पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली क्षयातिरिक्तकल्पनाया एव लघीयस्त्वात् । एवं चाधाराधेयभावोऽप्युपपद्यते । एवं च तत्तच्छन्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते । अन्यथा तत्तदधिकरणानां तत्त- दिन्द्रियाग्राह्यत्वात्प्रत्यक्षत्वं न स्यात् । एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमभावस्ये- ति प्रत्युक्तं अप्रत्यक्षत्वापत्तेः ॥ १२ ॥ प्रभा. नन्वभावस्यानन्ताधिकरणात्मकत्वकल्पनायाः अतिरिक्ताभावस्यानन्ताधिकरणसंबन्धकल्पनातुल्यतयाऽतिरि. काभावकल्पनागौरवं परमतिरिच्यत इत्यत आह ॥ एवंचेति ॥ नन्वभावाधिकरणकाभावप्रतियोगि- काभावस्याधिकरणास्वरूपत्वेऽपि आधारतावच्छेदकाधेयतावच्छेदकभेदात् यथाऽधाराधेयभावः स्वीकृतः तथा सर्वत्राप्यस्त्वित्यत आह ॥ एवंचेति ॥ अन्यथेति ॥ अभावस्याधिकरणात्मकत्व इत्यर्थः ॥ प्रत्यक्ष त्वं न स्यादिति ॥ नच गृहनिष्ठशब्दाभावस्य गृहस्वरूपस्य गृहत्वेन श्रोत्रप्राह्यत्वाभावेऽपि शब्दाभावत्वे. न श्रोत्रग्राह्यत्वे बाधकामावः एवमुत्तरत्रापीति वाच्यं एकैकस्यैव वस्तुनः एकरूपेण तदिन्द्रियग्राह्यस्वरूपा न्तरेण तदिन्द्रियाग्राह्यत्वखीकारे मानाभावः अन्यथा रूपादीनामैक्यमशीकृत्यापि रूपत्वेन चक्षुह्यत्वस्य रसत्वेन चक्षुप्राह्यत्वाभावस्य च खीकारसंभवेन तेषां भेद एव लुप्यतेत्यादिकमूहनीयम् ॥ एतेने- ति ॥ उक्तदोषेण तदात्मकवक्ष्यमाणदोषेण चेत्यर्थः ॥ ज्ञानविशेषेति ॥ घटो नास्तीत्याकारकहा. नमित्यर्थः ।। कालविशेषेति ॥ घटो नास्तीत्याकारकज्ञानाधिकरणकाल इत्यर्थः ॥ १२ ॥ मञ्जूषा. तापत्तिरिति लाघवं भूतलत्वावच्छिन्नविषयतानिरूपितघटाभावविषयतापेक्षया पर्वतत्वावच्छिन्नविषयतानि- रूपित्तायाः तस्याः सर्वमत एव भिन्नत्वात् नच सामान्यलक्षणाजन्ये घटत्वाभावावानित्यादिज्ञाने ज- लं गन्धाभाववदित्यादिज्ञाने घटत्वाभावत्वाद्यवच्छिन्नानन्तप्रकारताः त्वया स्वीकार्याः । मयातु एकैकै- वेति लाघवमिति वाच्यं अभावत्व प्रमेयत्वादिना निखिलाभावावगाहिन्याः अभाववद्भूतलमित्यादिप्र. तीती अभावत्वेन नानाप्रकारतास्वीकारापेक्षया तत्तद्भूतलादिनिष्टकैकप्रकारतास्वीकारपक्षेऽपि लाघवस्या- नपायात् उच्यते घटत्वाद्यवच्छिन्नप्रतियोगितानिरूपितानुयोगितायाः एकैकस्याः अनन्ताधिकरणेषु सं- बन्धकल्पनापेक्षया एकैस्मिन्नभावे तत्संबन्धकल्पने लाघवं नच घटत्वविशिष्टनिरूपितानुयोगितानन्ता. धिकरणेषु अस्माभिः कल्पिता त्वया तु तादृशानुयोगिताविशिष्टो योऽतिरिकाभावः तत्प्रतियोगित्वं अनन्ता- धिकरणेषु कल्पनीयमिति साम्यमिति वाच्यं घटाभाववद्भूतलमित्यादिप्रतीतो घटत्वविशिष्टनिरूपितानुयोगि- ताविशिष्टस्य भूतलादी संबन्धभानं (उभया) असिद्धमिति भूतलादिस्वरूपेषु तादृशानुयोगिताविशि- प्रतियोगिकत्वकल्पनस्य तवाप्यावश्यकत्वात् इयानेव विशेषः यत्तादृश संबन्धप्रतियोगिकत्वं त्वन्मते दिनकरीयम्. थितुमनन्तेत्युक्तम् ॥ अतिरिक्तति ॥ भावातिरिक्तत्यर्थः । अभावस्याधिकरणात्मकत्वेऽभेदे आ- धाराधेयभावानुपपत्तिरूपदोषः सोऽप्यस्मिन्मते नेत्याह ॥ एवं चेति ॥ अधिकरणापेक्षयातिरिकत्वे वेत्यर्थः । नन्वभावाधिकरणकाभावस्याधिकरणात्मकत्वे यथाधाराधेयभावोपपत्तिस्तथा सर्वज्ञाप्यस्त्वित्यतो दुषणान्तरमाह ॥ एवं चेति ॥ अन्यथा अभावस्याधिकरणात्मकत्वे एतेन वक्ष्यमाणदूषणेन ॥ १२ ॥ रामरुद्रीयम्. तिरिक्तार्थकत्वं न सम्भवति अभावस्यापि नैयायिकैः क्लप्तत्वात् अतस्तदर्थमाह | भावाति- रिक्त इति । अभावस्याधिकरणात्मकत्व इति ॥ गन्धाभावस्य जलादिरूपत्वेऽपि जलवादिनैव तेषां न घाणेन्द्रियमाहता गन्धाभावस्वेन तु तेषामपि सथात्वमित्रमेवेति प्रामाकराणामभिप्राय इति मन्तव्यम् ॥ १२ ॥