सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ कादम्बरी । तेषु शरीरस्थितिकरणायोदतिष्ठत् । निर्वर्तितशरीरस्थितिं च मौहूर्तास्ते पुनः प्रविश्य शनै- र्न्यवेदयन्– ‘कृतोऽस्माभिर्देवादेशः सिद्धश्च तनयविरह विक्लव तयार्यशुकनासस्य । ततिक्रान्ते श्वस्त नेऽहनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तै: 'साधु कृतम्' इति मुदितचेतास्तान- भिष्टुय दृष्टिविषयवर्तिनीमेव कादम्बरीं च वैशम्पायनं च मन्यमानोऽप्रैविष्टायामेव पत्रले- खायां परापतामी त्यैप्रप्रधावितेनावधारयंश्चेतसा चतु:समुद्रसारभूतानिन्द्रायुधरयानुगामिन- स्तुरंगमान गणेया नवगणित तुरंगमगमनखेदानुत्साहिनो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनीं कथंकथमप्यस्थात् | अथानुरक्तकमलिनी समागमाप्राप्तिसंतापादिव समं दिवसेनास्तमुपगतवति तेजसांपती, तेजःपतिपतनाच्चितानलमिव संध्यारागमपराशया सहविशति पश्चिमे गैंगनभागे, संध्यान- लस्फुलिङ्ग निकर इव स्फुरति तारागणे, दिवस विरामान्मूर्च्छागमेनेव तमसा निमील्यमानेषु दियुखेषु, दिवासाभिमुखमुखरेपु वियद्वियोगदुःखादिव कुँतान्तप्रलापेषु वयःसमूहेषु जनित- प्रकाशं जन्मैवालोक्य दोषागमं निरालोकं गर्भमिवतमः प्रविष्ठे पुनर्जीवलोके, निजालोकाद्वि- काशित पूर्व दिग्वधूवदने जन्मान्तरागत इवोदयगिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भग- १ भवेदिति । देवः प्रमाणं यथा भवदनुशासनमित्यभिधायेत्युक्त्वा तेषु गणकेषु गतेषु प्रयातेषु सत्सु च शरीर- स्थितिकरणाय देहव्यापारकृत उदतिष्ठदुत्थितो बभूव । निवर्तिता संपादिता शरीरस्थितिर्येनैवंभूतं तं पुनस्ते मौहूर्तिकाः प्रविश्य प्रवेशं कृत्वा शनैर्मन्दं न्यवेदयन्विज्ञपयन् । अस्माभिर्ज्योतिर्विद्भिर्देवस्य भवत आदेशो निर्देशः कृतो विहितः। तनयस्य वैशम्पायनस्य विरहो वियोगस्तेन विक्लवतया विलतयार्यशुकनासस्य च सिद्धो निष्पन्नः । ततस्तस्माद्धेतोरतिक्रान्ते व्यतीते श्री भवः वस्तनस्तस्मिन्नहन्यागामिदिवसे रात्रौ निशायामितो. ऽस्मात्प्रदेशाद्देवेन भवता प्रस्थातव्यं चलितव्यम् । तैर्गणकैरित्या वेदित इति ज्ञापिते साधु कृतं शुभं विहित मिति मुदितचेताः प्रमुदित मनास्ता ज्योतिर्विदोऽभिष्टुत्य स्तुतिं कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव काद- म्बरीं वैशम्पायनं च मन्यमानो ज्ञायमानोऽप्रविष्टायामेवाप्राप्तायामेव पत्रलेखायामहं परापतामि गच्छामी- त्यग्रप्रथावितेन पुरस्तात्त्वरितगत्या चलितेन चेतसा खान्तेनावधारयन्निश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनि धिपु सारभूतान्हृद्यभूतानिन्द्रायुधस्य रयो वेगस्तस्यानुगा मिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरंगमानश्वानगणितोऽव- मानितस्तुरंगमेनाश्वेन गमनं चलनं तस्मात्खेदो यैस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतान्निरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोऽनन्यकर्मा तं दिवसमेकां च यामिनीं कथंकथमपि महता कष्टेनास्थात्तस्थौ । अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समागमः संयोगस्तस्याप्राप्तिरलव्धि- स्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसांपतौ श्रीसूर्येऽस्तमुपगतवति ग्राप्तवति सति । तेजःपतिपतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह -- अपराशया पश्चिमया सह पश्चिमे गगनभागे चितानलमिव चितावह्निमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फुलिङ्गा अग्निकणास्तेषां निकरे समूह इव