सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । । चन्द्रापीडदेहाविनाश्प्रत्ययान्तरात्मना निवृत्य सावरणपर्याणवर्तिनी विलासवतीमवादीतू- देवि, दिष्ट्या वर्धसे | प्रियते सत्यमेव शरीरेण वत्सः । येन सकल एवायं तच्चरणकमलानु- जीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति । सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारि- तावरणसिचयाञ्चला निश्चलया दृष्ट्याचिरमिवालोक्य तनयनिर्विशेषं राजपुत्रलोक मेविच्छि- धराप धैर्यमुमुच्योचैरारटितवती– 'हा वत्स, कथं सहपांशुक्रीडितस्यैतावतो राज- पुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति । तथा रटन्तीं तु तां समाचास्य दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोत्तमाङ्गं मेघनादम् 'इतो ढौकस्ख' इत्याँदिइयोद्दि- श्याप्राक्षीत्-‘मेघनाद, कथय को वृत्तान्तो वत्सस्य' इति । स तु व्यज्ञापयत् – 'देव, चेत- नाविरहाच्चेष्टामात्रकमेवापगतं शरीरे पुनर्ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजा- यते' इति । राजा तु तच्छ्रुत्वा जीवितप्रतिलम्भे समुपजातप्रत्याशः श्रुतं देव्या मेघनादस्य वचनम् । तदेहि । चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम् । पश्यामो वत्सस्य वदनम्' इत्य- भिधान एवाभिवधितगतिविशेषया करेण्वा महाश्वेताश्रममगमत् । अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरः प्रकीर्णतारमुक्तानुकारिनयनबिन्दुसं- स्तरात्मना निठ्ठल सावरणं यत्पर्याणं पत्ययनं तत्र वर्तिनीं विलासवतीमवादीत् । किं तदित्याह हे देवि, त्वं दिट्या भाग्येनादृष्टेन वर्धस एवसे । येन कारणेन वत्सः सत्यमेव शरीरेण प्रियते धार्यते । येन हेतुना रा- कल एवं समग्र एवायं तस्य वत्सस्य चरणकमलं पादसरोज मनुजीवतीत्येवंशीलो राजपुत्रलोको नृपसुतजन- स्तस्य चन्द्रापीडस्य चरणमूलादागत इति । सात्विति | सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरे- वोत्सारित मूवीकृतमावरण सिचयस्याच्छादनस्य वस्त्रस्याञ्चलं प्रान्तं यथा सा | 'सिचयो बसनं चीराच्छादाँ निक्चेलवाससी | पटप्रान्ताञ्चलोऽस्यान्ते' इति हैम: | निश्चलया निर्निमेषया मेषोन्मेपरहितया दृष्टया दशा- चिरमिवाबहुकालसदृशं तनयनिर्विशेषं यथा स्यात्तथालोक्य निरीक्ष्याविच्छिन्नात्रुटिताश्रुधारा यस्यामेवंविधा पि धैर्य साहसमुन्मुच्य संयज्योच्चैर्गाढस्वरेणात्यर्थमारटितवती रोदनं कृतवती । तदेव दर्शयन्नाह - हा इति । हा इति खेदे | हे वत्स हे पुत्र हे सुत, कथं सहपांशुक्रीडितस्य सार्धं रजःकालितस्यैतावत इयतो राजपुत्रलोक- स्य नृपसुतजनस्य मध्येन्तरा त्वमेव भवानेवैको न दृश्य से त्वत्सदृशो न दृश्य से न हंग्विषग्रीभवसि | इत्यमुना प्रकारेणानेकप्रतीकारेण तथा रटन्तीं रुदन्तीं तु तां विलासवतीं समाश्वास्याश्वासनां कृत्वा राजा तारापीडो दुरत एव दविष्ट एव दूरस्थ एव सर्वलोकेन समं सर्वजनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढाकस्खेति आनीहीत्यादिश्येत्युक्त्वोद्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षीदपृच्छत् । तदेव दर्शयन्नाह --- संघति | हे मेघनाद, कथय ब्रूहि । वत्सस्य पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो विज्ञापय द्विज्ञप्तिमापत् | हे देव हे स्वामिन्, चेतनाविरहाज्ज्ञानाभावादज्ञानभावाचेष्टामात्रकमेव केवलं चलनादिकि- यामात्रं शरीरे देहे पुनरपगतं निवृत्तं ज्ञायते | दिवसे दिवसेऽप्यधिका कान्तिः प्रतिः समयते सम