पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-राम रुद्रीयसमन्विता । ऽतिरिक्तद्रव्यत्वे अनन्तावयवादिकल्पनागौरवं च स्यात् । सुवर्णस्य यथा तेजस्यन्त वस्त- थाग्रे वक्ष्यते ॥ ३॥ स्पर्शः सङ्ख्या परिमितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चापरत्वकम् ।। ४ ।। बुद्धिः सुखं दुःखमिच्छा द्वेपो यत्नो गुरुत्वकम् द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥ ५ ॥ गुणान्विभजते । अथ गुणा इति ॥एते गुणाश्चतुर्विंशतिसङ्ख्याकाः कणादेन कण्ठ- तश्चशब्देन च दार्शताः । तत्र गुणत्वजातिसिद्धिरणे वक्ष्यते ।। ४ ।। ५ ॥ प्रभा. स्समवायः अनुमितिविषयतयाङ्गीकृतः । इदं तम इति प्रत्यक्षे तु एकस्य निरुक्ताभावस्य विषयत्वस्वीकारे लाघवात् अतिरिक्तद्रव्यस्य विषयत्वस्वीकार एवानन्तावयवकल्पनारूपगौरवात् त्वदुक्तदृष्टान्तवैषम्येण निरुक्ता- भावस्य प्रत्यक्षविषयत्वमावश्यकम् । एवञ्च लाघवात् कृप्ताभावस्य प्रत्यक्षविषयत्वे सिद्धे उक्तप्रतीत्योः भ्रम • खकल्पनागौरवस्य फलमुखत्वेनादोषत्वादित्यभिप्रायः । ननु तमसस्तेजोऽभावरूपत्वेऽपि सुवर्णस्य पीतरूप- त्वेन द्रव्यत्वे सिद्धे अनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पृथिवीत्वाभावस्य पीतरूपबत्त्यने जलत्वादिमनस्त्वान्तान्य तमशन्यत्वस्य च सिद्धान्तत्वात् परिशेषानुमानेन तस्यातिरिक्तत्वं सिध्यतीत्यत आह । सुवर्णस्थति ॥ वक्ष्यत इति ॥ तेजोनिरूपणावसर इति शेषः ॥ ३ ॥ चतुर्विंशतिसंख्याका इति ॥ रूपत्वादिशब्दत्वान्तगुणविभाजकचतुर्विंशतिधर्मान्यतमधर्मवन्त इत्यर्थः । ननु मृदुत्वकठिनत्वादिरूपातिरिक्तगुणानां सत्त्वात् पृथक्त्वस्यान्योन्याभावरूपत्वाञ्चोक्तधर्माणामे कथं विभाजकत्वमित्याशङ्कायामुक्तार्थे सूत्रकारकणादसंमतिमाह । कणादेनेत्यादि ॥ रूपरसगन्धस्पर्शा- मञ्जूषा. वाऽऽलोकनिरपेक्षं चक्षुः कारणमित्यस्याऽलोकसंयोगावच्छिन्नत्वाविशेषितस्तमोवृत्तित्वावशेषितश्चक्षुस्संयोगस्त- मःप्रत्यक्षत्वावच्छिन्नं प्रति हेतुरित्यर्धकतया सिद्धान्तपक्षेऽपि तादृशग्रन्थसमर्थनं युज्यत एवेति बोध्यम् । नच कार्यकारणभावद्वयकल्पने गौरवं उपदर्शितयुक्त या द्रव्यत्वसिद्धौ उपदर्शितगौरवस्य प्रामाणिकत्वादिति तात्पर्यम् । भ्रमरूपेति ॥ नीलं नभ इति प्रतीतिवदिति शेषः ॥ ३ ॥ दिनकरीयम्. नीलरूपं तम इति कन्दळीकारमतं तन्न । इह महानन्धकार इति प्रनीतेरपि भ्रमत्वापत्तेः, तमो नीलं न नीलिमति प्रत्ययाच । ननु तमसोऽनतिरिक्तत्वेऽपि सुवर्णस्यातिरिक्तस्य द्रव्यस्य सत्वान्नवत्वव्याघातस्तदवस्थ एवेत्यत आह । सुवर्णस्येति ॥ वक्ष्यत इति ॥ तेजोनिरूपणावसर इति शेषः ॥ ३ ॥ कण्ठत इति ॥ “रूपरसगन्धस्पीः सङ्ख्याः परिमाणानि पृथक्तवं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुण' इति विभागसूत्रे सप्तदश कण्ठेनोक्ताः । चशब्देन सूत्रस्थ- च शब्देन गुरुत्वद्वत्वस्नेहसंस्कारधर्माधर्मशब्दाः समुचिताः । ते व सर्व एकतया चतुर्विंशतिगुणा इह व्य- बहता : । ननु चतुर्विशतो किं नाम गुणत्वं न च जातिविशेषस्तत्र प्रेमाणाभावादियत आह । तत्रेति ॥ गुणाष्वत्यर्थः। अग्ने गुणनिरूपणावसरे ।। वक्ष्यत इति ॥ द्रव्यकर्मभिनसामान्यवति या कारणता सा किंचिद्ध- रामरुद्रीयम्. मवेर मेव स्वीकार्यामिति वाच्यम् । तथा सति निरवयवत्वेन तमसो नाशासम्भवादिति भावः । इहेति ।। जलादावित्यर्थः । भ्रमत्वापत्तेरिति । जलादौ प्रकारीभूतनीलरूपविरहादिति भावः ॥ ३ ॥