मुजावळी-प्रमा-मजूषा-दिनकरीय-रामहद्रीयसमन्विता ।
मम्जूषा.
ताशानुयोगिताबिशिष्टस्य भूतलादेः मन्मते स्वतिरिकामावस्येति ॥ पंचेति । उक्तयुक्तथा अ-
धिकरणातिरिक्ताभावसिद्धौ चैत्यर्थः ॥ आधाराधेयभाव इति ॥ भूतले घटो नास्तति प्रतीतिसिखः
भाधाराधेयभाव इत्यर्थः ॥ उपपद्यत इति ॥ प्रायशो लोके भिन्न योरेवाधाराधयभावः प्रमिदः न
स्वामित्रयोः सन्चास्माकं सूपपादः भवतां तु घटाभावे न घटः घटभेदो न घट इत्यादिप्रतीतासद्धा-
धाराधेयभावत् अत्रापि गौणतया कल्पने प्रयासगौरवामित्यर्थः । उक्तयुक्केरनत्तिसाधकतया पूर्वोपद
शितप्रबलयुक्ताववास्य उपोलकत्वमिति सूचनया एवंचन्युक्तं आपशब्दश्च प्रयुक्तः ॥ प्रत्यक्षत्व
मिति ॥ श्रोत्रंण शब्दामावं जानामीत्यादिप्रतीतिसिद्धं प्रत्यक्षविषयत्वमित्यर्थः । इयमपि युक्तिः
न बलीयसी परैरमावस्यानुपलब्धिप्रमाणगम्यत्वाङ्गीकारात् किन्त्वनुभवेन प्रथमं प्रत्यक्षत्वं प्रसाध्य
पश्चात्तदनुपपात्तः अभावातिरिक्तत्व हेतुतया उपन्यसनीया नच तावतापि सा स्थिरीभवति तत्तदधिकर-
गानां तत्तद्रूपेण तत्तदिन्द्रियाग्राह्यत्वेऽपि तत्सदभावत्वेन रूपेण तथास्वसंभवात् यथा नैयायिकैकदेशि.
भिः रूपाभावाधिकरणकामावस्य रूपाभावानतिरिक्तत्वेऽपि तस्य रूपाभावत्वेनैव चाक्षुषविषयता नतु
रसानावस्वेन तद्वत् । ततश्च इयमपि युक्तिः प्रथमामेव युक्ति उपोद्दलयतीत्याशयेन एक्चेत्युक्तम् ॥ ए.
तेनेति ॥ पूर्वोक्तयुक्तित्रयेणेत्यर्थः ॥ ज्ञानावशेषेति ॥ यस्मिन् काले भूतले घटाभाववत्वं त्वया
स्वीक्रियते तत्कालोत्पन्नानि तद्भूतलविषयकाणि भूतले घटो नास्टीत्याकारकाणि इदं भूतलमित्याद्याका
रकाण्यपि वा ज्ञानान्येव भूतले घटी नास्तीति प्रतीती घटत्वविशिष्टनिरूपित्तानुयोगिता प्रकारेण भा.
सन्त इत्यर्थः ॥ कालविशेषेति ॥ यस्मिन्काले भूतले घटा नास्ति तत्तत्काल एव भूतलं घटो
नास्तीत्यादिप्रतीतौ तादृशानुयागिता प्रकारेण भासत इत्यर्थः ॥ प्रत्युक्तमिति ॥ घटत्वावशिष्टनिरू-
पितानुयोगितायाः अनन्तासु ज्ञानव्यक्तिषु कालव्यक्तिषु च कल्पने गौरवादिति भावः । एवं चि-
षयतासंवन्धस्य वृसिनियामकत्वाभावात् भूतलज्ञानयोः आधाराधेयभावो न स्यात् एवं कालस्य भू.
तलाधारत्वं सिद्धं कुप्तं नतु तदाधेयत्वं (अथ) भूतलस्याधारत्वं अमावस्याधेयत्वमिति एतादृशाधारा-
धेयभावो न स्यादिति इदंच वक्ष्यमाणस्य कर्मादेरेव कालोपाधित्वमाश्रित्य जन्यमात्रस्य तथात्वे
तु
गने रूपाभाव इत्यत्र बोध्यं इयमपि युक्तिः न विचारक्षमा ज्ञानस्य विषयतासंबन्धेन वृत्तित्वाभावेऽपि
अतिरिक्ताभावस्येव ज्ञानात्मकाभावस्यापि स्वरूपसंबन्धेन वृत्तित्वसंभवात् एवं कालस्थलेऽपि बोध्यं
--अभावस्य ज्ञान चा दिप्रत्यक्षविषयत्वं न स्यात् तस्य बहिरिन्द्रियामाह्यात्वात् एवं का.
लविशेषात्मकत्वेऽपि तस्यातीन्द्रियत्वादिति इयं तु न पूर्वव दस्थिरा नच ज्ञानस्य ज्ञानत्वेन रूपेण बहिरिन्द्रि
याप्राह्यत्वेऽपि घटाभावत्वेन रूपेण तथात्वे बाधकाभावः एवं कालस्य कालत्वेन रूपेणातीन्द्रियत्वेऽपि
घटाभावत्वेन रूपेण प्रत्यक्षत्वे बाधकामाच इति वाच्यं रूपान्तरेणापि तयोः तादृशप्रत्यक्षविषयत्वा-
संभवा। तथाहि भूतले घटो नास्तीतिप्रतीतौ घटाभावत्वेन रूपेण किं स्वात्मकज्ञानस्य विषयता
उत पुरुषान्तरीयस्य नाद्यः प्रत्यक्षे विषयस्य कारणत्वात् पूर्वक्षणे व तदभावात् न द्वितीयः ए.
कस्यां बुद्धौ पुरुषान्तरीयाणां भूयसीनां तादृशज्ञानव्यक्तीनां विषयत्वकल्पने गौरवात् एवं कालविशेष-
स्यापि न ताइशप्रत्यक्षविषयत्वसंभवः तादृशज्ञानोत्पत्तिक्षणात्मककालस्य पूर्ववृत्तित्वाभावात् पूर्वक्षणा-
स्मककालस्य च तत्कालेऽभावात् विषयस्य पूर्वकालवृत्तितयेव कार्यसहभावेनापि हेतुतायाः सिद्धान्तासिद्धत्वात्
नच ज्ञानोत्पत्तिक्षणतत्पूर्वक्षणोभयावस्थायिस्थूलकालस्य एताद्वषयत्वमास्तामिति वाच्यं तथापि
शक्षणद्वयावस्थायिनानापदार्थरूपस्थूलकालस्य एकैकतादृशज्ञानविषयत्वकल्पने गौरवात् एवंच अधिकरणा-
त्मकरवपक्ष इव नाव पक्षे एतयुक्तः फल्गुतेति प्रदर्शनाय एतेनेत्यनेन उक्तामपि तृतीययुक्ति पुनः पठति ॥
अप्रत्यक्षवापत्तरिति ॥ प्रत्यक्षानरूपितलौकिकविषयताशून्यत्वापत्तरित्यर्थः । चक्षुषा घटाभावं पश्यामीति
सार्वजनीनानुभवासिद्धायाः प्रत्यक्षविषयताया दुरपह्नवतमा तत्रेष्टापत्तेरयोगादिति भाव इत्यभावप्रन्थः ॥ १२ ॥
ग-
ताह
पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७३
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
