पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | । धरागमः | तुरगष्पृष्ठगतस्य मन्ये वहत एवास्यापकान्तस्त्वरितक एतद्वेति, किमनेन वेदिते- नापि । एतत्कथयतु यदर्थमयं क्लेशः कृतो युवराजेन । से दृष्टो वैशम्पायनः प्रत्यानीतो वा । मिलितोऽस्य पत्रलेखासहितो मेघनादः । दैत्तः कथं कश्चिदपि संदेशो देववर्धनेन । मे मित्र- मेवातावद्यारभ्य रामसिकतयैव विनाशं बलाद्द्वतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्ता पृच्छन्नपि | जीवस्यसावस्य वाजी यो युवराजेन प्रसादीकृतः । प्रसीदत | सादिनां प्रथमस्य पृथुवर्मणो मातुलस्य में कथयत वार्ताम् । उत्प्रेक्षामहे महानश्ववारैरनुभूतः क्लेश इति । कुशलं महाश्वपतेरंश्व सेनस्य । श्रशुरोऽसावस्माकम् । विस्मयः कृतोऽस्मत्पित्रोपि, यचिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ युवराजभवने दृष्टो भवद्भिता मे भर- तसेन: । सपरिजनस्य मेनापतेर्भद्रं भद्रसेनस्य | सेवाव्यसनी सूनु कुमारवर्मा । तंत्र च लगतिबलाधिकृतस्य का वार्तावन्ति सेनस्य | रोषितस्तेनासीन्नासीरार्थं युवराजः राजकुले कः प्रसादवित्तो 'वर्धनो मान्यते वा । केन वा किं लब्धमेतावद्भिर्दिवसैः | रॉजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्वमेवान्यत् | येन दृष्ट: स कथयतु सर्वसेनसूनोर्वी- रसेनस्य वार्ताम् । पितर्युपरते प्रथममेव स प्रविष्टो यात्राम् । मात्रास्य दुःखान्तरितप्रत्यय- 1 वातिवाहितः कुत्रातिक्रान्तः अहं च मन्येऽस्य युवराजस्य तुरगपृष्ठगतस्याश्वारूढस्य वहत एवं व्रजत एवा- पक्रान्तो गतो वर्षासमयः (?) त्वरितक एतत्पूर्वोक्तं वेत्ति जानाति । अनेन वेदितेनापि ज्ञातेनापि किम् । एत- न्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेतोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽव- लोकितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखासहितो मेघनादो मिलितः संघटितः । देववर्धनेन नाम्ना पुंसा कश्चिदपि संदेशो वाचिकं कथं दत्तो वितीर्णः । अद्यारभ्याद्यप्रभृत्यसौ मे मम मित्रं वर्तते । रामसिकतयैवानालोचितवृत्त्यैव वलाद्धठाद्विनाशं बलात्पाथेयागतस्य प्राप्तस्य बालधर्मणो वत्सस्य पु त्रस्य वार्ता किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोस्येव । असौ जीवति प्राणित्यस्य युवरा- जेन चन्द्रापीडेन यो वाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत | सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य मातृभ्रातुर्वार्ता प्रवृत्तिं कथयत । उत्प्रेक्ष्यामह आशङ्कयामहेऽश्ववारैः सादिभिर्महान्भूयान्क्लेशोऽनुभूत इति । महाश्वपतेर्महाश्वसाधनाधिपतेरश्वसेनस्य कुशलं भद्रं वर्तते । अस्माक- मसौ श्वशुरो भवति । अस्मत्पित्राप्यस्मदीयजनकेनापि विस्मयः कृतः, भवतां हस्ते यत्किचिचिह्नकमप्यभि- ज्ञानकमपि न ग्रहितं न प्रेषितम् । आहितः स्थापितो भरो भारो यस्मिन्नेवंविधोऽसौ युवराजभवने भवद्भि- भ्रता मे भरतसेनो दृष्टोऽवलोकितः । सपरिजनस्य सपरिच्छदस्य सेनापतेर्भद्रसेनस्य भद्रं वर्तते । सेवाव्यसनी कुमारवर्मा मे मम सूनुः पुत्रः । तत्र चलगतिबलाधिकृतस्यावन्ति सेनस्य का वार्ता किंवदन्ती । तेनावन्तिसेनेन नासीरार्थमग्रयानार्थं युवराजो रोषितः कोपित आसीत् । 'नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम्' इति हैमः । Fea को वा मान्यते पज्यते वित्तं स्यै as yaaru:/