पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४८१ 9 करतलादेवैवमाच्छिद्य दैवेन नीतम्' इत्यभिदधानश्च कौतुकात् 'किमेतत् येनैवं भाषसे । । नायासि देवस्य चन्द्रापीडस्य समीपम्' इत्यस्माभिः पुनःपुनः पृष्टोऽप्यभ्यधात्- 'लज्जेऽह- मेवं वक्तुम् । तथापि शपामि वयस्यचन्द्रापीडस्यैव जीवितेन, यदि किंचिदपि जानामि यत्केन कारणेन न शैक्नोम्यतो गन्तुमिति | अपि च भवतामपि प्रत्यक्ष एवायं वृत्तान्तः । तद् व्रजन्तु भवन्तः' इत्युक्त्वा तूष्णीमभूत् । मुहूर्तादिव चोत्थाय तेषु तेषु रम्यतरेषु तरुत- लेपु लैतागहनेषु सरस्तीरेषु तस्मिंश्च देवायतने किमपि नष्टमिवान्विष्यन्ननन्यदृष्टिभ्राम | भ्रान्त्वा च चिरमिव विन्नान्तरात्मा सनिर्वेदमूर्ध्वं निःश्वस्य तैस्मिल्लतागहने पुनरूपविश्य तस्थौ । वयमपि कृतवीरुत्सं निधाना स्तत्प्रतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये शरीरस्थितिकरणायास्माभिरभ्यर्थितः प्रत्युवाच – 'वयस्यचन्द्रापीडस्य खल्वमी स्वजीवितादपि वल्लभतरा : प्राणा: । तद्यदि बलादपि परित्यज्य मां गच्छन्ति, तथाप्येषां संधारणे मया यँत्नः कार्य: । किं पुनरगच्छतामेव | चन्द्रापीडदर्शनेनैव चाहमर्थी । न मृत्युना | तदभ्यर्थनैवात्र निष्फला' इत्यभिधायोत्थाय स्नात्वा कन्दमूलफलैर्बनवासोचितां शरीरस्थितिमकरोत् । निर्वर्तितशरीरस्थितौ तस्मिन्वयमपि कृतवन्तः । अनेनैव च क्रमेण । मे मम तद्दर्शनसुखं प्राप्तमपि लब्धमपि करतलादेव हस्ततलादेव । एवं पूर्वोक्तन्यायेनाच्छिद्याक्षिप्य दैवेन वि धिना नीतं गृहीतमित्यभिदधान इति ब्रुवाणश्च कौतुकात्कुतूहलेनै तकि वर्तते, येन हेतुना त्वमेवं भाषस एवं वदसि | देवस्य चन्द्रापीडस्य समीपमभ्यर्ण नायासि नागच्छसि । इत्यस्माभिः पुनः पुनर्वारंवारं पृष्टोऽप्यनुयु- क्तोऽप्यभ्यवादवोचत् । अहमेवं वक्तुं कथयितुं लज्जे त्रपामि । तथापि लज्जावत्त्वेऽपि वयस्यचन्द्रापीड स्यैव जीवितेन प्राणितेन शपामि शपथं करोमि, यद्यहं किमपि जानाम्यवकलयामि । केन कारणेनातो गन्तुं यन्न शक्लोमि न समर्थो भवामीति | अपि च युक्त्यन्तरे | भवतामपि युष्माकमप्ययं वृत्तान्त उदन्तः प्रत्यक्ष एवा- नुभवसिद्ध एव । तत्तस्माद्धेतोर्भवन्तो व्रजन्तु गच्छन्तु | इत्युक्त्वा तूष्णीमभूत् । मौनेन स्थितवानित्यर्थः । मुहू- तदिवोत्थाय चोत्थानं कृत्वा च तेषु तेषु रम्यतरेष्वतिमनोहरेषु तरुतलेषु वृक्षतलेषु लतागहनेषु वल्लीगहरेषु स- रस्तीरेषु तटाकत टेषु तस्मिंश्च देवायतने चैत्ये किमपि किंचिदपि नष्टमिव गतमिवान्विष्यञ्शोधयन् न अन्य स्मिन्दृष्टिर्यस्यैवंभूतो बभ्राम भ्रमणं चकार । चिरमिव चिरकालसदृशं भ्रान्त्वा च भ्रमणं कृत्वा खिन्नः खेदं प्राप्तोऽन्तरात्मा मनो यस्य स सनिर्वदं सस्वावमाननमूर्ध्वमुपरिटान्निःश्वस्य निःश्वासं मुक्ला तस्मिन्पूर्वोक्के ल- तागहने पुनर्द्वितीयवारमुपविश्योपवेशनं कृत्वा तस्थौ स्थितवान् | कृतं विहितं वीरुधां वीनां संनिधानं स मीपं यैरेवंविधा वयमपि तस्य वैशम्पायनस्य प्रतिबोधनं तस्य प्रत्याशा वाञ्छा तथा स्थिता एव | समधिके किंचि दधिके यामद्वये प्रहरद्वितये गतवति व्यतीते सति शरीरस्थितिकरणाय देहधारणाकृतेऽस्माभिरम्यर्थितः प्रार्थितः - प्रत्युवाच प्रत्यब्रवीत् । वयस्यस्य मित्रस्य चन्द्रापीडस्य खलु निश्चयेनामी प्राणाः स्वजीवितादपि स्वकीयजीवित