उत्तरभागः | २९ दिवस निर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् | दृष्ट्वा च तं तादृशं निःस्पृ- हाप्यात्मनि परं भयमुपगतवती चेतस्यैचिन्तयम् - अहो, केष्टमापतितम् । यैद्ययमुन्मा- दादागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यह्तकं शरीरमुत्स्रष्टव्यम् | तैच्चिरादेवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां में यातं प्राणसंधारणम्, इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याव्रवीत् 'चन्द्रमुखि, हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमा: । तच्छरणमागतोऽस्मि | रक्ष मामशरणमनाथमार्तमँप्रतीकारक्ष- ममात्मना त्वदायत्तजीवितम् । शरणागतपरित्राणं हि तपस्विनामपि धर्म एव । तद्यदि मामात्मप्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशिरंकराभ्याम्' इति । अहं तु तदाकर्ण्य धित्युित्तमाङ्ग निर्गतज्वालेव रोपानलेन निर्दहन्तीव तम्; उन्मिषद्वाष्प- स्फुलिङ्गया दृट्यातदातैर्जयतीव, आपादतलादुत्कम्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतय- माना क्रोधावेगरूक्षाक्षरमवदम् – 'औः पाप, कथमेवं वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम्, अवशीर्णा वा न सहस्रधा जिह्वा, विह्वलतां न गता वा वाणी, नष्टानि वा नाक्ष - राणि । मन्ये च न सन्त्येव तेऽस्मिन्दारीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्च- शेषो यस्यैवंभूतेन । दिवससदृशेनेत्यर्थः । चन्द्रातपेन शशाङ्कलोकेन विभाव्यमानं प्रकाश्यमानम् | अहं तं यु- वानमद्राक्षमित्यन्वयस्तु पूर्वमुक्तः | तं वैशम्पायनं तादृशं तथावस्थं दृष्ट्वा च निरीक्ष्य च निस्पृहापि गततृष्णा- प्यात्मनि परं भयमुपगतवती प्राप्तवती इति चेतसि चित्तेऽचिन्तयं चिन्तितवती । अहो इति खेदे | कष्टं कृच्छ्रमापतितम्, यद्ययं युवोन्मादादागत्य मां पाणिना स्पृशति स्पर्श करोति, तदा मया महाश्वेतयेदमपुण्य- इतकं शरीरमुत्स्रष्टव्यमुज्झितव्यम् । तत्तस्मात्कारणाचिराचिरकालेन देवस्य पुण्डरीकस्य पुनदर्शनप्रत्याशया पु. नरवलोकनवाञ्छया दुःखादसातादुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे मम व्यर्थतां नि- ष्फलतां यातं प्राप्तम् । इत्येवं विचिन्तयन्तीमेव ध्यायन्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवो. चत् । किं तदित्याह – हे चन्द्रमुखि हे शशाङ्कमुखि, मामयं कुसुमशरः कामस्तस्य सहायः साहाय्यकारी चन्द्रमा कुमुदवान्धवो हन्तुं व्यापादयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राणमनाथम- नीश्वरमार्तं प्रपीडितमप्रतीकारक्षममप्रतिक्रियासहं मां रक्ष त्राहि | त्वदायत्तं जीवितं प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपखिनां तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्प-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२६
दिखावट