पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरूद्रीयसमान्विता । मञ्जूषा. च्छिन्नजनकतानिरूपितसमवायावच्छिन्नजन्यतासंबन्धेन वा नाशत्वेन कारणता वाच्या । इह भाविनाशमा- दायातिप्रसङ्गवारणाय कालिकसंबन्धोऽपि निवेशनीय इति बभ्राम महादेवः । भाविनि वस्तुनि पूर्वक्षण- त्तित्वघटित कारणताया दुरुपपादत्वात् अन्यथा स्वप्रतियोगिनिष्ठासमवायिकारणतेत्यादिस्वपरिष्कृतसंवन्धस- रीरेऽपि प्रवेशापालादिष्टापत्तौ च तत्रापि दर्शित एव भ्रम इति । अथाल पटासमचाविकारणताब्यवहार तुरीतन्तुसंयोगादौ नास्तीत्येवावगतं व्यवहाराभावबीजं तु नावगम्यते समवायिकारणप्रत्यासन्नत्वावि- शेषात् अस्तु वा तत्र यथाकश्चित्तत्र वीजगवेषणं अभिवातादौ तु क्रियाया यादर्श समनायिकार: णप्रत्यासन्नत्वं तादृशं वेगादेरपि तुल्यं तत्कुतः क्रियायामेवामिघातासमवायिकारणत्वं व्यपदिशन्ति प्रामाणिकाः न वेगादिष्वभिघातासमवायिकारणलक्षणे वेगादिभिन्नत्वनिवेशात्तथेति चेत् क्रियाभिन्नत्वमेव निवश्य वेगा. दिरेव तथा व्यवहियत्तामुभयमपि वा तथा व्यवाहियता नियामकाभावादेवमन्यत्रापि एवमिच्छादौ ज्ञानादेरपि कुतो नासमवायिकारणत्वव्यवहारः समवायिकारणत्वप्रत्यासन्नत्वस्याक्षतत्वादात्मविशेषगुण- भिन्नत्वनिवेशाभिप्रायेणेति चेत् भूतविशेषगुणभिन्नत्वनिवेशाभिप्रायेण रूपादीन्यप्यसमवायिकारणतया मा व्यवहार्षषुः अन ब्रूमः । समवायिकारणप्रत्यासन्नत्वमात्र नासमवायिकारणव्यवहारे तन्तं किंतु सम- वायिकारणप्रत्यासत्त्या स्वातन्त्र्येण फलोपधायकत्वं स्वातन्त्र्यं च स्वसजातीयनिरपेक्षत्वं स्वसजातीयवि- लम्बप्रयुक्तकार्यविलम्बशून्यत्वमिति यावत् । साजात्यं च समवायिकारणप्रत्यासन्नत्वेन रूपेण तथाच यद्रूपावच्छिन्नं स्वकार्यतावच्छेदकाश्रयसभवायिकारणप्रत्यासन्नपदार्थान्तरनिळम्बप्रयुक्तस्वकार्यतावच्छेदकवि- शिष्टोत्पादविकम्वकं न भवति अथच समवायिकारण प्रत्यासन्नं तद्रूपावच्छिन्नं असम्भवायिकारणामिति व्यपदिश्यते सति हि तन्तुसंयोगत्वावच्छिन्ने तुरीतन्तुसंयोगविलम्वान्न घटत्वविशिष्टोत्पादविळम्बः तुरीतन्तुसंयोगादीनां आरम्भकविजातीयसंयोगांश एव उपयोगादतो भवत्यसमवायिकारणं तन्तुसंयोगः । तुरीतन्तुसंयोगस्तु न तथा सत्यपि तुरीतन्तुसंयोगे आरम्भकसंयोगोत्पत्तिकाले घटत्यविशिष्टोत्पादवि ळम्बस्य तत्पूर्वक्षणे आरम्भकसंयोगविळम्बप्रयुक्तत्वादतो नायमसमवायिकारणव्यवहारविषयः एवं वेगोऽपि स हि न साक्षादभिघातकारणं किन्तु क्रियाद्वारा तथाच सति वेगत्वावच्छिन्ने क्रियोत्पत्तिकाले वेगकार्यतावच्छेदकीभूताभिघातत्वविशिष्टोत्पादविळम्बः तत्पूर्वक्षणे क्रियाविळम्वप्रयुक्तः अतो न वेगोऽस० मवायिकारणम् । अथ वेगविनिमुक्तक्रियया यत्र संयोगः तत्राभिघातत्वविशिष्टोत्पादविळम्बः वेगविळ- म्बप्रयुक्त इति क्रियापि नासमवाथिकारणं स्यादिति चेत् नहि क्रियाजन्यत्तावच्छेदकमभिघातत्वं किन्तु अभिघातनोदनसाधारणं वैजात्यान्तरं स्वाव्यवहितोत्तरत्वसंबन्धेन कि पाविशिष्टसंयोगवं तथाच सत्यां क्रियायां वेगविलम्बान्न क्रियाजन्यतावच्छेदकविशिष्टोत्पादविलम्बः तस्यावश्यमुत्पादादिति युक्तं त- स्यासमवायिकारणत्वम् । एवमन्यत्रापि एवमिच्छादौ ज्ञानादिकमपि नासमवायिकारणव्यवहारमर्हति अनुभूयन्ते हि इष्टसाधनताज्ञानादौ सत्यपि एटव्यमनिच्छन्त एव कंचित्कालं स्तब्धदवतिष्टमानाः पुमासो विजात यात्ममनस्संयोगविलम्बात् नच इष्टसाधनताज्ञानमेव कथं विजातीयात्ममनस्संयोगा- भावे उत्पद्यत इति वाच्यम् । उत्पन्ने तस्मिन् तदुत्पादकमनस्संयोगविगमसंभवात् पश्चाच्च द्विजातीयमनस्संयोगोत्पादं स्तम्भयति आत्ममनःसंयोगस्तु तत्रासमवायिकारणं भविष्यति । यद्यपि मनस्संयोगे सत्यपि इष्टसाधनताज्ञानविलम्बादिच्छादिविलम्बो दृष्टः तथापि तत्कार्यतावच्छेदकीभूतज. न्यात्मविशेषगुणत्वावच्छिन्नं भवत्येव इष्टसाधनताज्ञानोत्पत्तिकाले इच्छात्वविशिष्टविलम्बस्य तत्पूर्वक्षणे इष्टसाधनताज्ञानविळम्वप्रयुक्तत्वेऽपि नेष्टसाधनताज्ञानोत्पत्तिकाले मनस्संयोगकार्यतावच्छेदकविशिष्टविलम्बः इष्टसाधनताज्ञानस्यापि जन्यात्मविशेषगुणत्वात् उत्पद्यते च ज्ञानादावसत्यपि सतीन्द्रियसन्निकर्षादी निर्विकल्परूपं संति च कण्टकवेधादौ दुःखादिरूपं च जन्यात्मविशेषगुणत्वावच्छिन्नमात्मनस्संयोगत्वावच्छि नात् । ननु कदाचिदात्ममनस्संयोगे सत्यपि यत्र जन्यात्मविशेषगुणसामान्यस्य नोत्पत्तिः तत्र जन्यत्वात्म- याव-