पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५७३ 'दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी | न जानाम्येव विस्मृतमरणा कियद्यावद- हमनेनानेकर्प्रकारं खलीकारदानैकपण्डितेन दग्धवेधसा परं दग्धव्या' इत्यभिधानैव धा- वित्वा हिया महाश्वेता मुँहाभ्यन्तरमविशत् । चित्ररथतनयापि सत्वरोपसृतसखी कदम्बकाव- लम्बितशरीरा तूष्णीमेच मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्बितशरीरो राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरःप्रधावितोदृष्टि: 'क मे वत्सः' इति पृच्छन्ती विलासवती । प्रविश्य च सह तयैव कान्त्याविरहितमुपरत सर्वप्रयत्नं सुप्तमिव तं पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीडस्तावद्विलासवती विधारयन्तीं म नोरमामप्याक्षिप्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभि: प्र- संवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिरादृष्टोऽसि । देहि मे प्रतिवचनम् | आलोकय सकृदपि मामनुचितम् । तात, तबैतदस्थानम् | उत्थायाङ्कोपगमनेन मे संपादय तनयोचितं स्नेहम् । न चानाकर्णितपूर्वी बाल्येऽपि त्वया मदूचनमद्य किमेवं विलपन्त्या अपि न झुणोषि। जात, केन रोपितोऽसि । एषा तोषयामि वत्सं पादयोर्निपत्य | पुत्र चन्द्रापीड, , 1 विधो नयनविन्दुर्लोचनविन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी | मन्दं स्वल्पं पुण्यं यस्याः सा।पुनः कीदृशी । दुःखमेकं केवलं भजतीयेवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव । विस्मृतं विस्मरणतां गतं मरणं मृत्युर्यस्याः सा | कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेक प्रकारं यथा स्यात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डितेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया | इत्यभिधानैवेति कथयन्त्येव ह्रिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्तरमविशद्दरीमध्यमा विवेश | चित्ररथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखी कदम्बकं तेनावलम्बितं स्तम्भितं शरीरं यस्याः सा तूष्णी- मेव मौनमेव मोहान्धकारमाविशन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्बर्योर्द्वयोः सत्योः शुकनासेनावलम्वितं धृतं शरीरं यस्यैवंभूतो राजाश्रमपदं विवेश प्राविशत्प्रवेशं चकार तदनु पश्चान्मनोरमयावल- म्विता पुरोऽग्रे प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः साक्व मे मम वत्स इति पृच्छन्ती प्रश्नयन्ती विलास- वती तथैव मनोरमयैव सह प्रविश्य च प्रवेशं कृत्वैव सहजया स्वाभाविकया कान्त्याविरहितं दीया सहितं कान्त्या सहितमुपरतो निवृत्तः सर्वः प्रयत्न उद्यमो यस्मात्स तम् । अत एवोत्प्रेक्षते | सुप्तमिव कृतनिद्रमिव शयननिद्रावश मिव पुत्रे सुते सूनौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन्न परापतत्येव पश्चादागच्छत्येव तारापीड- स्तावद्वलासवतीं विधारयन्तीं देहावष्टम्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत एव दविष्ठ एव प्रसा- रितं विस्तारितं बाहुलताद्वयं भुजवलीयुग्मं यया सारयेण वेगेनोन्मुक्तात एव ग्रान्ते जर्जराः शिथिलास्ताभिर्नयन- योर्जलधाराभिरश्रुसंतानैः प्रस्रवेण स्तनोद्गत दुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती सेचनं कुर्वन्ती | हे जात ICE carकतोsसि हे पत्र ·