उत्तरभागः । ९१६९ रभ्य क्रियतां कार्यतां च कर्म | न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किं- चिदपि । उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीहशेनैव प्रकारेणोपजाता।' इत्युक्तवति शुक्र- नासे सशोक एव राजा प्रत्यवादीत् –'सर्वमेतद्यदार्येणाभिहितं कोऽन्योऽवबुध्यते । केन वाप- रेण वयं परिबोधनीयाः | कस्य वापरस्यास्माभिर्वचनं करणीयम् । किंतु तद्वत्सस्य मे वैश- उपायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्यदन्तरयति । तदेव पश्यामि । तदेव शृणोमि । तदेवोत्प्रेक्षे । तदेवमप्रत्यक्षिते वत्सस्य वदने संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् | यन्त्र च ममायमीदृशः प्रकारस्तत्र देव्याः परिबोधनं दूरापेतमेव | तद्गमनादृतेऽन्य उपाय एव नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्य: ।' इत्युक्तवति तारापीडे चिरात्तनय - पीडया तत्पुर: परित्याजितलजं विलासवती कृताञ्जलिरुचैर्जगाद – 'आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् | दीयतां प्रयाणम् | उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय | दुःखापनोदार्थ स्फुटनमङ्गीकृतमासीत् | तर्दपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि वैरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवितास्मि । न पुनर सह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति | तद्स्य पुनराशानिर्बन्धनस्य सर्वात्ययनिवारणोपा- जनकं शुभकारकं श्रूयत आकर्ण्य ते ज्ञायतेऽवबुध्यते वा, तत्तदद्यैवारभ्याय दिनात्प्रभृति क्रियतां विधीयताम् | कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि । खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे | वैदि कानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं वर्तते कष्टतरं वर्तते । अपि चेति युक्तयन्तरे। तयोः कृच्छ्रलव्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वोक्तहेतुना उपजातोत्पन्ना । इत्युक्तवति शुकनासे सशोक एव राजा तारापीडः प्रत्यवादीत्प्रत्यव्रवीत् । सर्वमेतद्यदार्येण भवतामिहितं प्रतिपादितं तत्कोन्योऽवबुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिवोधनीयाः परिवोधयितुं योग्याः समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम्। किंत्वित्यव्ययमङ्गीकारे स्वीकारे । तन्मे मम वत्सय वैशम्पायनदुःखाहृदयस्य स्फुटनम- ग्रतो दृष्टिलग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव शृणोम्याक्रर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तदप्रत्यक्षिते परोक्षे च वत्सय वदने सत्यात्मनः संस्तम्भ- मेव कर्तुं न शक्नोमिन समर्थो भवामि | यत्र च ममायमीदृशः प्रकारतत्र देव्या विलासवत्याः परिबोधनं दुरा- पेतमेव । मध्यप्रवुद्धे तस्याः प्रवोधः कुतः स्यादित्यर्थः । जीवितसंधारणाय तत्र गमनादृतेऽन्योऽपर उपायो नास्ति । इत्येवमार्योऽवधारयतु निश्चिनोतु । इत्युक्तवति तारापीडे चिराद्वहुकालात्तनयपीडया सुतार्ला तत्पुरस्तरय शज्ञः पुरोऽग्रे परित्याजिता दूरीकृता लज्जा त्रपा यथा स्यात्तथा विलासवती कृताञ्जलिर्नियोजित करकमलोचैर्ज- गादोवाच । हे आर्यपुत्र, यद्येवं वर्तते तथापि किमपरं विलम्बितेन विलम्बकरणेन । वयं निर्गता एवेतो निः- सृता एव । यतः प्रयाणं ग्रस्थानं दीयताम् । वत्सस्य दर्शनागावलोकनाय मे मम हृदयं वक्ष उत्ताम्यत्युत्पत्तिदुःख- रो •Frerern Tafir intr-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६६
दिखावट