख कारणतानवच्छेदकान्वयव्यतिरेकयोरपि प्रयोजकतायाः सिद्धान्तसिद्धतया तच्छ्न्यत्वस्य दण्डत्वे दुरुपपादत्वात् अथ मास्त्विदं कारणतावच्छेदकसाधारणं तदतिरिकानां कारणवृत्तीनां दण्डरूपादीनां सं- ग्राहकमेवेदमास्तामिति चेत् तथापि दण्डवजातिनियामकस्य वंशदळजन्यताविशेषादेः दण्डनिधर्म- स्य यावन्वयव्यतिरेको तयोरपि दण्डत्वान्वयव्यतिरेकद्वारा घटान्वयव्यतिरेकप्रयोजकत्वेन कारणवत्ति यावद्धर्माणामसङ्ग्रहात् नच साक्षात्प्रयोजकत्वं विवक्ष्यतामिति वाच्यं साक्षात्प्रयोजकत्वं हि तत्थ्यो। जके प्रति अप्रयोजकले सति तत्प्रयोजकत्वं तच्च दण्डान्वयन्यतिरेकयोरप्यासिद्ध तयोश्चकभ्रमण. कपालसंयोगाद्यन्वयव्यतिरेकप्रयोजकत्वात् नचास्तु दण्डस्येदृशं स्वतन्त्रान्वयव्यतिरेकशून्यत्वं का क्षति तत्कार्यकारणावच्छिन्नेत्यादिना विशेषणेन तनातिव्याप्तिवारणादिति वाच्यं चक्रसंयुक्तदण्डो घटना