५६८ कादम्बरी । । रायां वसुदेवस्य । सन्मनुष्येषु देवतानामुत्पत्तिर्नैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देवः । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमन्त्रीसंभावनी- यम् | अपि च गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोर्नास्त्येव संदेह : | विनष्टयोः शरीरस्या- विनाशः कैथं कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्रा खिललोकप्रत्याख्यौतप्रभावममूर्तमेवैकं कार- णमावेदितम् । तचन्द्रमसि विद्यत इत्येषास्त्येव वार्ता | तत्सर्वमेत दित्यमेवावगच्छतु देवः । अन्यच्च तादृशाकार कान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्न चिंराच्छापावसाने " निर्वर्तितगन्धर्वसुतोद्वाहमङ्गलस्य गलन्नयनपयसो वध्वा सह पादयोः पततः पुत्रत्वमुपगतस्य चन्द्रापीडनाम्नान्तरितस्य लोकपालस्येव चन्द्रमसो दर्शनेनो जन्मकृत- मेव संतापं परित्यक्ष्यति देवः । तयोरेवं शापोऽस्माकं पुनर्वर एव । तदस्मिन् वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्य: । मङ्गलान्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिस- र्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्ध्यताम् । अकुशलमपि यमनियमकष्टव्रतोपवासा दिना तपःक्लेशन क्षयमुपनीयताम् । अपरमपि यद्यदेवंगते श्रेयस्करं श्रूयते ज्ञायते वा तत्तदद्यैवा- 1 मनुष्येषु नरेषु देवतानां देवानामुत्पत्तिर्निष्पत्तिनैवासंभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परि हीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः सकाशात्कमलनाभा चन्द्रमाः शशाङ्कश्चन्द्रो. ऽतिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयम संभाव्यम् | अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वंश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्द्वयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः । विनष्टयोस्तयोः कथं शरीरस्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रापीहाप्यखिललोकेपु समग्रलोकेषु प्रल्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् । तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्यमेवेति देवो- ऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेथुतेरखिललोकस्य समग्रजनस्याहादकारिणः प्रमोदजननस्यानन्द- कारकस्यान्यत्रैव संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैर्न चिराद्वहुकालेन शापस्याक्षेपवचनस्या- वसाने प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्वर्या उद्वाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षरनयनयोर्लोचनयोः पयो जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्र- त्वं सुततामुपगतस्य प्राप्तस्य चन्द्रापीड नाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोमयमवरुणकुवेरस्येव चन्द्र- मसञ्चन्द्रस्य दर्शनेनावलोकनेन निरीक्षणेना जन्मनः कृतं जन्ममर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतुत्वा: रसंतापं पापं देवः परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्द्वयो श्चन्द्रापीडपुण्डरीकयोरेवं शापोऽस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पम देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्य भिधार्यन्तामभिघ्रियन्ताम् । युष्माभिरभिमतदेवताया इष्टवाञ्छितदेवता-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६५
दिखावट