पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामन्द्रीयसमन्विता । भ्रमणं रेचनं स्यन्द अर्बज्वलनमेव च । तिर्यग्यमनमप्यन्त्र गमनादेव लभ्यते ।। ७ ।। कर्माणि विभजते । उन्क्षेपणमिति ।। कर्मत्वजातिम्तु प्रत्यक्षसिद्धा। एवमुत्क्षेपणत्वादिकमपि । ननु भ्रमणादिकमपि पृथकर्म अधिकतया कुतो नोक्तमत आह । भ्रमणमिति ॥ ६॥ ७॥ सामान्यं द्विविधं प्रोक्तं परं चापरमेव च । द्रव्यादिनिकत्तिस्तु सत्ता परतयोच्यते ॥ ८ ॥ प्रभा. प्रत्यक्षसिद्धेति । चलतीति प्रतीतिविषयेत्यर्थः । भ्रमणादिकमपीति ॥ यत इत्यादिः अपिशब्दे. नोक्षपणत्वादिकर्मविभाजक्रपश्चान्यतमावच्छिन्नं गृह्यते । तथाच कत्क्षेिपणत्वादिपञ्चविभाजकधर्मान्यतमा- वच्छिन्नं भवतीति कृत्वा तादृशधमः यथा विभाजितं तथा कर्म भ्रमणत्वादिरूपपञ्चविभाजकधर्मा- न्यतमावच्छिन्नं भवतीति तादशधमैरपि कुतो न विभाजितमिति भावः । पृथक्कर्मेति ।। भवतीति शेषः । अधिकतयति || उत्क्षेपणन्वादिपञ्चविभाजकधर्मान्यतमभिन्नभ्रमणत्वादिपञ्चान्यतमवत्तयेत्यर्थः । कुतो नोक्तमिति ॥ कुतो न विभाजितमित्यर्थः । तथाच यतः भ्रमणादिकमपि पृथक्कर्म भवति ततः अधिकतया कुतो नोक्तमिति पूरणमिश्रितवाक्ययोजनया पूर्वोक्ता ों लभ्यत इति भावः । यद्यप्यूचं गच्छति अधो ग. च्छतात्यनुगतनत्यग्रेनोक्षे रणादीनामपि गमन वासिद्धयोरक्षेपणत्वादिगमनत्वान्तपञ्चधर्माणां परस्परवैयधि- करण्याभावेन विभाजकत्वासंभवात् पञ्चधा विभागोऽप्यनुपपन्नः तथापि स्वतन्त्रेच्छेन मुनिनोत्क्षेपण- स्वादिगमनत्वान्तपञ्चधर्मः विभजनात्पर्यनुयोगासंभव इति हृदयम् ॥ ६ ॥ ७ ।। मञ्जूपा. पृथगिति । उत्क्षेपणादिभिन्नमित्यर्थः । इदं च हेतुगर्भविशेषणम् । तथाच यस्माद्मणादिकं उत्क्षेप- णादिभिन्नं कर्म तस्मादधिकतया उत्क्षेपणत्वादिभिन्न विभाजकरूपेण कुतो नोक्तमित्यर्थः । मूले गमनादे- वेति । विभागवाक्यघटकगमनपदादवेत्यर्थः । लभ्यते वोध्यते । ।। ६॥ ७ ।। दिनकरीयम् प्रत्यक्षसिद्धेति । चलनाकारानुगतप्रत्ययवेधेत्यर्थः ।। अधिकतयेति ॥ कर्म विभाजकोपाधिभित्रं- मणत्वादिभिः । मूले गमनादेवेति । अथैवमुत्क्षेपणादीनामपि गमनेऽन्तभीवात् गमनादेव लाभे उत्क्षेपण. स्वादिभिरपि विभागोऽनुचितः नहि उत्क्षेपणादौ गमनत्वं नानुभाविकं ऊर्ध्वमधश्र प्रक्षिप्तलोप्टादावूर्ध्व गच्छ. ति अधो गच्छनीति प्रययादिति चेन स्वतन्त्रेच्छस्य मुनेनियोगपर्यनुयोगानहत्वादिति ॥ ६॥ ७ ॥ रामरुद्रीयम्. गमनादेवेति ॥ गमनपदादेवेति कारिकार्थः । लोटादाविति ॥ प्रामादिकोऽयं प्रन्थः । उरिक्षपतीति व्यवहारो हि वेतनेष्वे बानुभूयते न बचेनने लोटाद तस्मालोटादिनिष्ठगत्यनुकूलचेतनव्यापार एव उत्पूर्वक- क्षिपधातोरर्थः आश्रयत्वं आख्यातार्थ इत्यवझ्यमङ्गीकरणीयं तथा चाचेतने घटः प्रक्षिपतीति व्यवहाराभावेन लोष्टायचेतनक्रियायां गतित्वोपपादनस्य प्रकृतानुपयोगात् परं तु लोप्टादिक प्रक्षिपति चैत्रो गच्छतीति प्रत्य- यात् उत्तरदेशसंयोगानुकूलक्रियामात्रस्यैव गतित्वादित्येव लेखनीयमिति मन्तव्यम् । नियोगपर्यनुयोगति॥ अयमाशयः गतित्वं प्रकृते उत्क्षेपणादिभिन्नत्वे सयुत्तरदेशसंयोगानुकूलकियात्वमेव विभाजकतावच्छेदकत्वे- नाभिमतं तेन द्रव्यत्वपृथिवीत्वाभ्यामिव गतित्वोत्क्षेपणत्वाभ्यामपि विभागस्यानहत्वेऽपि न क्षतिः । नन्वेवं पृथिव्यन्यद्रव्यत्वादिना विभागापत्तिरिति चेत् । एतदाभप्रायेणैव नियोगपर्यनुयोगानहन्वादिलस्योत्तत्वात् । नियोगपर्यनुयोगी प्रश्ननिन्दे ॥ ६ ॥ ७ ॥ 13