पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५५९ श्रमस्य पदन्या- पतिमरणशोकादशन क्रियैव परित्यक्ता | न विद्म एवं कथं सा जीवति' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानानध्यै दत्तवचसो नासाग्रस्थितमन्युगर्भदृष्टीनाविष्टानिवाध्वश्रमनिःसहा- ज्ञानपि पदाकृष्टिसंभावितोद्य मायासितयागत्या गच्छतश्चातिमलिनपटचराच्छादितानसंस्का- रमलिनकाया नैनेकोद्वद्भाध्वधूलिपरुषमूर्धजान्ध्वजानिवाध्वक्लेशस्योंश्रयामिव सानिव दौर्मनस्यस्यावासानिव प्रवासस्य संदर्भानिव सर्वदुःखानां दूरत एव त्वरितकसमेतां- स्ताँलेखहारकान् । आलोक्य तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेपामाहानायादिदेश | अनन्तरं चातर्कितापतितदर्शनद्विगुणितदुःखावेगान्मुषितानिवोन्मुक्ता निवेन्द्रियैर्दारूमया निव शून्यशरी- रान्निर्जीवानिवोपसर्पतः पुरस्तात्पतन्तीव बाप्पान्धा साध्वसस्खलितचरणकमला कतिचिद्रत्वा पदानि गद्गदत्तरमुचैरकृतप्रणामानेवावादीत् – 'भद्राः कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किंमँपि कथयति मे हृदयमंप्रत्ययमेवाश्रयते । वत्सो दृष्टो वा न भवद्भिः इत्येवं पृष्टास्तु ते सहसागतबाष्पवेगमवनि निवेशितोत्तमाङ्गाः प्रणामापदेशेनोत्सृज्य कृच्छ्रादि- वाभिमुखमुन्नमितवदना व्यंज्ञापयन्–'देवि, दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः। शेषमेष 19 नूतनः पतिमरणशोको भर्तृमृत्युशुक्तस्मादशनक्रियैव भोजन विधिरेव परित्यक्तोज्झिता । न विद्म न जानीम ए- वममुना प्रकारेण साकथं जीवति कथं प्राणिति । आदिदेशेत्यन्वयस्तु पूर्वमेवोक्तः । इतो लेखहारकाविशेषय- नाह - नासेति । नासाग्रे नासिकाप्रान्ते संस्थितो मन्युः दैन्यं गर्भे यस्या एवंविधा दृष्टीदृशो येषां ते तथा तान् आविष्टानि भूतग्रस्तानि वाध्वश्रमेण निःसहान्यसक्तान्यङ्गानि येषामेवंविधानपि पदानामाकृष्टिराकर्षस्तेन संभावितोऽनुमितो य उद्यम उद्योगस्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रजतोऽतिमलिनं यत्पटचरं जीर्ण- वस्त्रम् । ‘पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौं' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरेणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् | लग्नधूलिसाभ्यादुत्प्रेक्षते - अध्वंक्लेशस्य मार्गखेदस्य ध्वजानिव चिह्नानिव | 'ध्वज - चिह्ने पताकायां ध्वजः शौण्डिकशेफयोः' इति विश्वः | श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्याप्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य परदेशगमनस्यावासानिवालयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव | अनन्तरं चेति । तदाह्रानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखावेगो येषां ते तथा तान् । मुषितानिव चौरैर्लुण्ठितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्तानिव, दारुमयानिव काष्ठाने- र्मितानिव, शून्यशरीरान्निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव संसन्तीव वाष्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्यन्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलनां प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गला गद्गदतरं यथा स्यात्तथा उच्चैर्वाढस्वरेणाकृतप्रणामानेवा- विहितनमस्कारानेव तानवादीत् | भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत | इदं तु मे