पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । नायानुमोदितः । तद्यातु । वरमावाभ्यां कतिपय दिवसाननयोरप्यदर्शनकृतन्क्लेशाननुभूतान्न पुनरस्य वैशम्पायनावलोकन दुःखदीनं दिने दिने वदनमीक्षितुम् । तदुत्तिष्ठ । 'गच्छावो गम- नसंविधानाय वत्सस्य चन्द्रापीडस्य ।' इत्यभिधत्येव मनोरमां हस्ते गृहीत्वोत्थाय चन्द्रापीडे- नानुगम्यमाना निजावासमयासीत् । चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृहमगात् । तत्र चापनीतसमायोगो गमनायोत्ताम्यता हृदयेन गणकानाहूय रहस्या- ज्ञापितवान् - 'यथा विना पॅरिलम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते ताताय वा दिनमावेदनीयम्' इति । एवमादिष्टास्ते व्यज्ञापयन्–'देव, यथा सर्व एव ग्रहा: स्थिताः, तथास्मन्मतेन देवस्य गमनमेव वर्तमानेन शस्यते । अपरमपि कर्मानुरोधाद्राजेच्चैव कालः । तेत्रापि न कार्यमेवाहर्निरूपणया | राजा कालस्य कारणम् | यस्यामेव वेलायां चि- संवृत्तिः सैव बेला सर्वकार्येषु' इति विज्ञापित मौहूर्तिकैः पुनस्तानत्रवीत् - 'तातेनैवमादिष्ट मिति ब्रवीमि । अन्यदात्यन्तिकेषु कार्येषु कार्यपराणां अतिक्षणोत्पादिषु च दिवस निरूपणैव कीदृशी | तत्तथाकथयिष्यत यथा व एव मे गमनं भवेत्' इति । 'देवः प्रमाणम्' इत्यभिधाय गतेषु च ५०३ मित्यर्थः । मन्ये इति । अहं मन्ये जानामि । एतदेव पूर्वोक्त मेवाकलय्याकलनां कृत्वायं चन्द्रापीडो गमनाय यात्रायै अनुमोदितोऽभ्यनुज्ञातः । तत्तस्मात्कारणाद्यातु व्रजतु | आवाभ्यां मनोरमाविलासवतीभ्यां कतिपय दिवसान्यावत् । अनयोरपि चन्द्रापीडवैशम्पायनयोरप्यदर्शनकृतानवलोकितज निताननुभूताननुभवविषयीकृता- न्लेशान्विषादान्वरं शुभम्, परं वैशम्पायनस्यानवलोकनमनिरीक्षणं तस्माद्यदुःखं कृच्छ्रं तेन दीनं सकरुणमस्य चन्द्रापीडस्य दिने दिने वदनमाननमीक्षितुं न पुनर्वरं शुभम् । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । वत्सस्य चन्द्रापीडरय गमनसंविधानाय प्रस्थानसामग्र्यै आवां गच्छावो व्रजाव इत्यभिधती कथयन्त्येव मनोरमां हस्ते पाणौ गृहीत्वादायोत्थायोत्थानं कृत्वा चन्द्रापीडेना नुगम्यमानानुयायमना निजवासं स्वभवनमयासीद- गात् । चन्द्रापीडोsपि मातुर्जनन्याः समीपे गमनालापेनैव यात्रावार्तयैव क्षणमिव स्थित्वा गृहमगादगमत् । तत्र तस्मिन्गृहेऽपनीतो दूरीकृतः समायोगः संबन्धो येनैवंभूतो गमनाय प्रस्थानाय हृदयेन स्वान्तेनोत्ताम्यतो- तपता गणका ज्योतिर्विद आहूयाकार्य रहस्येकान्त आज्ञापितवानाज्ञां दत्तवान् । किमाज्ञापितवानित्याशये. नाह - यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भवति, तथा भवद्भिर्युष्माभिः पृच्छयत इत्या- र्यशुकनासाय ताताय वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्वि- ज्ञप्तिं चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह -देव इति । हे देव हे स्वामिन् यथा येन प्रकारेण सर्व एव ग्रहा: सूर्यादयो लभे स्थितास्तथा तेन प्रकारेणास्मन्मतेन देवस्य भगवतो गमनमेव प्रस्थानमेव वर्त- TTT TIT