पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शङ्करार्येण विरचिते नीवीसंज्ञके रूपावतारव्याख्याने' इत्यादि पठ्यते । तावता तदभेदोऽस्मज्जयमङ्गलाकारस्य न शङ्कितुं शक्यः, जयमङ्गलाप्रकरणसमाप्तिषु क्वचिदप्यस्य पारशवकुलोद्भवत्वाकथनात् । सर्वप्रत्ययमालाख्यस्य व्याकरणग्रन्थस्य कर्ता यः शङ्करार्यः स आत्मनो नामधेयं शङ्करार्यानुजत्वकीर्तनपूर्वं स्वग्रन्थे निबद्धवान्, जयमङ्गलाकारस्तु स्वनामख्यातेर्ग्रन्थगुणगौरवायत्तत्वविस्रम्भाद् भाष्यकारादिवत् स्वग्रन्थशरीरे क्वचिदपि स्वनामधेयं न निर्दिष्टवानिति नानयोः फल्गूदात्तस्वभावयोरैक्यं सम्भाव्यते || अनन्तशयनम् . त. गणपतिशास्त्री.