सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कास्वरी । निगृढमन्त्रसाधनक्षेपित विग्रह, जलनिधि रिव करालशङ्खमण्डलावर्तगतः, भगीरथ ईवासकृट्ट- गङ्गावतार, भ्रमर इवासकृदनुभूतपुष्करवनवासः, वनचरोऽपि कृतमहालयप्रवेशः, असं- यतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्वितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितनेत्र- द्वयोsपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । ग्रायेणाकारणमित्राण्यतिकरुणार्द्राणि रुँदा खलु भवन्ति सतां चेतांसि । यतः स मां तद्- वस्थमालोक्य समुपजातकरुणः समीपवर्तिनमृपिकुमारकमन्यतममब्रवीत् - 'अयं कथमपि ७४ - । petek साम्यमाह --निगूढेति | निगृहं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षपितः कृशतां नीतो विग्रहः शरीरं येन सः | पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः द्वशत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव | उभयोः साहक्ष्यमाह- करालेति । करालं यच्छलमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्यो यस्य स तथा | तादृशावर्तश्च महातपखिल- क्षणम् | पक्षे करालानि जियानि यानि शङ्खमण्डलानि पोडशावर्तवृन्दान्यावर्तः पयसां श्रम एते गर्ते अगा- धप्रदेशे यस्येति विग्रहः । भगीति | भगीरथः सगरप्रपौत्रस्त दिव | उभयोः सादृश्यमाह - असकृदिति । अराकृन्निरन्तरं होऽवलोकितो गजाया अवतारो घट्टचे येन सः । 'तीर्थावतारे' इति कोशः । पक्षे असकृत् दृट्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव | उभयोः साम्यमाह -- असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयी कृतः पुष्करं जलं तेन सहितं यद्वनं तत्र वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः | वनेति | वने चरतीति । वचनरः । एवंभूतोऽपि कृतो महालयेपूच्चैरतरगृहेषु प्रवेशो येनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि लयः । तदुक्तम् – 'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्त- नावस्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयेति । असंयतोऽसंय- मवानपि मोक्षार्थी मोक्षामिलापुक इति विरोधः | परिहारपक्षेऽसंयतोऽवोपीत्यर्थः । 'संदानितः संयतच' इल्यभिधानचिन्तामणिः । लामेति । साम सान्त्वनं तत्प्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निर- न्तरमवलम्वित आश्रितो दण्डो राजदेयद्रव्यं रोनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोग परोऽपि सततम बलम्बितो दण्डो यर्ष्टियेनेति विग्रहः | सुप्त इति । सुप्तोऽपि निद्वितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः । परिहारपक्षे सुष्टु शोभना ता जटा यस्येति विग्रहः । लक्ष्यं च - 'राजा राजार्चिताङ्ग्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्थ न भसितववलं यद्वपुर्भूपयन्ति | मा रामा रागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः स ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः ॥ इति शृङ्गारतिलकटीकायाम् । तथा 'सनालिका सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यकप्रकारेण निहितं स्थापितं नेत्रद्वयं लोचनद्वयं येनवंभूतोऽपि परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः | परिहार- पक्षे परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनस्विन्यां लोचनं