पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ कारिकावली प्रभा. व्यक्तेरपि तत्तद्र्व्यक्तित्वेन परमाण्वन्तरभेदानुमापकत्वासंभवेन विशेषपदाथासिद्धिप्रसंगादिति निगूढार्थः । विशेषासिद्धेः कथं जातिबाधकत्वमिति चेदित्थम् । अयं परमाणुस्तत्परमाणोभिन्न इत्याकारकनिश्चयस्य प्रत्यक्षरूपता न संभवति अतीन्द्रियाविषयकत्वात् न शाब्दरूपता वेदादिपु तादृशशब्दाभावात् आधुनि- कतादृशशब्दानामाप्तोक्तत्वानिश्चयाच किन्त्वनुमितिरूपो वाच्यः । तस्य लिङ्कज्ञानसाध्यत्वेन परमाणु- गतकत्वादेः सामान्यरूपेण व्यभिचारित्वात् तत्तद्वयक्तित्वेनानुमापकत्वासंभवाच कृप्तमेव किंचिलिङ्गज्ञान- मनुभयम् । तथाहि तादृशानुनितिरसामान्यानाश्चयकिंचिल्लिङ्गज्ञानजन्या सामान्याश्रयलिङ्गकवाभाववत्त्वे सति अनुमितित्वात् धूमप्रागभावलिङ्गकवयनुमितिवदित्यनुमानात सामान्यानाश्रययात्किचिलिमज्ञानजन्यत्वे सिद्धे विशेपो यदि सामान्यवान् स्यात् तदानुमितिविषयो न स्यादित्यनिष्टप्रसञ्जनात्मकतर्कस्य मणिमन्त्रादि- न्यायेन जातिप्रकारकज्ञानप्रतिवन्धकस्येनानुमितिविषयत्वाभावरूपासिद्धेः तादृशप्रतिवन्धकज्ञानविषयत्वरू- पजातिबाधकत्वमक्षतमेवेति दिगिति हृदयम् । असंबन्धः प्रतियोगितानुयोगितान्यतरसंबन्धेन सम- वायाभावः । इदंचान्यतरत्वेन संसर्गत्वाभ्युपगमेन । अन्यथा प्रतियोगितासंवन्धेन समवायाभाव- अनुयोगितासंबन्धेन समवायाभाव एतदुभयबत्त्वमेव । इदमपि वृत्त्यनियामकसंवन्धस्याभाचप्रतियोगितावच्छे. दकत्वाङ्गीकारेण । अन्यथा समवायानुयोगित्वसामान्याभावसमवायप्रतियोगित्वसामान्याभावैतदुभयवत्त्वं समचायानुयोगित्व रामवाअप्रतियोगित्वतदन्यतरत्वावच्छिन्न प्रतियोगिताकाभाववत्त्वं वाऽसंवन्धपदार्थ इति ज्ञेयम् । एतस्य जातिबाधकरवं कथमिति चेत् इत्थम् । जातिवाचक जातित्व जात्यधिकरणत्वान्यतरप्रका. मजूपा. च्छिन्नेवितरभेदकताया विशेषत्वेन रूपेण संभवन तादशनियमव्याघाताभावात् । नावि तृती यः अप्रसक्तप्रतिषेधापत्त: प्रकृतानुपयोगाश्च प्रमाणमपि नास्मिन्नियमे व्यक्तीक्षामहे तस्मात्सामान्या- श्रयस्येत्यादिनियमोपटम्भेन विशेषस्य जातिमत्त्वनिराकरणं गतिरमणीयमित्यस्माकं प्रतिभाति । व- स्तुतस्तु परमाणुपु परस्परव्यावर्तकतया विसपास्सिध्यन्तः अव्यावृसध न व्यावर्तक इति परस्परम- व्यावृत्तानां व्यावतकत्वासंभवेन तत्र व्यावर्त कान्तरापेक्षायां अनवस्थापत्त्या स्वत एव परस्परव्या वृत्ता. स्सिध्यन्ति स्वतो व्यावृत्तत्वज्ञ व्यावर्तकान्तरानपेक्षसिद्धिविषयपरस्परभेदकत्वं तच विशेषाणामेकजाती- यत्वेनोपपद्यते एकजातीयानां हि परस्परभेदः प्रत्यक्षतोऽवगन्तव्यः परस्परव्यावृत्तधमाद्वा न चेह् प्रत्य- क्षसंभवः परस्परव्यावर्तकधर्मस्तु अनवस्थितः एवंच विशेषाणां अव्यावृत्तत्वात् व्यावर्तकता न स्यात् । एवं च विशेषाणां रूपं व्यावर्तकान्तरानपक्षसिद्धिविषय परस्सरभेदकत्वरूपस्वतोव्यावर्तकत्वं परमाणुयु परस्परव्यावर्तकत्वमेव वास्तु विशेषाणां जातिमात्य बाधिवेति मन्यामहे । असंवन्धः समवायाभावः स च यदि प्रतियोगितासंबन्धन समवायाभावः तदा गगनादों जायभावप्र- संगः यद्यनुयोगितासंबन्धेन तदभावः तदा तेनैव सामान्य विशेषयोर्जातिमत्त्वधारणादन वस्थितिरूपहान्योः पृथग्जातिबाधकत्वं न स्यादित्यालोच्य प्रतियोगितानुयोगितान्यतररांबन्धेन समवायाभाव इत्युक्तवान्महादे- भः । प्रत्येक संबन्धावच्छिन्न प्रतियोगिताकाभाववयादयमतिरिक्तोऽभाव इति न वैयर्यशङ्का । यदि चान्यत. रत्वेन संबन्धानां न प्रतियोगितावच्छेदकसंबन्धता स्वाकियते तदा रामवायप्रतियोगित्वसमवायानुयोगित्वा- न्यतराभाव एव तथा अयं च समवायाभावयोजातिमत्त्वे बाधकः जातिवाचकत्वं चास्य तदभावव्याप्यवत्ताज्ञा- नमुद्रया तथाहि यत्र समवायानुयोगित्वं नास्ति न तत्र जातिवितुमर्हति तत्समवेतत्वासंभवात् तथाच समवा- यानुयोगित्वाभावस्य जात्यभावव्याप्यत्वे सिद्धे सुतरां तद्व्याप्यस्य समवायप्रतियोगित्वानुयोगित्वान्यतराभा- वस्य जात्यभावव्याप्यत्वामिति । अस्मद्गुरुचरणास्तु असम्बन्धो जातित्वे जातिमत्त्वे च बाधकः तथाहिं यथा समवायानुयो गित्वाभावो जायभावव्यायः तथा समवायप्रतियोगित्वाभावो जातित्वाभावव्याप्यः ततश्च समवायप्रतियोगित्वानुयोगित्वान्य तराभावस्य जातित्व जातिमत्त्वान्यतराभावव्याप्यत्वमक्षतमिति ता- दृशान्यतरत्वावच्छिन्नवत्ताज्ञानविरोधित्वं असंबन्धस्य तथाच व्यक्तदभेदादित्रयं जातित्वबाधकं अनवास्थ तस्य