पूर्वभागः। ५७ माकुलाकुल चारिणां च पत्ररथानां कोलाहलेन, रूपानुसारधावितानां च मृगयूथानां युगप- दतिरभसपादपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानां च मदकलकुररकामिनीकण्ठकूजितकलशवलितेन शरनिकरवर्षिणां धनुषां निनादेन, पनाहति- कणितधाराणामसीनां च कठिनमहिषस्कन्धपीठपातिनां रणितेन, शुनां च सरभसविमुक्तव. घरध्वनीनां वनान्तरव्यापिना ध्वानेन सर्वतः प्रचलितमिव तदरण्यमभवत् । अचिराच प्र. शान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधरवृन्दानुकारिणि मथनायसानोपशान्तवारिणि सागर इव स्तिमितीमुपगते कानने मन्दीभूतभयोऽहमुपजातकुतूहल: पितुरुत्सङ्गादीपदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारकः शैशवाकिमिदमित्युपैजातदि- दृक्षस्तामेव दिशं चक्षुः प्राहिणवम् । अभिमुखमपितञ्च तस्माद्वनान्तरादर्जुनभुजदण्डसहस्रविप्रकीर्णमिव नर्मदाप्रवाहम्, अनि- तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चा- रिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां चरणशब्देन क्रमणोत्थरवेण। कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगप- दिति । युगपत् एकदेवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः । बलवद्रव्याघाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह-कम्पमिवेति । जनयतोत्पादयता। पुनः केन । धनुषा निनादेन चापशब्देन । धपि विशेष यन्नाह-कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्पिता ज्या गुणो येषां तानि तथा तेपाम् । शरेति । शराणां वाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि तेषाम् । चापध्वनि विशेषयन्नाह-भदेति । भदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्ट- कूजितं तस्य कलो मधुरो ध्वनिस्तेन शवलितेन मिश्रितेन । पुनः केन । असीति । असीनां खजानां रणि. तेन शब्दितेन । असीन्विशेषयन्नाह-पवनेति । पवनस्य समीरणस्याहत्याहननेन कणिताः शब्दिता धारा येषां ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्वा. नेन शब्देन । शुनो विशिष्टि- सरमसेति । रारभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेपाम् । अचिराञ्चेति । अचिरात बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्द सागर इव समुद्र इव स्ति- मिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयनाह-मथनेति । मथनस्य विलोडनस्याव- सानं पर्यन्तस्तेनोपशान्तं खस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनित- शुन्या ये जलधरा मेघास्तेषां वृन्दं तदनुकतु शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्त भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्य यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्कोडा- दीषदिव निष्क्रम्य किंचिदिवोन्नतो भूखा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७
दिखावट