पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ कारिकावली प्रभा. रूप संबन्धत्वानङ्गीकारात् । अन्यथा स्फाटके लौहित्याधयसंयोगवद्भूतलादावपि लौहित्याश्रयसंयोगस. स्वात् लोहितं भूतलामति प्रतीत्यापत्ते(रित्वात् । तस्मात्कल्पनाया अनुभवानुरोधित्वेन लोहितं भूत- लमिति प्रतीत्यभावात् भूतलनिष्ठलौहित्याश्रय संयोगस्य यथा लौहित्यसंबन्धत्वाभावः तथा वायू रूपवा. मजूषा. निरूपिता या अधिकरणतास्तत्तद्रूपनिरूपितत्वविशिष्टसमवायत्वावच्छिन्नवत्ताप्रतीत्यनुरोधेन कल्पितास्तासा. मेव पनिरूपितत्वविशिष्टसमवायत्वपर्याप्तनिरूपकतावच्छेदकताकत्वमपि स्वीक्रियते ताभिरेव रूप- निरूपितत्वविशिष्टसमवायत्वावच्छिन्नवत्ताप्रतीतेरपि निर्वाहात् नत्वधिकरणतान्तरं प्रयोजनाभावत् । अ- न्यथा एकैकव्यक्ती यावन्तो धर्मास्तद्यक्तित्वं तद्यक्त्येतद्यक्त्यन्यत्तरत्वं एवं व्याकेत्रयान्यतमत्वं व्य- तिचतुष्टयान्यतमत्वं इत्यादि एवं नीलत्वरूपत्वगुणत्वसत्ताभावत्वप्रमेयत्वादि एवं तदाश्रयान्या यावत्यो व्यक्तयः प्र येकं तत्तधत्यन्यत्वविशिष्टनीलत्वादि एवं ततद्धर्मप्रकारकप्रमाविशेष्यत्वादि तत्तद्विशिष्टनि. रूपिताधिकरणतानां तत्तद्विशिष्टनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणतानां च भेदे म- हागौरवप्रसङ्गात् । ममतु तत्तद्यक्तित्वविशिष्टनिरूपिताधिकरण ताया एव तद्यक्तिवृत्तियावद्धर्मावच्छिन्ननिरू. पितत्वं तब्यक्तित्वविशिष्टनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एव च तद्यक्ति- त्तियावद्धर्मावच्छिन्ननिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपितत्वं एवमेतद्व्यक्तिवृत्तित्वविशिष्टघटत्वनिरूपि- ताधिकरणताया एव घटत्वनिष्टैतव्यक्तिवृत्तितावच्छेदकीभूतघटत्वजातिवादियावद्धर्मावच्छिन्ननिरूपितत्वं एत. द्यक्तिवृत्तित्वविशिष्टघटत्वनिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपिताधिकरणताया एव च घटत्वनिष्ठेतय. किवृत्तितावच्छेदकीभूतयावद्धर्मावच्छिन्ननिरूपितत्वविशिष्टसमवायत्वावच्छिन्ननिरूपितत्वमिति व्यक्तमेव ला- घ। ततश्चाधिकरणताया अधिकरणस्वरूपत्वमते अतिरिकत्वमते च अधिकरणभेदेन भिन्नतया मवायाङ्गीकारेऽपि अनन्तानां संसर्गतास्वीकारो नापेत इति तत्स्वीकारे गौरवं दुरिमेव तस्मादनुप. पनं महादेववचनम् । हरिरामस्तु वायौ रूपवत्ताबुद्धेः प्रमात्वमअसा प्रत्याचरव्यौ । तथाहि वस्तुतो रूपनि- कपितो यस्समवायस्स यद्यपि वायौ तिष्ठति तथापि नासौ वायौं रूपस्य संबन्धः । ननु समवायो न वा- यौ रूपस्य संबन्ध इत्युक्त कोऽर्थः । किं समवायो न वाय्वनुयोगिक इति किंवा न रूपप्रतियो- गिक इति आहोखिद्वायुविशेष्यकरूपप्रकारकबुद्धौ संसर्गो नेति । नाद्वितीयौ असंभवान्नापि तृती- यः वायू रूपवानिति श्रमीय संसर्गतायास्तत्र दुरित्वात् तादृशप्रमीयसंसर्गता तत्र नास्तीत्यर्थः । इति चेत्तस्या एवेदानी अस्माभिरापादनीयत्वादिति चेदुच्यते । वाय्वनुयोगिकत्वविशिष्टसमवाये रूपप्रतियो- गिकत्वं नास्तीत्यर्थः । समवायनिष्ठयोर्वाय्वनुयोगिकत्वरूपप्रतियोगिकत्वयोरवच्छेद्यावच्छेदकभावो ना- स्तीति फलितोऽर्थः । ततश्च तत्संबन्धिविशेष्यकत्वे सति तत्प्रकारकत्वं प्रमावं तत्संबन्धित्वं च त- प्रतियोगिकत्वावच्छिन्ननिरूपकताकानुयोगित्वं । अतो वायू रूपवानिति बुद्धर्न प्रमात्वं किंतु भ्रमत्वं तच तदभाववद्विशेष्यकत्वे सति तत्प्रकारकत्वं तत्प्रतियोगिकत्वविशिष्टतत्संबन्धनिष्ठनिरूपकताकानुयोगि- ताया एव तेन संबन्धेन तद्भाव प्रति विरोधित्वाद्वायौ समवायेन रूपाभावोऽक्षत एवेति तस्य भ्रमत्वमिति । एवंचात्र मुक्कावळीग्रन्यस्यापि वस्तुतो रूपनिरूपितस्य समवायस्य वायौ सत्त्वेऽपि तस्य वायौ रूपसंबन्धत्वाभावेन तत्संबन्धावच्छिन्नप्रतियोगिताकरूपाभावस्य वायौ सत्त्वात् वायूक- पवानिति बुद्धेः भ्रमत्वमेव न प्रमात्वमित्यर्थकतया नानुपपत्तिरिति । उपाध्यायमतानुयायिनस्तु विशिएबुद्धौ विशेष्येऽनुयोगितारूपसंबन्धो विशेषणे च तस्य प्रतियोगितारूपसंबन्धों भासत इति नियमेन रूपवानिति बुद्धौ सम्बन्धविधया भासमाने समवाये विशेष्यानुयोमिकत्वरूपप्रतियोगिकत्वे अपि संबन्धमर्यादया भासते तयोश्च परस्परावच्छेद्यावच्छेदकभावभानमपि स्वीक्रियते। ततथ बा- धू रूपवानिति बुद्धौ संबन्धविधया भासमानयोविनुयोगिकत्वरूपप्रतियोगिकत्वयोर्भासमानो योऽव- छेद्यावच्छेदकभावः तस्य बाधान तस्याः प्रमात्वमित्याहुः । तन्न प्रमावस्य पूर्वोकरीया निर्व.