पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४७७ नमुत्सृज्यायाता भवन्तः कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे हृदयम्' इति । ते चैवं पृष्टा व्यज्ञपयन्— 'देव, श्रूयतां यथावृत्तम् | पृष्ठतः स्कन्धावारमनु- पालयद्भिः शनैः शनैर्वैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गतवति देवे तैस्मिन्दि- वसे सुगृहीतत्वा सेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण | अन्य- स्मिन्नहन्याहतायां प्रयाणभेर्या सज्जीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात् । अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्स्नात्वा प्रणम्य चास्यैव तीरभाजि सि - द्धायतने भगवन्तं भवानीप्रभुं महेश्वरं शशाङ्कशकलशेखरं ब्रजामः | दिव्यजनसेविता केन कदा पुनः स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधाय चरणाभ्यामेवाच्छोदसरस्तीरमयासीत् । तत्र चातिरभ्यतयैव सर्वतो दत्तदृष्टिः संचरन्नमरका मिनीश्रोत्रशिखरारोहणप्रणयोचितैस्तरंगा- निलाइ तिविलोलवृत्तिभिः किसलयैर विरलकुसुममकरन्दलोभपुञ्जितानां च मत्तमधुलिहां म जुना सिञ्जितरवेणं दूरादाह्वयन्तमिव, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दश- वैशम्पायनो नागतो नायातः । क वेति । कुत्र वा स्थितोऽवस्थानं कृतवान्, केन वा प्रसङ्गेन संबन्धेन स्थितः, कथं वा केन प्रकारेण तं वैशम्पायनमेका किनमुत्सृज्य त्यक्त्वा भवन्त आयाता आगताः । कथं वा भवद्भिर्युष्माभिर्बलादपि हटात्कारेणासौ मन्त्रिसुतो नानीतः । इत्येतदवगन्तुं ज्ञातुं मे मम हृदय- मुत्ताम्यति । उत्पीडयतीत्यर्थः । ते चैवममुना प्रकारेण पृष्टाः प्रश्नविषयीकृताः सन्त इति व्यज्ञपयन्निति विज्ञप्तिं चक्रुः । एतद्दर्शयन्नाह – हे देव हे स्वामिन्, यथावृत्तं यथाभूतं श्रूयतामाकर्ण्यताम् | पृष्ठतः पश्चाद्भागे स्कन्धावारं सैन्यं शनैः शनैर्मन्दं मन्दमनुपालयद्भिरनुरक्षद्भिवैशम्पायनेन सह भवद्भिर्युष्माभि- रागन्तव्यमित्यादिश्य कथयित्वा देवे चन्द्रापीडे गतवति चलिते सति तस्मिन्दिवसे देवप्रयाणकदिने घासो यवसमिन्धमिध्म । आदिशब्दाद्धस्त्यश्वादीनां भक्ष्यम् एतत्प्रभृतेरुपकरणजातस्य सामग्री समूहस्य सुगृहीतत्वात्सुलभत्वात्स्कन्धावारेण न दत्तमेव न कृतमेव प्रयाणं चलनम् । अन्यस्मिन्नहनि तथ्यतिरिक्त दिने प्रयाणभेर्यां गमनदुन्दुभावाहतायां ताडितायामश्वादिके सावने सज्जीक्रियमाणे सत्यारोहणार्थमारोप्यमाणपर्या- णादिके सति प्रातरेव प्रत्यूष एवास्मान्वैशम्पायन इत्यभ्यधादित्यूचिवान् । इतियोत्यमाह - अतीति । अतिपु- ण्यमतिपवित्रं ह्यच्छोदाख्यमच्छोदाभिधानं सरस्तटाकं पुराणे श्रूयत आकर्ण्यते । तस्माद्धेतोरस्मिन्सरसि स्नात्वा स्नानं कृत्वास्यैव सरसस्तीरभाजि तटभाजि सिद्धायतने चैले शशाङ्कस्य चन्द्रस्य शकलं खण्डं तदेव शिखरो मु कुटो यस्यैवंभूतं भगवन्तं माहात्म्यवन्तं भवान्याः पार्वत्याः प्रभुं खामिनम् । क्वचित् 'भवाभवप्रभुम्' इति पाठो- ऽपि दृश्यते । तेन तत्र नित्यानित्यवामिनमित्यर्थः । महेश्वरं रुद्रं प्रणम्य नमस्कृत्य च व्रजामो गच्छामः | दि व्यजनसेविता केनास्मत्पक्षपातिना स्वप्नेऽपि स्वापदशायामपि कदा कस्मिन्काले पुनः 'पुनर्विशेषयोः' इयं भूमि- रियं वसुधालोकितावलोकितेत्यभिधा येत्युक्त्वा चरणाभ्यामेव | पादचारिणेत्यर्थः । अच्छोदसरस्तीरमयासीदाय-