पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. रकज्ञान प्रतिबन्ध कज्ञानविषयत्वम् । तच प्रकृते अभावो जातित्वजात्यधिकरणत्वान्यतराभाववान, समनाय- प्रतियोगित्वसमवायानुयोगित्वान्यतराभाववत्त्वात्समवायवत् समवायेऽपि साध्यस्यासिद्धत्वं व्यतिरेकव्या- तो घटादिदृष्टान्तो बोध्यः । तथाचैतादृशासंबन्धप्रकारकाभावविशेष्यकज्ञानस्य जातित्वजात्यधिकरणत्वान्य तरप्रकारकज्ञान प्रतिबन्धकनिरुतानुमित्यात्मकज्ञानजनकत्वेन विरोधिज्ञानसामग्रीत्वात्तदभावव्याप्यवत्तानिश्च- यत्वाच तस्यापि तादृशान्यतरप्रकारकज्ञानप्रतिवन्धकत्वमव्याहतामिति तद्विषयवादसंबन्धस्य जातिबाधक- विम् । यद्यपि समवायप्रतियोगित्वसामान्याभावस्य जातित्वाभावानुमापकत्वात् समवायानुयोगित्वसामा- न्याभावस्य च जात्यधिकरणत्वाभावसाधकत्वात् प्रत्येकलिङ्गेन प्रत्येकाभावसाधनेनैवीभयोरसंवन्धले सिद्ध उक्तहेतुद्वयनिष्ठोभयत्वेन तादृशप्रतियोगित्वानुयोगित्वान्यतरत्वावच्छिन्नाभावत्वेन वा तादृशान्यतराभावा- नुमापकत्वोपपादनं व्यर्थमेव तथाप्येकेन रूपेण अन्यतराभावानुमापकत्व संभवेऽपि प्रत्येकरूपणकै कस्य प्रत्येक- साध्यानुमापकत्वस्वीकारे व्याप्तिद्वयकल्पनेन परामर्शद्वयकल्पनेन च गौरवप्रसङ्गात् द्वयोः प्रत्येकरूपेण जाति- मजूषा. तिरूपहानी तु जातिबाधिके असंवन्धस्तूभयबाधकः तेन समवायाभावयोतित्वं जातिमत्त्वं च वाध्यत इत्याहुः अथ समवायाभावयोस्समवायप्रतियोगित्वाभावस्य जातित्वाभावनिश्चयात्समवायानुयोगित्यामात्र स्य च जात्यभावनिश्चयात्माग्दुनिश्चयतया कथं जातित्वजातिमत्त्व प्रहप्रतिबन्धकत्वं इति चेन्न जातिय जातिम- त्वाभावनिश्चयात्प्रागेव तयोनिश्चेतुं शक्यत्वात् । तथाहि समवायस्यापि समवेतत्वमभ्युपेख नित्यानेकसमवे- तत्वाचातित्वस्वीकारे समवायप्रतियोगिकसमवायस्यापि समवायत्वाविशेषात्समवेतत्वापत्त्याऽनवस्थानात् ।।- वं समवायो न समवायानुयोगी तत्प्रतियोग्यनिरूपणात् तद्धि न समवायत्वाभावत्वप्रमेयत्वादि त. थासति तत्समवेत्तस्य तदन्यतया समवायनिष्ठानां तेषां समवायातिरिकत्वस्वीकारे गौरवात् किंत्र सम- वायत्वं यदि समवेतं स्यात् तर्हि समवायानुयोगिकस्समवायत्वप्रतियोगिको यस्समवायः तत्रापि समवाय- त्वं समवेत स्यादेवं तदनुयोगिकसमवायेऽपीत्यनवस्था तस्मात्समवायस्य यतकुत्रापि रामवाय स्वरूपमेव संबन्धः सच यद्यपि वस्तुगत्या समवायानतिरिक्तस्तथापि तस्य स्वरूपत्वेनव संवन्धता नतु समवायत्वेनेति बोध्य एवमत्यन्ताभावो न जातिः असमवेतत्वात् अन्यथा घटानयनानन्तरमपि घटाभावयु- द्धिस्स्यात् प्रतियोगिनो घटाभावस्यानुयोगिनो भूतलस्य समवायस्य च संवन्धस्याव्यवहितपूर्व प्रतीतस्या- नपगमात् ममतु विशेषणताख्यस्य संबन्धस्य तदानीमभावात् भूतलादिस्वरूपस्य वा तत्कालान्तर्भावण सं. बन्धत्वानुपगमानानुपपत्तिः नत्वेवं समवायस्सतोप्रतियोग्यनुयोगिनोः कदाचित्संवन्धो भवति कदाच. नेति क्वचिदृष्टं नवा जातेः कालिकाव्याप्यवृत्तित्वं किंच समवाये यो घटायन्ताभावः स यदि समवा- यसमवेत्तः स्यात्तहि समवायानुयोगिको घटात्यन्ताभावप्रतियोगिको यस्समवायः सोऽप्यातरिक्तस्स्यात् एवं तत्राप्यनवस्था एवं घटात्यन्ताभावे यः पटात्यन्ताभावस्स यदि घटात्यन्ताभावसमवेतस्स्याताई सोs- धिकरणभिन्नस्स्यात् नहि सएव तत्समवेतो भवितुमर्हति अन्यथाह्यभावस्य संवन्धे समवायसंज्ञा पारि भाषिकी स्यानतु वास्तविक समवायत्वं नाभिन्न योस्समवायस्संवन्धः स्वरूपं तु स्यात् प्रमेयत्वे व- रूपसंबन्धेन वर्तमानस्य प्रमेयत्वस्याधिकरणखरूपानतिरिक्तत्वात् एवमत्यन्ताभावो न जातिमान् अस. मवायित्वात् नहि स समवायानुयोगी तत्प्रतियोग्यनिरूपणात् तद्धि नात्यन्ताभावत्वादि तथासति अ. त्यन्ताभावनिष्ठानां धर्माणां तदतिरिक्तत्वस्वीकारे गौरवात् किं चैवं घटात्यन्ताभावे यदलन्ताभावत्वं तत्र यो घटात्यन्ताभावस्स किमाश्रयभूताटात्यन्ताभावाद्भिद्यते उत न आये गौरवं द्वितीये तत्समवेतस्य तदाश्मय- स्वानुपपत्तिः नहि स्ववृत्तिधर्मसमवेतत्वं जातेस्तदन्यस्य वा कस्यचिदृष्टं ला के स्वरूपसंबन्धन वर्त. मानत्वंतु स्वत्तिप्रमेयत्वे अमेयत्वस्य दृष्टं एवमन्योन्याभावस्य समवतत्वे समवाय घान्योन्यानावस्य समया- यान्तरस्वीकारापत्तिः धतान्योन्याभावाधिकरणस्य घटान्योन्याभावस्य भेदापत्तिश्च अन्योन्याभावस्य समवाचित स्वे च घटान्योन्याभावे यदन्योन्याभावत्वं तस्य घटान्योन्याभावाश्रयत्वानुपपत्तिः स्वस्य स्ववृत्तिधर्मसमवे. 16